अभिसमयालंकारवृत्तिः स्फुटार्था · अध्याय 6
इति संस्कृतासंस्कृतधात्वोरभावत्वेन आलम्बनोपपत्तौ, सर्वथा नीरूपत्वाद् आलम्बनस्वभावावधारणे, भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने, तथतास्वभावत्वेन संवृतिपरमार्थसत्यद्वये, दानाद्यनुपलम्भेन प्रयोगे, बोद्धव्याभावाद् बुद्धरत्ने, नामधेयमात्रत्वाद् धर्मरत्ने, रूपाद्यालम्बनप्रतिषेधात् संघरत्ने, दानाद्यनुपलम्भेन उपायकौशले, भावाभावोभयरूपाधिगमप्रतिषेधात् तथागताभिसमये, प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे, विभावितमार्गफलासाक्षात्करणेन मार्गे, हानोपादानाभावेन विपक्षे प्रतिपक्षे च, धर्म्यभावाद् धर्मलक्षणे, स्वसामान्यलक्षणानुपपत्त्या भावनायाञ्च परस्परविरुद्धा भाषार्थानुष्ठानेन अयुज्यमानतया संशयरूपाः षोडश विप्रतिपत्तीर्यथानिर्दिष्टविषयत्वेन सर्वाकारज्ञताधिष्ठानाः सर्वेषामेव अविदितबोधिसत्त्वोपायकौशलजनप्रवादिनां यथासम्भवमुभयसत्याश्रितोपायकौशलेन निराकृत्य सम्यक् सर्वथा निश्चयमुत्पाद्य कल्याणकामैर्बोधिसत्त्वैरानन्तर्यसमाधिरधिगम्यत इति ।
इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पञ्चमाधिकारवृत्तिः ।
आनुपूर्विकाधिकारः षष्ठः
प्राप्तमूर्धा ऽभिसमयो व्यस्तसमस्तत्वेन अधिगतानर्थान् अनुपुर्वीकृत्य स्थिरीकरणाय विभावयतीत्यनुपूर्वाभिसमयमाह -
दानेन प्रज्ञया यावद् बुद्धादौ स्मृतिभिश्च सा ।
धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता
मूल पाठ: Abhisamayālaṃkāravṛttiḥ sphuṭārthā · Edition: Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0