भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकरनामप्रज्ञापारमितोपदेशशास्त्र · अध्याय 5

5.1

॥ अभिसमयालङ्कारे प्रज्ञापारमितोपदेशशास्त्रे
सर्वाकाराभिसंबोधाधिकारश् चतुर्थः ॥
स्वप्नान्तरे ऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् ।
मुर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम्

5.2

जम्बुद्विपजनेयत्ताबुद्धपूजाशुभादिकाम् ।
उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका

5.3

त्रिसर्वज्ञत्वधर्माणां परिपुरिरनुत्तरा ।
अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते

5.4

चतुर्द्विपकसाहस्रद्वित्रिसाहस्रकोपमः ।
कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः

5.5

प्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ ।
ग्राह्यौ विकल्पौ विज्ञेयावयाथाविषयात्मकौ

5.6

द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ ।
पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ

5.7

ग्राह्यौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ ।
इति ग्राहकभावेन शुन्यतालक्षणं तयोः

5.8

एष स्वभावे गोत्रे च प्रतिपत्समुदागमे ।
ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः

5.9

स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले ।
प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः

5.10

भवशान्तिप्रपातित्वान्न्यूनत्वे ऽधिगमस्य च ।
परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते

5.11

परप्रत्ययगामित्वे समुद्देशनिवर्तने ।
प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः

5.12

पृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः ।
निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः

5.13

ग्राहकः प्रथमो ज्ञेयो ग्रगणप्रतिमोक्षणे ।
मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च

5.14

स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः ।
सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ

5.15

यथोद्देशमनिर्याणे मार्गामार्गावधारणे ।
सनिरोधे समुत्पादे वस्तुयोगवियोगयोः

5.16

स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः ।
प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः

5.17

बोधौ सन्दर्शनान्येषां तद्धेतोश्च परिन्दना ।
तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः

5.18

क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरूच्यते ।
क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम्

5.19

प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना ।
विकल्पजातं किं क्षीणं वानुत्पत्तिमागतम्

5.20

सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः ।
कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया

5.21

नापनेयमतः किंचित्प्रक्षेप्तव्यं न किंचन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते

5.22

एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः ।
स एकक्षणिकः क्षान्तिसंगृहीतो ऽत्र दृक्पथे

5.23

स समाधिं समापद्य ततः सिंहविजृम्भितम् ।
अनुलोमं विलोमं प्रतीत्योत्पादमीक्षते

5.24

कामाप्तमवधीकृत्य विज्ञानमसमाहितम् ।
सनिरोधाः समापत्तीर्गत्वागम्य नव द्विधा

5.25

एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात् ।
अवस्कन्दसमापत्तिरानिरोओधमतुल्यता

5.26

संक्षेपे विस्तरे बुद्धैः सनाथ्येनापरिग्रहे ।
त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि

5.27

एको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः ।
द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः

5.28

अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया ।
हीनयानमनस्कारौ संबोधेरमनस्कृतिः

5.29

भावने ऽभावने चैव तद्विपर्यय एव च ।
अयथार्थश्च विज्ञेयो विकल्पो भावनापथे

5.30

ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः ।
धर्मप्रज्ञप्त्यशून्यत्वे सक्तिप्रविचयात्मकः

5.31

कृतेन वस्तुनो यानत्रितये च स कीर्तितः ।
दक्षिणाया अशुद्धौ च चर्यायाश्च विकोपने

5.32

सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः ।
भावनामार्गसंबुद्धो विपक्षस्तद्विघाततः

5.33

सर्वज्ञतानां तिस्र्^ईणां यथास्वं त्रिविधावृतौ ।
शान्तिमार्गे तथतादिसंप्रयोगवियोगयोः

5.34

असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि ।
द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः

5.35

आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव ।
सर्वाकारजगत्सौख्यसाधना गुणसंपदः

5.36

सर्वाः सर्वाभिसारेण निकामफलशालिनम् ।
भजन्ते तं महासत्त्वं महोदधिमिवापगाः

5.37

त्रिसाहस्रजनं शिष्यखड्गाधिगमसंपदि ।
बोधिसत्त्वस्य च न्यामो प्रतिष्टाप्य शुभोपमाः

5.38

कृत्वा पुण्यबहुत्वेन बुद्धत्वप्तेरनन्तरः ।
आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत्

5.39

आलम्बनमभावो ऽस्य स्मृतिश्चाधिपतिर्मतः ।
आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम्

5.40

आलम्बनोपपत्तौ च तत्स्वभावावधार्रणे ।
सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ

5.41

प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः ।
विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः

5.42

लक्षणे भावनायां च मता विप्रतिपत्तयः ।
सर्वाकारज्ञताधारा षोढा दश च चादिनाम्

मूल पाठ: Abhisamayālaṃkaranāmaprajñāpāramitopadeśaśāstra · Edition: unknown · Data entry Christian Coseru · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc