भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमाचारिकधर्म · भाग 81100

युष्माकं सर्व्वे(सार्द्धे)विहारिका अन्तेवासिका ओध्यायन्ति ॥ वयं येव
ताव चीवरकानि धोवंता सीवन्ता रञ्जेन्ता तलविलयं (ज्.184) गच्छामः ।
इमे पि न जानन्ति । कथं अन्तरघरं प्रविशन्तेहि चीवरके
प्रतिपद्यितव्यं । आहंसु । आम भगवन्
भगवान् आह । तेन हि एवं अन्तरघरं प्रविश(40ब्6)न्तेन चीवरे
प्रतिपद्यितव्यं । किन् ति दानि एवं अन्तरघरं प्रविशन्तेन चीवरे
प्रतिपद्यितव्यं । नायं ताव क्षमति भिक्षुणा अन्तरघरं प्रविशन्तेन
चीवरं कड्ढन्तेन प्रविशितुं यहिं लग्नं तहि लग्नं यहिं पाटितं
तहिं पाटितं । अथ खलु यदि ताव ग्रीष्मकालो भवति । दूरे च ग्रामो
भवति । सीर्षे वा स्कन्धे वा चीवरं कृत्वा गन्तव्यं । यदा
ग्राममूलग(40ब्7)तो भवति । यदि तहिं ओघो वा तडागम् वा भवति
पुष्किरिणी वा तहिं पादां प्रक्षालित्वा चीवरं प्रावरित्वा गण्ठिपार्श्वं
आबन्धित्वा प्रविशितव्यं । अथ दानि उदकं न भवति । पत्रशाखाय वा
तृणकेहि वा पादा जंघा प्रस्फोटित्वा प्रावरित्वा प्रवेष्टव्यं । अथ
दानि हेमन्तो भवति । प्रावरित्वा गन्तव्यं । परिमण्डलं चीवरं
प्रावरित्वा अन्तरघरं प्रविशित(41अ1)व्यं । परिवर्जित्वा । भ्रान्तो वा
अश्वो भ्रान्तो वा हस्ति भ्रान्तो वा रथो-अश्व वटवा चा(वा) ओहर
पार(परा)युक्तं कण्टकशाखा परिवर्जन्तेन सुधापाण्डुल(ले)पनायो
परिवर्जन्तेन प्रविशितव्यं । अथ दानि भिक्षुस्य (इइ.प्.41) यत्नं
करेन्तस्य चीवरं धूलीये पूरितं भवति । प्रस्फोटयितव्यं ।
कर्द्दमेन वा विनाशितव्यं भवति । धोवितव्यं । कण्टकशाखायां वा
लग्नं भवति । (ज्.185) न दानि मा चीव(41अ2)रं मा कण्टकशाखा
न्ति(त्ति) । उद्रन्ति अच्छितव्यं । अथ खलु स्तोकस्तोकं मोचयितव्यं ।
सुवा(धा)पाण्डुलेपना भित्ती भवति वर्जयितव्या । अथ दानि
शम्बाव(ध)रथ्या भवति । सुसंवृतेन पश्यिल्लकेन अतिक्रामितव्यं ।
एवं अन्तरघरं प्रविशन्तेन चीवरे प्रतिपद्यितव्यं । न प्रतिपद्यति ॥
आभिसमाचारिकान् धर्म्मान् अतिक्रामति* ॥ ॥
वि. 4 म्स्.41अ2 (ज्.185.6); छ्. 512अ1
भगवान् श्रावस्त्याम् विहरति विस्तरेण नि(41अ3)दानं कृत्वा ते दानि
आयुष्मन्तो नन्दनोपनन्दना अन्तरघरं प्रविष्टा समाना मञ्चा
चर्याणं च मा(सा)पाश्रया च दारकदारिकेहि पादेहि
मर्द्दितपरिमर्द्दिता । धूलीय कर्द्दमेन मक्षितपरिमक्षिता तेहि
प्रज्ञप्तेहि उपविंश(शं)ति । चीवराणि विनाशयन्ति । सुधापाण्डुलेपनायो
भित्तीयो घसंता उपविंश(शं)ति तेषां सर्व्वे(सार्द्धे)विहारि(41अ4)का
अन्तेवासिका ओध्यायन्ति । (ज्.186) वयं येव ताव चीवराणि धोवेन्ता सीवेन्ता
रञ्जेन्ता तलविलयं गच्छामः । इमे पि न जानन्ति कथं अन्तरघरं
प्रविष्टेहि चीवरेहि प्रतिपद्यितव्यं । एव(त)ं प्रकरणं भिक्षूहि श्रुतं
भिक्षू भगवतो आरोचयेंसु । भगवान् आह । शब्दापयथ
नन्दनोपनन्दनां । ते दानि शब्दापिता । भगवान् आह । स(41अ5)त्यं
भिक्षवो नन्दनोपनन्दना एवं नाम यूयं अन्तरघरं प्रविष्टा

समाना दारकदारिकाहि मञ्चञ् च । पीठञ् च त्रेपश्यका च पादेहि
मर्दितविमर्दिता । धूलीये कर्दमेहि विनाशितकेहि प्रज्ञप्तेहि (इइ.प्.42)
निषीदथ सुधापाण्डुलेपनाहि भित्तीहि घसंता प्रविशथ चीवराणि
विनाशयन्ति युष्माकं सार्द्धेविहारिका अन्तेवासिका ओध्याय(41अ6)न्ति ।
पश्यथ भणे वयं येव चीवरकानि धोवन्ता सीवन्ता रञ्जेन्ता
तलविलयं गच्छामः । इमे न जानन्ति । कथं अन्तरघरं प्रविष्टेहि
चीवरेहि प्रतिपद्यितव्यं । आहंसु । आम भगवन्
भगवान् आह । तेन हि-य्-एवं अन्तरघरं प्रविष्टेहि चीवरे
प्रतिपद्यितव्यं । किन् ति दानि एवं अन्तरघरं प्रविष्टेहि चीवरे
प्रतिपद्यितव्यं । एषो दानि भिक्षुः । अन्तरघ(41अ7)रं प्रविष्टो आसनेन
निमन्त्रीयति । आसनं जानितव्यं । यदि ताव आसनं भवति धूलीये वा
म्रक्षितं कर्द्दमेन वा विनासितकं । ओमïलमïलं वा प्रज्ञप्तकं
भवति । न क्षमति तहिं उपविशितुं । यदि ताव भिक्षुस्य
विस्रम्भ(ज्.187)कुलं भवति । वक्तव्यं । भगिनीयो आसनं प्रज्ञपेथ
मा चीवरकानि विनशिष्यन् ति । यं कालं तहिं प्रज्ञप्तं भवति । आमिला
वा अस्तरि(41ब्1)का वा कोचको वा कलन्तरको पट वा ततो निषीदितव्या ।
अथ दानि अश्राद्धकुलं भवति । भिक्षुस्य वा अविस्रम्भकुलं भवति
ततो च स्तूपिकं वा सांघिकं वा कार्यं अधीनं भवति । नापि क्षमति ।
तथा येव निषीदितुं । अथ खलु लेङ्कटखण्डेन रजोहरणकेन वा ।
प्रस्फोटिय कसं(ंस)कलिकां प्रज्ञपिय उपविशितव्यं । अथ दानि एवं पि
न भवति । अन्त(41ब्2)मसतो हस्तेनापि प्रस्फोटिय आमर्जिय
उपविशितव्यं । नापि क्षमति । अन्तरघरे प्रविष्टेन सुधापाण्डुंलेपना
भित्तीय (घ)स(ं)तेन अतिक्रमितुं । न क्षमति । सापाश्रयं वा
ओपाश्रयम् वा ओमयिलोमयिलं वा (इइ.प्.43) पण्डरं विपाण्डरं
अपाश्रयितुं । अथ दानि भिक्षुः । जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा
भवति । वक्तव्यं भगिनी प्रज्ञपेहि कुड्डस्मिं यहिं
