अभिसमयालंकार · अध्याय 7
इत्यभिसमायालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारः ।
एकक्षणाभिसम्बोधाधिकारः सप्तमः
1 - अविपाकललक्षणः
अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् ।
एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः
अरघट्टं यथैकापि पदिका पुरुषेरिता ।
सकृत् सर्वं चालयति ज्ञानमेकक्षणे तथा
2 - विपाकलक्षणः
विपाकधर्मतावस्था सर्वशुक्लमयी यदा ।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा
3 - अलक्षणलक्षणः
स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया ।
अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति
4 - अद्वयलक्षणः
स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते ।
धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति
मूल पाठ: Abhisamayālaṃkāra · Edition: Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0