अभिसमयालंकारवृत्तिः स्फुटार्था · अध्याय 0
प्रज्ञापारमितोपदेशशास्त्रे
आचर्यहरिभद्रकृता
अभिसमयालङ्कारवृत्तिः स्फुटार्था
सर्वाकारज्ञताधिकारः प्रथमः
नमः सर्वबुद्धबोधिसत्त्वेभ्यः
मंगलाचरणम्
प्रज्ञापारमितायै यस्यास्तदलङ्कारकारिकाणाम् ।
सर्वालङ्करणार्थं क्रियते व्याख्या नमस्तस्यै
जगदासङ्गसङ्गेन त्वार्यासङ्गेन तायिना ।
आकर्ण्याजितनाथात्तन्महाशास्त्रं व्यभज्यत
जगद्धितपरो बन्धुः वसुबन्धुः स्वकाशयम् ।
चान्तर्ज्ञेयं समाश्रित्य तद्व्याख्यामकरोत्ततः
आर्यान्तर्गणितः ख्यातो विमुक्तिरिति तत्कृताम् ।
अकृतामिव तां द्रष्ट्वा चक्रे ऽन्यां मध्यया धिया
ततो विमुक्तिसेनेन शास्त्राण्यप्राप्य सर्वशः ।
श्रद्धाभूमिस्थितेनापि व्याख्याता स्वमनीषया
एवं विद्वद्वरैः प्रोक्ते किञ्चन्नैयून्यमीक्ष्यते ।
अस्मिन् सर्वं सुसम्पन्नं महदाश्चर्यकारकम्
अयं सुदुर्लभः पन्थाः गम्भीरश्च यथार्थकः ।
सुविमृश्यश्च विद्वद्भिः प्राप्तो बुद्धानुकम्पया
सर्वथा मम नास्त्येव गोचरो ऽप्यहमुत्सहे ।
पुण्यविध्यनुकूलत्वात् स्वपरोपचिकीर्षया
मूल पाठ: Abhisamayālaṃkāravṛttiḥ sphuṭārthā · Edition: Ram Shankar Tripathi: Abhisamayalankaravrti sputartha. Sarnath: Central Institute of Higher Tibetan Studies, 1977, pp. 3-44. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0