अपाश्र(41ब्3)यितव्यं । यं कालं तहिं बिंबोहनं वा अमिला वा अस्तरिका
वा कोचको वा शाटको वा प्रज्ञप्तो भवति । ततो अपाश्रयितव्यं । अथ
दानि अश्राद्धकुलं भवति । न वा भिक्षुस्य विश्रम्भकुलं भवति ।
अन्तमसतो संकच्छिका पि स्कन्धे दत्वा अपाश्रयितव्यं । न क्षमति ।
(ज्.188) अन्तरघरं प्रविष्टेन चीवरकेन प्रतीच्छितुं । सर्प्पिखज्जकं
(41ब्4) वा तैलखज्जकं वा उक्खिनका वा तण्डुला प्रतिच्छितुं ।
क्लिन्नकानि वा पुष्पाणि प्रतिच्छितुं । क्षुद्रपाकानि वा फलानि
प्रतिच्छितुं । विक्षुण्णम् वा पात्रं गृह्नितुं । चिक्कन्ना वा हस्तान्
निर्मादितुं । माल्यम् वा क्लिन्नकं चिक्कना वा ओष्ठानि निर्मादयितुं ।
लभ्या दानि चीवरान्तरिकाय खक्खटानि फलानि गृह्नितुं । बदराणि वा
कोलकानि वा आमलका(41ब्5)नि वा हारीतकी वा तण्डुलानि वा अनोक्षीणका
वा माल्यम् वा आक्लिन्नकं शिम्बटीयो वा अथ दानि भिक्षुस्य यत्नं
करेन्तस्य चीवरक कर्द्दमेन वा नासितं भवति धोवितव्यं । धूलीये
वा ओतरितं भवति । प्रस्फोटयितव्यं । पाटितं वा विपाटितं भवति

सीवितव्यं । एवं अन्तरघरे प्रविष्टेन चीवरे प्रतिपद्यितव्यं । न
प्रतिपद्यति ॥ आभि(41ब्6)समाचारिकान् धर्म्मान् अतिक्रामति* ॥॥
वि. 5-6 म्स्.41ब्6 (ज्.188.13); छ्. 512अ2
भगवान् श्रावस्त्याम् विहरति । आयुष्मतो नन्दनस्य उपनन्दनो नाम
भ्राता सो दानि तस्य सार्व्वे(र्द्धे)विहारिकस्याह (इइ.प्.44) । एहि आयुष्मं
ग्रामं प्रविश्यामः । अहं च तत्र किञ्चिद् एव अकल्पीयं
अध्याचरिष्यामि । (ज्.189) मा कस्यचि आचिक्षेसि । अहं खलु ते पितॄयको
भवामि । सो दानि आह । पि(तॄ)यको भवाहि । मातुलको भवाहि । (41ब्7)
यदि त्वं तत्र किंचि अकल्पियं । अध्याचरिष्यसि । आचक्षिष्यामि । अहं सो
दान् आह । आचिक्षिष्यसि आह । आचिक्षिष्यं । सो दानि आह । आगच्छाहं तव
शेषयिष्यं । ते दानि महान्तानि कुलान्य् उपसंक्रमन्ति निमन्त्रीयन्ति ।
आर्य भक्तकृत्यं करेथ पुरेभक्तिकं करेथ खज्जकं खादथ
वनफलं भक्षथ । यथा प्रतिभानकं करेथ सो दानि न कहिंचि
अधिवासयति । (42अ1) पश्यति मा इमस्य दातव्यं भविष्यतीति यं कालं
पश्यति नैव एषो प्रतिबलो पिण्डाय अण्ठितुं । न च प्रतिबलो जेतवनं
संभावयितुं ति । ततो आह । आयुष्मन गच्छ त्वं न मे त्वया
सार्व्व(र्द्ध)ं फासु भवति कथाय वा निषद्याय वा एकस्यैव मम
फासु भवति । सो दानि शुष्केन मुखेन (ज्.190) पाण्डरेहि ओष्ठेहि
त्वरितत्वरितं निर्द्धावति । कालं निध्यायमानो सो (42अ2) दानि ततो येव
अनुपरिवर्त्तिय महात्मेहि कुलेहि इप्सितान्नाति(नि) भुक्ता तस्यैव अनुपदम्
एव निर्द्धावितो ये दानि भिक्षू जेतवनस्यारामद्वारकोष्ठकसमीपे
स्थान चंक्रमस्थाननिषद्यायोगम् अनुयुक्ता विहरन्ति । ते दानि तं
पश्यन्ति । उपशुष्केन मुखेन पाण्डरेहि ओष्ठेहि त्वरितत्वरितं
निर्द्धावितं कालं निध्यायन्तं तेषां भवति । यथा अयं ।
उ(42अ3)पशुष्केन मुखेन पाण्डरेहि ओष्ठेहि त्वरितत्वरितं निर्द्धावति ।
कालं निध्यायमानो भवितव्यम् अयं विप्रलब्धो । ते दानि तं
उच्चग्घन्ति आयुष्मन् स्निग्धो खलु ते सु(मु)खवर्ण्णो पिलिपिलायन्ति ।
ओष्ठा सुष्ठु खलु (इइ.प्.45) निर्द्धापीयति । यथापि दानि
नगरकुलोपकेन पितॄयकेन सार्द्धं प्रविष्टस्य इप्सितान्नानि भोजनानि
भु(42अ4)क्ताविस्या सो दानि आह । आयुष्मन् कुतो मे इप्सितान्नानि भोजनानि
भुक्तानि एवं च एवं चास्मि विप्रलब्धो एतं प्रकरणं भिक्षू
भगवतो आरोचयेंसु । भगवान् आह । शब्दापयथ उपनन्दनं सो दानि
शब्दापितो भगवान् आह । सत्यं उपनन्दन एवं नाम त्वं नन्दनस्य
सार्व्वे(र्द्धे)विहारिं जल्पसि । एहि आयुष्मन् (42अ5) ग्रामं प्रविशिष्यामः ।
अहं च तत्र किञ्चि अकल्पियं अध्याचरिष्यामि ॥ मा खलु कस्यचि
अ(आ)चिक्षिष्यसि । अहं खलु ते पितृयको भवामि । तद् एव (ज्.191) सर्व्वं
भगवान् विस्तरेण प्रत्यारोचयति । याव सो दानि आह । आयुष्मन् कुतो मे
इप्सितान्नानि भोजनानि भुक्तानि एवं च एवं चास्मि विप्रलब्धो आह । आम
भगवन् ।
भग(42अ6)वान् आह । दुष्कृतं ते उपनन्दन तेन हि एवं पुरेश्रमणेन

प्रतिपद्यितव्यं । एवं पश्चाच्छ्रमणेन प्रतिपद्यितव्यं । किन् ति दानि
एवं पुरेश्रमणेन प्रतिपद्यितव्यं । एवं पश्चाच्छ्रमणेन
प्रतिपद्यितव्यं । नायं ताव क्षमति । भिक्षुणा पश्चाच्छ्रमणो
प्रवेशितुं यो न प्रतिबलो तस्य च आत्मनो च वृत्तिं संविभजितुं । अथ
खलु यो प्रतिबलो तस्य च (42अ7) आत्मनो च वृत्तिं संविभजितुं । तेन
पश्चाच्छ्रमणो प्रवेशयितव्यो । एषो दानि भिक्षु उपाध्यायस्य वा
आचार्यस्य वा पश्चाच्छ्रमणो गच्छति । नापि क्षमति तेन दूरं
पृष्ठतो गन्तुं । नापि क्षमति । खुरेण खुरं हनन्तेन । अथ खलु
नात्यातिदूरं नात्यासन्नं गन्तव्यं । तेनापि दानि पुरेश्रमणेन नापि
क्षमति । घाडेन यथा ओड्डिताये ग्री(42ब्1)वाये गन्तुं । अथ खलु
युगमात्रं निध्यायन्तेन गन्तव्यं । अनेकाये भ्रान्तो वा हस्ति
