भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमयालंकार · अध्याय 8

8.1

इत्यभिसमयालङ्कारे नाम
प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारः ।
धर्मकायाधिकारः अष्टमः
1 - स्वभावकायः
सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः

8.2

2 - ज्ञानधर्मकायः
बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः ।
नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम्

8.3

अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः ।
अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः

8.4

सर्वाकाराश्चतस्त्रो ऽथ शुद्धयो वशिता दश ।
बलानि दश चत्वारि वैशारद्यान्यरक्षणम्

8.5

त्रिविधं स्मुत्युपस्थानं त्रिधासंमोषधर्मता ।
वासनायाः समुद्घातो महती करुणा जने

8.6

आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः ।
सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते

8.7

श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता ।
तत्क्लेशस्त्रोतौच्छित्त्यै ग्रामादिषु जिनारणा

8.8

अनाभोगमनासङ्गमव्याघातं सदा स्थितम् ।
सर्वप्रश्नापनुद् बौद्धं प्रणिधिज्ञानमिष्यते

8.9

परिपाकं गते हेतौ यस्य यस्य यदा यदा ।
हितं भवति कर्त्तव्यं प्रथते तस्य तस्य सः

8.10

वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति ।
समुत्पादे ऽपि बुद्धानां नाभव्यो भद्रमश्नुते

8.11

इति कारित्रवैपुल्याद् बुद्धो व्यापी निरुच्यते ।
अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते

8.12

3 - सम्भोगकायः
द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् ।
साम्भोगिको मतः कायो महायानोपभोगतः

8.13

चक्राङ्कहस्तः क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपादः ।
करौ सपादौ तरुणौ मृदू च समुत्सदै सप्तभिराश्रयो ऽस्य

8.14

दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरुबाहुः कोशावनद्धोत्तमबस्तिगुह्यः

8.15

सुवर्णवर्णः प्रतनूच्छविश्च प्रदक्षिणैकैकसुजातरोमा ।
ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः

8.16

हीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः ।
उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः

8.17

तुल्याः प्रमाणे ऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः ।
नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि

8.18

यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः ।
तस्य तस्य प्रपूर्यायं समुदागमलक्षणः

8.19

गुरूणामनुयानादिर्दृढता संवरं प्रति ।
संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः

8.20

वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च ।
इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः

8.21

ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः ।
वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः

8.22

गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः ।
विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता

8.23

मुष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता ।
पूर्वव्यञ्जनता चारुपृथुमण्डलगात्रता

8.24

समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता ।
अदीनोत्सदगात्रत्वे सुसंहतनगात्रता

8.25

सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता ।
वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता

8.26

दक्षिणावर्तता नाभेः समन्ताद् दर्शनीयता ।
समाचारः शुचिः कालतिलकापगता तनुः

8.27

करौ तुलमृदू स्निग्धगम्भीरायतलेखता ।
नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता

8.28

मृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता ।
चारूमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः

8.29

अनुपूर्वी गतास्तुङ्गा नासिका परमं शुचिः ।
विशाले नयने पक्ष्मचितं पद्मदलाक्षिता

8.30

आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ ।
पीनायतौ समौ कर्णावुपघातविवर्जितौ

8.31

ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता ।
भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमुर्तयः

8.32

केशा अपरुषाः पुसां सौरभ्यादपहारिणः ।
श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम्

8.33

4 - नैर्माणिककायः
करोति येन चित्राणि हितानि जगतः समम् ।
आभवात् सो ऽनुपच्छिन्नः कायो नैर्माणिको मुनेः

8.34

बुद्धकारित्राणि तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते ।
गतीनां शमनं कर्म संग्रहे च चतुर्विधे

8.35

निवेशनं ससंक्लेशे व्यवदानावबोधने ।
सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च

8.36

बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये ।
संकेते ऽनुपलम्भे च परिपाके च देहिनाम्

8.37

बोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य निवारणे ।
बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति

8.38

अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे ।
बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने

8.39

विपर्यासप्रहाणे च तदवस्तुकतानये ।
व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति

8.40

व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् ।
धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम्

मूल पाठ: Abhisamayālaṃkāra · Edition: Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc