अभिसमयालंकरनामप्रज्ञापारमितोपदेशशास्त्र · अध्याय 1
कृतिर्मैत्रेयनाथस्य ॥
ओं नमो मैत्रेयनाथाय ॥
या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रवकान्
या मार्गज्ञतया जगद्धितक्रितां लोकार्थसंपादिका ।
सवार्कारमिदं वदन्ति मुनयो विश्वं यया संगता
स्तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मन्ने नमः ॥
सर्वाकारज्ञतामार्गः शासित्रा यो ऽत्र देशित ।
धीमन्ती वीक्षीषीरंस्तमनालीढं परैरिति
स्मृतौ चाधाय सूत्रार्थं धर्मचर्या दशात्मिका ।
सूखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम्
प्रज्ञापारमिताष्टाभीः पदार्थैः समुदीरिता ।
सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः
सर्वाकाराभिसंबोधो मुर्धप्रार्प्तो ऽनुपूर्विकः ।
एकक्षणभिसंबोधो धर्मकायश्च ते ऽष्टधा
चित्तोत्पादो ऽववादश्च निर्वेधाङ्गं चतुर्विधं ।
आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः
आलम्बनं समुद्देशः संनाहप्रस्थितिक्रिये ।
संभाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः
ध्यामीकरणतादीनि शिष्यखङ्गपथौ च यौ ।
महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणैः
कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः ।
परिणामे ऽनुमोदे च मनस्कारावनुत्तमौ
निर्हारः शुद्धिरत्यन्तामित्ययं भावनापथः ।
विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता
प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः ।
अनुपायेन दूरत्वमुपायेनाविदूरता
विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च ।
दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते
आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः ।
मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः
समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा ।
सर्वाकाराभिसंबोध एष सोपायकौशलः
लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः ।
चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः
प्रत्येकं दर्सनाख्ये च भावनाख्ये च वर्त्मनि ।
आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः
मूर्धाभिसमयः त्रेधा दशधा चानुपूर्विकः ।
एकक्षणाभिसंबोधो लक्षणेन चतुर्विधिः
स्वाभाविकः ससांभोगो नैर्माणिको ऽपरस्तथा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः
चित्तोत्पादः परार्थाय सम्म्यक्संबोधिकामता ।
समासव्यासतः सा च यथासुत्रं स चोच्यते
भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः ।
वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः
नृपगञ्जमहामार्गयानप्रस्रवणोदकैः ।
आनन्दोक्तिनदीमेघैर्द्वाविंशतिविधः स च
प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु ।
असक्तावपरिश्रान्तौ प्रतिपत्संपरिग्रहे
चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च ।
दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः
मृदुतिक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलंकुलौ ।
एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः
प्लुतास्त्रयो भवस्याग्रपरमो रूपरागह ।
दृष्टधर्मशमः कायसाक्षी खङ्गश्च विंशतिः
आलम्बनत आकाराद्धेतुत्वात्संपरिग्रहात् ।
चतुर्विकल्पसंयोगं यथास्वं भजतां सताम्
श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः ।
मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता
आलम्बनमनित्यादि सत्याधारं तदाकृतिः ।
निषेधो ऽमिनिवेशादेर्हेतुर्यानत्रयाप्तये
रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते ।
रूपादावस्थितिस्तेषां तद्भावेनास्वभावता
तयोर्मिथःस्वभावत्वं तदनित्याद्यसंस्थितिः ।
तासां तद्भावशून्यत्वं मिथः स्वभाव्यमेतयोः
अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् ।
परीक्षणं च प्रज्ञायाः सर्वस्यानुपलम्भतः
रूपादेरस्वभवावत्वं तदभावस्वभावता ।
तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता
तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञता ।
समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः
मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना ।
इति निर्वेधभागीयं मृदुमध्याधिमात्रतः
द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः ।
मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः
द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः ।
स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा
चित्तानवलीनत्वादि नईःस्वाभाव्यादिदेशकः ।
तद्विपक्षपरित्यागः सर्वथा संपरिग्रहः
षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः ।
तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह
शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च ।
ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते
धर्मधातोरसंभेदाद्गोत्रभेदो न युज्यते ।
आधेयधर्मभेदात्तु तद्भेदः परिगीयते
आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः ।
लौकिकाधिगमाख्याश्चं ये च लोकेत्तरा मताः
सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये ।
शिष्यसाधारणा धर्मा ये चासाधारना मुनेः
सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमत्रये ।
त्रिभिर्महत्त्वैरूद्देशो विज्ञेयो ऽय स्वयंभुवाम्
दानादौ षड्विध तेषां प्रत्येकं संग्रहेण या ।
संनाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिथा
द्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च ।
गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु
उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये ।
प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी
दया दानादिकं षट्कं शमथः सविदर्शनः ।
युगनद्धश्च यो मार्ग उपाये यच्च कौशलम्
ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश ।
प्रतिपक्षश्च विज्ञेयः संभारप्रतिपत्क्रमः
लभ्यते प्रथमा भुमिर्दशधा परिकर्मणा ।
आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता
त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा ।
सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा
धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते ।
ज्ञेयम् च पारिकर्मैषां स्वभावानुपलम्भतः
शीलं कृतज्ञता क्षान्तिः प्रमोद्यं महती कृपा ।
गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम्
अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् ।
बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता
ह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम् ।
वनाशाल्पेच्छता तुष्टिर्धूतसंलेखसेवनम्
शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् ।
निर्वित्सर्वास्तिसंत्यागो ऽनवलिनानपेक्षते
संस्तवं कुलमात्सर्यं स्थानं संगणिकावहम् ।
आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान्
मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् ।
विवर्जयन् समाप्नेति दशैतान् पञ्चमीं भुवम्
दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् ।
शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः
याचितो ऽनवलिनश्च सर्वत्यागे ऽप्यदुर्मनाः ।
कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्रुते
आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः ।
निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च
त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता ।
रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता
शून्यतायां विवदश्च तद्विरोधश्च विंशतिः ।
कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम्
त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता ।
करूणामनना धर्मसमतैकनयज्ञता
अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा ।
कल्पनायाः समुद्धातः संज्ञादृक्क्लेशवर्जनम्
शमथस्य च निध्यप्तिः कौशलं च विदर्शने ।
चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च
सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् ।
सर्वत्र स्वात्मभावस्य दर्शनं चेति विंशतिः
सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा ।
बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे
अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः ।
संचिन्त्य च भवादानमिदं कर्माष्टधोदितम्
प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता ।
नदीव प्रतिभानानां गर्भावक्रान्तिरूत्तमा
कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः ।
नैष्क्रम्यबोधिवृक्षाणां गुणपूरेश्च संपदः
नव भूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते ।
येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः
प्रतिपक्षो ऽष्टधा ज्ञेयो दर्षनाभ्यासमार्गयोः ।
ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये
उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने ।
अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम्
सर्वाकारज्ञतयां च निर्याणं मार्गगोचरम् ।
निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका
मूल पाठ: Abhisamayālaṃkaranāmaprajñāpāramitopadeśaśāstra · Edition: unknown · Data entry Christian Coseru · GRETIL (Göttingen) · CC BY-NC-SA 4.0