आगच्छेय भ्रान्तो वा अश्वो भ्रान्तो वा रथो चण्डो वा श्वानो चण्डो वा
गोणो (इइ.प्.46) आगच्छेय न्ति(त्ति) । यदि ताव दक्षिणेनान्तेनागच्छति ।
वामेनान्तेन उच्चन्ति(त्ति)तव्यं । वामेनान्तेनागच्छति । दक्षिणेनान्तेन
उच्चत्तितव्यं । अथ दानि दुश्चक्षुको भवति । जरादुर्ब्बलो वा
व्याधिदुर्ब्बलो वा । (42ब्2) पश्चाच्छ्रमणेन वक्तव्यं । उपाध्यायो वा
आचार्यो वा वामहस्तिकम् वा दक्षिणहस्तिकं वा उच्चत्त न्ति(त्ति) । अथ दानि
न पश्यति हस्तेन गृह्नियाणं एकतो वा एकतो वा उच्चत्तयितव्यो । एषो च
दानि भिक्षुस्य सार्द्धेविहारी वा अन्ते(ज्.192)वासी वा पश्चाच्छ्रव(म)णं
प्रवेशेन्ति । यदि ताव प्रतिबलो भवति तस्य आत्मनो च वृत्तिं
संविभजयितुं । प्रवेशयितव्यो । अथ दा(42ब्3)नि न प्रतिबलो भवति ।
प्रवेशितो च तेन भवति । पश्चाच्छ्रमणो कालेन कालं विसर्जयितव्यो ।
तथा कर्त्तव्यं यथा प्रतिबलो भवति पिण्डपातम् वा अण्ठितुं ।
विहारकं वा गन्तुं ।
अथ दानि भिक्षुः शिरां विन्दा(द्धा)पयितुकामो भवति । बाहुशिरां
वाङ्गुल्यशिरां वा निलाटिं वा यदि ताव प्रतिबलो भवति ।
पश्चाच्छ्रमणस्य (42ब्4) आत्मनो चि(वि)त्तं संविभजितु(ं) वक्तव्यं । आस
त्वं सहितकां भुंजिय निर्द्धाविष्यामः । यं कालं शिराविद्धा
भवति । उभयेहि भुञ्जिय निर्द्धावितव्यं । अथ दानि न प्रतिबलो
भवति । कालेन कालं विसर्जयितव्यो । वक्तव्यं सुविहित गन्तव्यं ।
आगमिष्यं अहं, । येन वा तेन सार्द्धं तेनापि दानि पिण्डचारिकं वा
अण्ठियाण विहारं (42ब्5) वा गच्छिय आहारं कृत्वा । नापि दानि क्षमति ।
दिन्ना मम आनन्तिका ति । अदर्शनेन प्रियं कर्त्तुं, । अथ खलु भुक्तं
न भुक्तन् ति । अन्यस्य हस्ते पात्रं दत्वा तहिं गन्तव्यं । यदि ताव न
विद्धा शिरा (इइ.प्.47) भवति ग्लानस्य अनु(ज्.193)काल्यं आहारं दत्वा
सहितकेहि निर्द्धावितव्या । अथ दानि दूरगोचरो संघारामो भवति
भिक्षुस्य आत्मनो (42ब्6) आहारपर्येष्टिं पर्येथ(ष)माणस्य विकालो
भवति । एवं पि करिय गन्तव्यं । यदि ताव सो शिराविद्धो एव
निर्द्धावति । अयं प्रविष्टो भवति । रथ्यान्तरं वा पश्यति । ततो य्येव
निवर्त्तयितव्यं । नगरद्वारे पश्यति नगरद्वारतो निवर्त्तितव्यं । पन्थे

पश्यति । पन्थातो निवर्त्तितव्यं । यतो एव पश्यति । ततो एव निवर्त्तितव्यं ।
अथ दानि कोचि वन्दति वक्तव्यं । (42ब्7) अमुको वन्दति । अथ दानि
निमन्त्रेति उपलक्षितव्यं । पश्चाच्छ्रमणेन यतो निर्ग्गतो भवति । ततो
आरोचयितव्यं । अमुकेन उपाध्यायो निमन्त्रितो अमुकेन वा अन्तरघरे
भुंजति । पुरेश्रमणो न प्रतिबलो भवति दक्षिणाम् आदिशितुं, । आहंसु ।
आदिश दक्षिणां न दानि पश्चाच्छ्रमणेन वक्तव्यं । यथा येव
अग्रासनं अग्रोदकं अग्रपिण्ड(43अ1)पातं परिभुञ्जसि तथा येव
दक्षिणाम् आदिशाहि । अथ खलु आदिशितव्यं पश्चाच्छ्रमणेन । एवं
पुरेश्रमणेन प्रतिपद्यितव्यं । एवं पश्चाच्छ्रमणेन
प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
वि. 7-8 म्स्.43अ1 (ज्.193.16); छ्. 512अ19
भगवान् श्रावस्त्यां विहरति । अपरेण दानि भिक्षुणा भिक्षु अध्येष्टा
आयुष्मन् इच्छामि पिण्डपातं निक्कालियमा(43अ2)नं सो दानि आह । आनेहि
पात्रं सो दानि भिक्षु पिण्डपातस्य कृतेन प्रविष्टो अयं पि देशकालं
दन्तकाष्ठं गृहीत्वा आरामचारिकां चंचूर्यति । (ज्.194) सो दानि भिक्षु
पिण्डपातं गृह्निथ । आगतो । याव पश्यति सो विहारकं घट्टितकं, सो
दानि मुहूर्त्तकं आगमियाणं यदा नागच्छति (इइ.प्.48) विहारकस्य
द्वारमूले पिण्डपातकं थपिय गतो तं दानि आ(43अ3)ह अपरेण
आगच्छियाणं उत्क्षिप्तं सो दानि भिक्षुः । विहारम् आगत्वा आगमेति ।
इदानीं पि एष्यति मुहूर्त्तं पि एष्यति याव अकालीभूतं ते दानि
क(ग)त्याह(य)ं कालस्य उभये समागता सो दानि तस्य जल्पति ।
अ(आ)युष्मन् साधु तं पात्रकं पि लभेम । सो दानि आह । आयुष्मन् कस्य
पात्रं कुतो पात्रं सो दानि आ(43अ4)ह । आयुष्मन् न त्वं माया अध्येष्टो
इच्छामि पिण्डपातं निक्कालियमानं । सो दानि आह । आयुष्मन् यदा सो
मया पिण्डपातको विहारस्य पुरतो निक्षिप्तो । सो दानि आह । आयुष्मन्
एवं च त्वं शून्यके विहारके पात्रं निक्षिपिय गच्छसि । सो दानि आह ।
आयुष्मन् एतं च त्वं मम पिण्डपातनीहार(43अ5)कं अध्येषित्वा
अदर्शनेन प्रियं करेसि । ते दानि विवदिता । भगवतो मूलं गताः ।
भगवान् आह । नायं ताव क्षमति नीहारिकपिण्डपातेन
पिण्डपातनीहारकं अध्येषित्वा अदर्शनेन प्रियं कर्त्तुं, । नापि
क्षमति । पिण्डपातनीहारकेन पिण्डपातम् आनयित्वा शून्यके विहारके
ओसरिय गन्तुं । तेन हि एवं (43अ6) पिण्डपाते(त)नीहारकेन
प्रतिपद्यितव्यं । एवं नीहारपिण्डपातकेन प्रतिपद्यितव्यं । (ज्.195) एतं
दानि सर्व्वसंघस्य अन्तरघरे निमन्त्रणम् भवति । भिक्षु
जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा भवति । न प्रतिबलो गन्तुं ।
पिण्डपातनीहारको अध्येषितव्यो । वक्तव्यम् आयुष्मन् इच्छामि
पिण्डपातं निक्कालियन्तं ति वक्तव्यं । आयुष्मन् मा ख(43अ7)लु
अदर्शनं गमिष्यसि । तेन अध्येष्टेन समानेन दुवे पात्राण्य् आदाय
प्रविशितव्यं । यदि ताव हेमन्तकालो भवति । लघुकालो अतिक्रमति ।

दायकदानपती वक्तव्याः । देथ ग्लानस्य पिण्डपातं । यदि ताव
दायकदानपति जल्पन्ति । भन्ते पटिपाटिकाय गृह्नथ वक्तव्यं ।
दीर्घायु भगवता । (इइ.प्.49) अनेकपर्यायेण ग्लानो परि(43ब्1)दि(न्दि)तो
लहुं च कालो अतिक्रामति । यदि ताव देन्ति द्वे पिण्डपातका गृह्नितव्या
आत्मनो च तस्य च शिक्तड्डितकं कृत्वा विहारकं आगन्तव्यं ॥ अथ दानि
ग्रीष्मो वा वर्षारात्रो वा कालो भवति चिरेण कालो अतिक्रमति ।
पटिपाटिकाय गृह्नितव्यं । शिक्तड्डितकं कृत्वा विहारकं गन्तव्यं ।
यदि तावद् यावदर्थं भक्तं दीयति । प्रकृत्येव आत्मनो भक्ततो तस्य
पात्रं पूरेतव्यं । (43ब्2) अनुभागो आत्मनो गृह्नितव्यो । अथ दानि सो
दानि पतितित्तिणो भवति । यत्तकं दीयति तत्तकं गृह्नितव्यं । न दानि
अप्रत्यग्रं गृह्नितव्यं । एकान्ते यूय(ष)ं साकव्यञ्जनं वा गृह्नितव्यं ।
नापि दानि अधोतकेहि हस्तेहि अप्रयतेहि गृह्नितव्यं । अथ खलु (ज्.196)
प्रक्षालित्वा निर्म्मादयित्वा गृह्नितव्यं । अथ खलु प्रक्षालित्वा
निर्म्मादयित्वा गृह्नितव्यं । यदि उप्पक्कटो कालो भव(43ब्3)ति । न दानि
तेन भुञ्जन्तेन आसितव्यं । अथ खलु उभये पिण्डपाता निहर्त्तव्या ।
तेन गच्छन्तेन कालो निध्यापयितव्यो यदि जानन्ति । शक्यं सकालेन
संभावयितुं । गन्तव्यं गच्छित्वा तस्य उपनामेतव्यं । अथ पश्यति
उपक्खटो कालो अन्तान्तिको न शक्यं सकाले संभावयितुं । मा दानि
उभये च्छिन्नभक्ता भविष्याम तेन (43ब्4) परिभुञ्जितव्यं । नापि
क्षमति नीहारपिण्डपातेनापि अध्येष्टो मया पिण्डपातनीहारको ति
अदर्शनेन प्रियं, कर्त्तुं । अथ खलु प्रकृत्येव ताव दन्तकाष्ठं
खादयितव्यं । हस्ता निर्म्मादयितव्या । पानीयं परिस्रावयितव्यं ।
कुण्डिकां परिपूरियाणं विहारस्य प्रहाणके द्वे आसनानि प्रज्ञपिय
(इइ.प्.50) अधिष्ठानां प्रतिग्राहापिय आसितव्यं । यं कालं (43ब्5) आगतो
भवति उपविशियाणं सहितकेहि भुंजितव्यं । अथ दानि सो जल्पति ।
आयुष्मन् भुंज त्वं भुक्तं मयेति च्छन्दयितव्यो वक्तव्यो ऊनकं
पूरेहि यं ते रुच्यति तं खादेहि यदि ताव आकांक्षति । उपविशियाणं यं
रुच्यति तं खादितव्यं । अथ दानि न कांक्षितव्यं । आयुष्मन् भुंज
त्वं नाहं भुंजिष्यं ।
अथ दानि दूरगोचरो संघारामो (43ब्6) भवति । पिण्डपातनीहारको च
चिरेण आगच्छति कालो च स्तोकावशेषो भवति (ज्.197) नीहारकपिण्डपातेन
हस्ता निर्म्मादियाणं पानीयस्य कुण्डिकां पूरियाणं पन्थे
प्रत्युद्गच्छितव्यं । यत्र येव तं पश्यति । तत्र येव पन्थातो
उच्चत्तियाणं सहितकेहि भुञ्जितव्यं । अथ दानि नीहारकपिण्डपातो न
प्रत्युद्गच्छति कालो च अतिक्रमति पिण्डपातनीहारकेन
त्वरितत्वरित(43ब्7)म् आगन्तव्यं । अथ दानि दूरे संघारामो भवति
पिण्डपातनीहारकेन यत्रैव पानीयं पश्यति । तत्रैव भुंजितव्यं ।
मा दानि वयं उभयेव भक्तच्छेदं करिष्याम एवं
पिण्डपातहारकेन प्रतिपद्यितव्यं । एवं नीहारपिण्डपातेन
प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्

अतिक्रामति ॥ * ॥
वि.9 म्स्.43ब्7 (ज्.197.9); छ्. 512ब्1
भगवान् श्रावस्त्यां विहरति । ते दानि भिक्षू पिण्डाय च(44अ1)रमाणो
अन्तरघरे याव उट्ठाणातो निर्घोटेन्ति । जनो दानि ओध्यायन्ति ।
पश्यथ भणे श्रमणकाः । याव उट्ठाणातो निर्घोटेन्ति । नष्टं
भ्रष्टं कुतो इमेषां श्रामण्यं एतं प्रकरणं भिक्षू भगवतो
आरोचयेंसु ।
(इइ.प्.51) भगवान् आह । सम्यग् भिक्षवो जनो ओध्यायति । तेन हि एवं
पिण्डाये चरितव्यं । किन् ति दानि एवं पिण्डाये चरितव्यं । नायं ताव
क्षमति पिण्डचारिकेन या(44अ2)व उट्ठानातो निर्घोटयितुं । नापि
अदर्शनपथे स्थातुं, । अथ खलु उदेशे स्थातव्यं ।
दर्शनश्रवणपथे नेदानि वक्तव्यं । पिण्डपातं महापुण्ये देहि ।
अथ खलु तूष्णीकेन उद्देशे स्थातव्यं । न दानि इतो वा इतो वा
निध्यायन्तेन आसितव्यं । मा पश्येंसु । चोरा वा ओचोरका (ज्.198)
भवन्ति । अथ खलु षडायतनं मनसिकरेन्तेन स्थात(44अ3)व्यं ।
चक्षुर् अनित्या याव मनो अनित्यन् ति स्थातव्यं । एष स्त्री धान्यं ओहनन्ति
यदि ताव कण्डिकापूरकम् उक्कड्ढिय ओच्चरकं प्रविशति जानितव्यं ।
दास्यति एषा ति । अथ दानि परिवर्त्तियाणं भूयो निध्यायति जानितव्यं । न
एषा दास्यति गन्तव्यं । एषा स्त्री धारां वा पीषयति । तिलम् वा । मुद्गम्
वा कलायाम् वा दलेन्ति यदि (44अ4) ताव शिलापूरकां पिषियाणं ओच्चरकं
प्रविशति जानितव्यं । एषा दास्यति । अथ दानि परिवर्त्तिय निध्यायति ।
जानितव्यं । एषा न दास्यतीति । एषा स्त्री कर्पासं कर्त्तेति यदि तावन्तुक
निक्षिपियाणं उत्थेति । जानितव्यं । दाहिति एषा न्ति(त्ति) । अथ दानि भूयो
प्रसारयति जानितव्यं । न दाहिति एषा न्ति(त्ति) । एषा स्त्री उपविष्टिका
आ(44अ5)सति । भिक्षून पश्यियाणं उत्थेति जानितव्यं । दास्यति एषा न्ति(त्ति) ।
अथ दानि उत्थियाणं भूयो उपविशति जानितव्यं । न एषा दास्यति । एषा
स्त्री भिक्षुं पश्यियाणं ओच्चरकं प्रविशति जानितव्यं । दास्यति एषा
न्ति(त्ति) । अथ दानि रिक्ता निर्द्धावति । जानितव्यं । एषा न दास्यति
गन्तव्यं । एषा स्त्री कांसभाजनं मार्जति भिक्षु पश्यि(44अ6)याणं
(इइ.प्.52) हस्तां धोवति । जानितव्यं दास्यति एषा त्ति । अथ दानि आभरणानि
वा उच्छारेति जानितव्यं । न एषा दास्यतीति । महात्मनां मनुष्याणां
गृहा भवन्ति । तहिं कुण्डा उज्झितप्रकीर्ण्णा भवन्ति । शाटका वा
पटका वा हारा वा अर्द्धहारा वा हिरण्यं वा सुवर्ण्णम् वा न दानि
तहिं अशब्दकर्ण्णिकाये निर्ग्गन्तव्यं । अथ खलु प्रति(ज्.199)संविदितेन
निर्ग्गन्तव्यं । (44अ7) एवं यं यं कार्म्मं च्छिन्दियाणं ओच्चरकं
प्रविशति दातुकामा भवति । न तेन गन्तव्यं । एवं पिण्डाय चरितव्यं ।
न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
वि.10 म्स्.44अ7 (ज्.199.4); छ्. 512ब्26
भगवान् श्रावस्त्याम् विहरति विस्तरेण निदानं कृत्वा ते दानि
निश्रयकरणीया पिण्डाय चरन्ति । तेषां उपाध्यायाचार्या स्नेहं

स्थपेन्ति । खज्जखण्डकानि थपेन्ति । पश्यन्ति यं कालम् आ(44ब्1)गता
भवन्ति । ततो तेषां संविभजिष्यामः । ते पि दानि बाह्येन बाह्यं
प्रतिक्रमन्ति । ते दानि तेषां उपाध्यायाचार्या ओध्यायन्ति वयं य्येव
ताव इमेषां कृतेन स्नेहं थपेमः । खज्जकखण्डकानि स्थपेमः ।
जानाम वयं यं कालं आगता भविष्यन्ति । ततो संविभजिष्यामः । इमे
पि बाह्येन बाह्यं प्रतिक्रमन्ति । एतं प्रकरणं भिक्षूहि श्रुतं
भिक्षू भगवतो आरोचयेंसु ।
भग(44ब्2)वान् आह । तेन हि एवं पिण्डचारिकेन प्रतिपद्यितव्यं । किन् ति
दानि एवं पिण्डचारिकेन प्रतिपद्यितव्यं । एषो दानि भिक्षु
निश्रयकरणीयो भवति । नापि दानि क्षमति पिण्डाय चरियाणं बाह्येन
बाह्यं प्रतिक्रमितुं, । नापि उपाध्यायाचार्याणां वा भुंजन्तानां
नेदानि उष्ठिहित्वा आसितव्यं । इमेहि शक्नोम । पिण्डचारिकेहि मुखे
कवलं प्रक्षिपितुं । अथ खलु दर्श(44ब्3)नोपविचारे आसितव्यं । अथ
(इइ.प्.53) खलु पिण्डचारं अण्ठियाणं उपाध्यायस्य वा आचार्यस्य वा
अल्लीपयि(ज्.200)तव्यं । यदि ताव लब्धं भवति उपाध्यायेन वा आचार्येण
वा संग्रहो कर्त्तव्यो । शक्तुका स्तोका भवन्ति । शक्तुका दातव्या । स्नेहो
दातव्यो । खज्जखण्डकानि संविभागो कर्त्तव्यो । अथ दानि
उपाध्यायस्य वा आचार्यस्य वा पि(44ब्4)ण्डपातको भवति । अयं च
पिण्डाय चरित्वा आगतो भवति । सहितकेहि परिभुञ्जितव्यं । लूहम् च
प्रणीतं च एकञ् च अपरं च । अथ दानि सो प्रणीतभोजनस्य महार्हस्य
पूरं पात्रं गृह्नियाणं आगच्छति । आह । उपाध्यायाचार्य परिभुंजाहि
न्ति(त्ति) । सुविहित कुतो इमं ति पृच्छितव्यो । यदि ताव आह ।
उपाध्यायाचार्य असुका(44ब्5)ये चेटिकाये दिन्नं । असुकाये चण्डविधवाये
दिन्नं । असुकेन पण्डकेन दिन्नं, । असुकाये स्थूलकुमारीये दिन्नं ।
असुकाये पापभिक्षुणीये दिन्नं । असुकायो पापश्रामणेरीये दिन्नं ।
वक्तव्यं सुविहित अप्रतिग्राह्यो एषो जनो मा भूयो एतेषां तेन
प्रतिगृह्नीहसि । अथ दानि आह । उपाध्यायाचार्य । असु(44ब्6)कस्य(काये)
मे वाणिजस्य सार्थवाहस्य परिकथा कृता । बुद्धवचनं जल्पितं । तेन
मे एषो प्रसन्नेन आहारको दिन्नो वक्तव्यं सुविहित करोहि धूमं मा
च पुनः । आमिषचक्षुः । अथ दानि आह । (ज्.201) उपाध्यायाचार्य
भुञ्जाहि । यदि ताव परिभुञ्जितव्यं । अथ दानि न कांक्षति वक्तव्यं
सुविहित परिभु(ं)जाहि त्वं नाहं परिभुञ्जिष्यन् ति । यं कालं
उपाध्यायेन वा आ(44ब्7)चार्येण वा अनुज्ञा दिन्ना भवति । ततो
परिभुञ्जितव्यं । यदि कोचि निमन्त्रेति । यदि अर्थिको भवति
प्रतिच्छितव्यं । अथ दानि पिण्डचारं अण्ठित्वा ततो एव नदीकुले वा
उदुपानकुले वा पुष्किरिणीकुले वा आहारं कृत्वा पात्रं निर्म्मादयित्वा
आगच्छति । अनापत्तिः । एवं पिण्डचारिकेन प्रतिपद्यितव्यं । न
प्रतिपद्यति (इइ.प्.54) । आभिसमाचारिकान् धर्म्मान् अतिक्राम(45अ1)ति ॥ * ॥
उद्दानं
एवं निवासितव्यं ।

एवं प्रावरितव्यं ।
(एवं अन्तरगरं प्रविशन्तेन चीवरे प्रतिपद्यितव्यं)
एवं अन्तरघरे प्रविष्टेन चीवरे प्रतिपद्यितव्यं ।
एवं पुरेश्रमणेन प्रतिपद्यितव्यं ।
एवं पश्चाच्छ्रमणेन प्रतिपद्यितव्यं ।(ज्.202)
एवं पिण्डपातहारकेन प्रतिपद्यितव्यं ।
एवं नीहारपिण्डपातेन प्रतिपद्यितव्यं ।
एवं पिण्डाय चरितव्यं ।
एवं पिण्डचारिकेन प्रतिपद्यितव्यं ॥
षष्ठो वर्ग्गः ॥ * ॥
(यसुओ ंआट्शूणांई)
विइ. 1 म्स्.45अ1 (ज्.203.1); छ्.512च्11
(इइ.प्.55) भगवान् श्रावत्यां वि(45अ2)हरति विस्तरेन निदानं कृत्वा ते
दानि भिक्षू अन्धकारे प्रहाणे उपविंश(शं)ति । उक्खलन्ता
प्रक्खलन्ता एतं प्रकरणं । याव भगवान् आह । तेन हि दीपो नाम
कर्त्तव्यो । आयुष्मन्तो नन्दनोपनन्दना दीपवारिका ते दानि प्रहाणातो
उत्थिता चपेटिकाये दीपं निर्व्वापेन्ति । चीवरकोणेनापि निर्व्वापेन्ति ।
योगाचारा भिक्षू गन्धेन व्यावहन्ति । एव(त)ंप्रकरणं भिक्षू
भगवतो (45अ3) आरोचयेंषु ।
भगवान् आह । तेन हि एवं दीपे प्रतिपद्यितव्यं । किन् ति दानि एवं
प्रदीपे प्रतिपद्यितव्यं । एषो दानि संघारामो पुरिमं पश्चिमं
प्रहाणं प्रतिजाग्रीयति । दीपचा(वा)रिका उद्दिशितव्या । एको वा द्वयो वा
यत्तकावा अभिसंभुणन्ति नवकान्तेन वा पटिपाटिकाये वा यस्य वा
प्रापुणति । तेहि प्रकृत्येव ताव दीप(45अ4)वर्त्तिकायो वर्त्तितव्यायो
दीपकोटिकानि सज्जयितव्यानि तैलं सज्जयितव्यं । अग्नि प्रतिजागृतव्यो ।
तुषेण वा कर्षेण वा गोमयपिण्डिका वा पटिपटिकाये स्थपेतव्या ।
यथानुपूर्व्वेण गच्छेय भक्तशालायां वा पटिपाटिकाये स्थपेतव्या
(ज्.204) दीपवारिकेन दीपम् आदीपेन्तेन प्रथमानम् एव भगवतो
शरीरकु(45अ5)टिकायां दीपो आदीपितव्यो यदा चेतियं वन्दितं भवति ।
ततो निष्कासिय स्थपेतव्यो मा आदीनवं उत्पादयेष्या यं कालं
प्रहाणस्य जर्जरो आहतो भवति । यदि ताव सो द्विभूमिका संघारामो
भवति । प्रथमं ताव सोपानमग्गुलीयेदीपको जालयितव्यो । चतुहि
प्रासादस्य कोणे कोणे दीपको प्र(45अ6)ज्वालयितव्यः । वर्च्चकुटीयं
दीपको प्रज्वालयितव्यो । पश्चात् प्रहाणशालायां (इइ.प्.56) दीपको
प्रज्वालयितव्यो । यं कालं भिक्षुसंघो प्रहाणे उपविष्टो भवति । ततो
दीपवारिकेन दीपको वारयितव्यो । मा तर्हि कोचि प्रचलायतीति । यदि ताव
कोचि प्रचलायति अच्छटिकं करिय उत्थापयितव्यो वक्तव्यं आयुष्मन तव
दीपो प्रापुणतीति । तेन (45अ7)स चारयितव्योइमिना उपविशितव्यं । अथ
दानि भिक्षुस्य उपाध्यायो वा आचार्यो प्रचलायति । न क्षमति । सो
ऽध्युपेक्षितुं । अथ खलु सो पि अच्छटिकाये उपस्थपेतव्यो वक्तव्यं ।

उपाध्यायाचार्य तत्र दीपो प्रापुणतीति । आस त्वं आ(अ)हं चारयिष्यन् ति ।
तेन चारयितव्यो । (ज्.205) अथ दानि भिक्षु श्राद्धको भवति । आह ।
सुविदितआस त्वं । अहं,(45ब्1) चारयिष्यन् ति । दातव्यो । नापि क्षमति । तेन
उपारम्भणाभिप्रायेण दीपो चारयितुं । तेहिदीपचा(वा)रिको(के)हिन
क्षमति । अघातो वा प्रवेदयितुम् । अथ खलु चित्तम् उत्पादयितव्यं
विनीवरणं नौ करेन्ति त्ति यं कालं प्रहाणस्य यथासुखं कृतं
भवति । ततो प्रहाणशालातो दीपको उक्कढितव्यो । नापि क्षमति ।
चपेटिकाथ(ये) वा मुखवातेन वा चीवरको(45ब्2)णेन वा दीपं
निर्व्वापयन्त(तु)ं । अथ खलु तुलिकाये निस्नेहिय दीपवर्त्ति ओकड्ढिय
कुलिकातैले निर्व्वापयितव्यं । अथ दानि नवका भिक्षू प्रहाणशालायां
प्रतिक्रमन्ति । न क्षमति प्रहाणशालायां दीपं निर्व्वापयितव्यं । अथ
खलु बहि प्रासादकोणेहि दीपका निर्व्वापयितव्या । सोपानमग्गुलीयं
प्रासादकुटीयं दीपको निर्व्वापयितव्यो विभवो (45ब्3) भवति । (इइ.प्.57)
सर्व्वरात्रिं वर्च्चकुटीयञ् च प्रस्रावकुटीयं दीपको प्रज्वालयितव्यो ।
अथ दानि विभवो न भवति । यदा भिक्षू प्रतिक्रान्ता भवंति । ततो
वर्च्चकुटीयं दीपो निर्व्वापयितव्यो । वर्च्चकुटीयं निर्व्वापयित्वा
रच्छादीपो (ज्.206) निर्व्वापयितव्यो रच्छायां निर्व्वापयित्वा सोपानशीर्षे
निर्व्वापयितव्याः । सोपानशीर्षे निर्व्वा(45ब्4)पयित्वा प्रहाणरो(शा)लायां
दीपो निर्व्वापयितव्यो । न दानि सहसाकारस्य अप्रतिसंविदित्वा
निर्व्वापेतव्या । अथ खलु आयुष्मन्तो प्रज्ञपेथ शय्यायो दीपं
गोपयिष्यन् ति । ततो हस्तेन ताव ओवारयितव्यो । ततो वक्तव्यं । मा
आयुष्मन् एषो निर्व्वापयिष्य ति । न दानि क्षमति । मुखवातेन वा
चीवरकोणेन वा चपेटि(45ब्5)काय वा निर्व्वापयितुं । यदि दीपवर्त्ति ।
दग्धिका भवति । पलिखाटिर् व्वा ओकड्ढितव्यो निर्व्वापितो भवति । अग्नि
गोपयितव्यो । तुषेहि वा कर्षेहि वा बुषेन वा बुषिकायवा । यं कालं
पश्चिमे यामे प्रहाणस्य झर्ज्झरो आहतो भवति । ततो दीपवारिकेहि
सोपानमग्गुलीयं ताव दीपो प्रज्वालयितव्यो । नापि क्षमति
प्रहा(45ब्6)णशालायां सहसा दीपकं प्रवेशयितुं । मा नवका भिक्षु
सहसा विप्रकट(म्) उत्थिहंस्न(सु) न्ति(त्ति) । अथ खलु वक्तव्यं ।
आयुष्मन्तं दीपो प्रवेशीयतीति । दीपो प्रवेशयति न्ति(त्ति) । यं कालं
प्रहाणस्य यथासुखं कृतं भवति । प्रहाणशालायान् ताव प्रथमं
दीपको निर्व्वापयितव्यो । अथ दानि नताव निर्भाति न क्षमति
निर्व्वापयितुं । यं कालं विभातं भवति (ज्.207) । आका(45ब्7)शं कृतं
भवति । ततो वर्च्चकुटीये प्रस्रावकुटीये च दीपको (इइ.प्.58)
निर्व्वापयितव्यो । तैलं शेषं भवति । साहरियाणं घटिकायां ना(वा)
भाजने वा स्थापयितव्यं । दीपकोटिकायो एकस्थाने स्थापयितव्या ।
दीपवर्त्तीयो निष्पेडियाणं एकं हि कोणके स्थापेतव्या । यो एवं
देवशिकं दीपो ज्वालयितव्यो । एवं दीपे प्रतिपद्यितव्यं । न
प्रतिपद्यति ॥ (46अ1) आभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
विइ.2 म्स्.46अ1 (ज्.207.7); छ्.513अ5

भगवान् श्रावस्त्यां विहरति । ते दानि भिक्षुः प्रहाणे प्रचलायंति ।
एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान् आह । तेन हि
यष्टी नाम चारयितव्या । यष्टीयं ताव भिक्षुणा कारापयमाणेन
अष्टहस्तायामेन कर्त्तव्या । मुष्टिमात्री स्थूलत्वेन उभयेहिं अन्तेहि
लोहकेन बन्धितव्या । नवकान्तेन वा पटिपाटिका(46अ2)य वा यस्य वा
पुनः प्रापुणति एषा एवार्थोत्पत्तिः ॥ * ॥
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः । यष्टी
चारेन्तायो येच(व) भिक्षु प्रचलायति । तं येव क्षिप्राये यष्टीये उरे वा
आहनति पादे वा अ(आ)हनति ते दानि भिक्षु विहठियन्ता आरावं मुञ्चति।
आयुष्मं हतो स्मि हतो स्मीति । एतं प्रकरणं भिक्षू भगवतो
आरोचयेंसु । (ज्.208) भगवान् आह (46अ3) तेन हि एवं यष्टीये
प्रतिपद्यितव्यं । किन् ति दानि एवं यष्टीये प्रतिपद्यितव्यं । यष्टी
कारयन्तेन कर्त्तव्यं । वंशस्य वा नलस्य वा नंग्लस्य वा रोहिषस्य वा
दश-अष्टहस्तां दीर्घत्वेन उभयतो अग्रे योत्तखण्डेहि वेढयितव्या ।
नवकान्ततो चारेतव्या यष्टि दानि चारेन्तेन न दानि ओगुण्ठितशीर्षेण वा
चारेतव्या (इइ.प्.59) ओहित(46अ4)हस्तेन वा उपानहारूढेन वा यष्टि
चारेतव्या । अथ खलु एकांसीकृतेन चारयितव्या नायं ताव क्षमति
भिक्षुणा यष्टिं चारेन्तेन क्षिप्राये यष्टीये आहनितुं । नापि क्षमति
विहेठनाभिप्रायेण यष्टी चारयितुं । अथ खलु मैत्रचित्तेन
यष्टा(ष्टी) चारयितव्या । वृद्धान्ततो नवकान्तं । एते दानि भिक्षुः
प्रचलायन्ति नापि क्षमति अ(46अ5)ध्युपेक्षितुं, । नापि क्षमति क्षिप्राये
यष्टीये आहनितुं । रजग्[व्]अस्म विय । अथ खलु पार्श्वे स्थित्वा त्रिक्खत्तो
पुरतो यष्टि कारयितव्या । यदि न बुध्यति । अच्छटिका कर्त्तव्या । यदि
वामेन स्थितको भवति । दक्षिणेन जानुकेहि संघट्टेतव्यो । यदि
दक्षिणतो स्थितो भवति । वामजानुकेन तेन च्छन्ति(त्ति) ।
प्रत्युपस्थितव्यं । घटि(46अ6)तव्या उत्थापियाणं वक्तव्यं आयुष्मन्
तव यष्टि प्रापुणति । चारेहि तेन चारेतव्यं । इमिना उपविशितव्यं । न
दानि क्शमति । ओगुण्ठितशीर्षेण वा ॥ पे ॥ याव अथ खलु (ज्.209)
एकांसीकृतेन चीवरं कृत्वा गृह्नितव्यं । तेन चारेतव्यं । अथ दानि बहु
प्रचालयन्ति । न दानि ते सर्व्वे वलीवन्दा विय उत्थपेतव्या । यो तत्र
नवकतरो भवति । तस्य यष्टी दातव्या । (46अ7) अथ दानि भिक्षु
उपाध्यायाचार्या प्रचलायन्ति न क्षमति अध्युपेक्षितुं, । अथ खलु
अच्छटिकाये उत्थापियाणं वक्तव्यं उपाध्यायाचार्य तव यष्टी
प्रापुणति तेन धर्म्मगौरवेण प्रत्युत्थाय गृहीतव्यं न क्षमति
यष्टी तस्य दातुं । अथ खलु वक्तव्यं । आस त्वं । अहं चारयिष्य
ते(ति) । न येव यष्टी चारेतव्यं । न दानि तेन ओतारप्रेक्षिणा चारेतव्या ।
अथ ख(46ब्1)लु षडाय(त)न मनसिकरेन्तेन (इइ.प्.60) चारेतव्या यदि कोचि
प्रचालयति तस्य दातव्या । ते पि दानि तहिं न आघातो बन्धितव्यो । अथ
खलु चिन्तेतव्यं । बहुकरो एषो अस्माकं चि(वि)नीवरणं करोति । तेन
ताव चारेतव्या । अथ दानि श्रद्धको भिक्षुर् भवति । आह । सगोत्रीमाता

आस त्वं । अहं चारयिष्यामि । दातव्या एवं ताव चारेतव्यं । याव
प्रहाणस्य यथासुखं कृ(46ब्2)तं भवति नापि क्षमति तेहि भिक्षूहि
यष्टी चारे(ज्.210)न्तेहि चित्तं प्रदूषित(तु)ं । अथ खलु चित्तम्
उत्पादयितव्यं । विनिवरणं मे करेन्तीति । एवं यष्टीयं
प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
विइ.3 म्स्.46ब्2. (ज्.210.4); छ्.513अ24
भगवान् श्रावस्त्याम् विहरति । विस्तरेण निदानं कृत्वा ते दानि
भिक्षुं(क्षू)प्रहाणस्मिं यष्टिं चारयन्ताशीतेन किलम्मति । एतं
प्रकरणं भिक्षू भगव(46ब्3)तो आरोचयेंसु । भगवान् आह । तेन हि
गेण्डुकं नाम कर्त्तव्यो । गेण्डुकं दानि भिक्षुणा कारापयमाणेन
कारापयितव्यो । तृणानाम् वा पलालानाम् वा लेङ्क(ट)कखण्डकानाम् वा
सूत्रस्य वा उलाय वा बाह्येनपणेन नत्तकेन वेष्टयित्वा सूत्रकेन
वेष्टयितव्यो । नापि क्षमति । खक्खटं कर्त्तुं नापि क्षमति ।
अति[शिथिलं ।] अथ खलु (46ब्4) तादृशो कर्त्तव्यो । यो भूमीयं आपिटितो
युगमात्रं उप्पटतिसो चारयितव्यो । नवकान्तेन वा पटिपाटिकाय वा
यस्य वा पुन प्रापुणति । एषा एवार्थोत्पत्तिः ॥ * ॥
(ज्.211) भगवान् श्रावस्त्याम् विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः ।
गेण्डुकं चारयंता इष्टखण्डं लेङ्क(इइ.प्.61)टकखण्डेन वेष्टयित्वा
चारेन्ति । यो येव प्रचालयति । तं, (46ब्5) येवक्षिप्रेण गेण्डुकेन उरसि वा
ताण्डेति । पार्श्वस्मि वा आहनन्ति । ते दानि भिक्षू विहेठयमाना आरावं
मुञ्चन्ति । आयुष्मन हतो स्मि हतो स्मि । एतं प्रकरणं भिक्षू
भगवतो आरोचयेंसु । नापि क्षमति । आघातचित्तेन वा दुष्टचित्तेन वा
गेण्डुकां चारयितुं, । अथ खलु मैत्रचित्तेन हितचित्तेन गेण्डुको
चरितव्यो । नापि (46ब्6) क्षमति । गेण्डुकं चारयन्तस्य चित्तं
प्रदूषयितुं । अथ खलु चित्तं प्रगोपयितव्यं । विनीवरणं सो करेन्ति
त्ति । एषो दानि भिक्षुः प्रचालयति । न क्षमति क्षिप्रेण गेण्डुकेन
आहनितुं । अथ खलु भूयो गेण्डुकम् आस्थपयित्वा अच्छटिकाये
उत्थापयितव्यो । वक्तव्यं आयुष्मान् तव गेण्डुकोप्रापुणति । उत्थेहि
चारेहि न्ति(त्ति) । इमेन चारयितव्यो इमेन (ज्.212) उप(46ब्7)विशितव्यं । अथ
दानि भिक्षुस्य । उपाध्यायो वा आचार्यो वा प्रचालयति । न क्षमति । सो पि
अध्युपेक्षितुं । अथ खलु त्रयो वा वारा गेण्डुकां पुरतो
अभामयित्वाच्छटिकाये उत्थापयितव्यो । वक्तव्यं उपाध्यायाचार्य तव
गेण्डुको प्रापुणति । तेनापि दानि धर्म्मगौरवेण प्रत्युत्थाय पुणोति ।
निषीदितव्यं । न दानि तेन ओतारप्रेक्षिणा आसितव्यं । अथ ख(47अ1)लु
षडायतनं मनसिकरेन्तेन आसितव्यं । अथ दानि आह । आश तुमं अहं
चारयिष्यन् ति । तेन येच(व) चारयितव्यो । अथ दानि श्राद्धको भिक्षुर्
भवति । आह सगोत्रीमाता आस त्वं अहं चारयिष्यन् ति । दातव्यं । एवं
ताव चारयितव्यो । याव (इइ.प्.62) प्रहाणस्य यथासुखं कृतं भवति । न
क्षमति सो गेण्डुको अध्युपेक्षितुं । पाटितविपाटिता । अथ खलु कालेन

कालं सिञ्चयितव्यो । का(47अ2)लेन [कालं प्रक्षालितव्यो । एवं गेण्डुके]
[प्रतिप]द्यितव्यं । न प्रतिपद्यति । आभिसमाचारिकान् धर्म्मान्
अतिक्राम्ति ॥ * ॥
विइ.4 म्स्.47अ2 (ज्.212.14); छ्. 513ब्17
भगवान् श्रावस्त्याम् विहरति विस्तरेण निदानं कृत्वा ते दानि
आयुष्मन्तो षड्वर्ग्गिकाः प्रहाण आगता समाना स्कन्धातो निषीदनं ।
(ज्.213) ओतारियाणं कोणे कोणे गृहीत्वा वट-वट न्ति(त्ति) । प्रस्फोटयित्वा
प्रज्ञपयित्वा निषदन्ति । य(ं) कालं प्रहाणस्य यथा(47अ3)सुखं कृतं
[भवति] । ततो निषीदनं कोणे कोणे गृहीत्वा वड-वडा न्ति(त्ति) प्रस्फोटिय
साहरित्वा स्कन्धे कृत्वा गच्छन्ति । योगाचारां भिक्षुं शब्देन
व्याहर(वह)न्ति । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु ।
भगवान् आह । तेन हि एवं निषीदने प्रतिपद्यितव्यं । किन् ति दानि एवं
निषीदने प्रतिपद्यितव्यं । नायं ताव क्षमति । भिक्षुणा प्रहाणं
(47अ4) ओकस्तेन निषीदनं [कोणे कोणे] गृहीत्वा वड-वडा न्ति(त्ति) ।
प्रस्फोटयितुं । अथ खलु विहारके वा बाह्यतो वा निषीदन
प्रस्फोटयाणं द्विगुणं कृत्वा प्रहाणं ओकसितव्यं । आत्मनो
प्रतिसन्धिस्मि सुखाकं निषीदनकं पीठके प्रज्ञपयितव्यं । तथा
कर्त्तव्यं यथा आनन्तरिकं न व्यावहति । नापि क्षमति यथासुखे कृते
उत्थिय निषीदनं (47अ5) कोणे कोणे गृहीत्वा चट-चट न्ति(त्ति)
प्रफोटयितुं । अथ खलु सुखाकं उत्थित्वा द्विगुणीकृत्वा (इइ.प्.63)
स्कन्धे कृत्वा च गन्तव्यं । अथ दानि भिक्षुः पश्यति द्वितीये प्रहाणे ।
अवीतकं भविष्यतीति । रात्रिञ् च शय्यासनं (ज्.214) यथाप्रज्ञप्तकं
आसति नापि क्षमति निषीदनं यथाप्रज्ञप्तकं कृत्वा गन्तुं । अथ खलु
यथाखलु प्रज्ञप्तकं द्विगुणीकृत्वा ततो गन्तव्यं (47अ6) द्वितीयस्य
प्रहाणस्य जर्जरे आगते ओतरितव्यं । नापि क्षमति प्रहाणं ओकस्तेन
निषीदनं कोणे कोणे गृहीत्वा वड-वडा न्ति(त्ति) । प्रस्फोटयितुं । अथ
खलु यथा साहटस्य निषीदनस्य द्वितीयो अन्तो उद्वेलिय प्रज्ञपयितव्यो ।
ततो निषीदितव्यं । नापि क्षमति । प्रहाणस्य यथासुखे कृते
निषीदनकं कोणे कोणे गृहीत्वा वड-वडा न्ति(त्ति) । प्रस्फोटयितुं, । अथ
(47अ7) खलु संप्रजानं साहरित्वा स्कन्धं कृत्वा गन्तव्यं । नापि
क्षमति । निषीदनं अध्युपेक्षितुं । ओमयिलोमयिलं पाटितविपाटितं ।
अथ खलु कालेन कालं धोवितव्यं । कालेन कालं सिंचितव्यं । एवं
निषीदने प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
विइ.5 म्स्.47अ7 (ज्.214.12); छ्. 513ब्8
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः ।
प्रहाण ओ(क)स्त(47ब्1)काः । समाना आसनेहि उपविशियाणं उपानहा
निक्खासिय एक पि एकेन हस्तेन पार्ष्णिकावद्ध्रकस्मि गृहीत्वा द्वितीयं
(ज्.215) द्वितीयेन हस्तेन पार्ष्णिकावद्ध्रकं गृहीत्वा चट-चट न्ति(त्ति)
प्रस्फोटन्ति योगाचारां भिक्षूं शब्देन व्यावहन्ति । एतं प्रकरणं

भिक्षू भगवतो आरोचयेंसु ।
भगवान् आह । तेन हि एवं उपानहाये प्रतिपद्यितव्यं । किन् ति दानि
एवं उपानहाये प्र(47ब्2)तिपद्यितव्यं । नायं (इइ.प्.64) ताव क्षमति
भिक्षुणा प्रहाण उपविष्टेन उपानहा निक्खोसियएकम् पि एकेन हस्तेन
पार्ष्णिवद्ध्रके गृह्निय द्वितीयं द्वितीयेन हस्तेन पार्ष्णिवद्ध्रके
गृह्निय चट-चट न्ति(त्ति) प्रस्फोटयितुं । अथ खलु भिक्षुणा
प्रतिकृत्येव ताव पादधोवनिकाये उपानहायो पोच्छिय प्रहाणस्य जर्जरे
ओतरितव्यं । यदि ताव प्रहाणशालायां भूम्यस्तारो कृतको भवति ।
(47ब्3) न क्षमति सोपानहेन पादेन प्रहाणं उपविशितुं । अथ खलु
उपानहिकायो द्वारमूले निक्खासिय प्रविशित्वा वृद्धान्ते अञ्जलिं कृत्वा
यथावृद्धिकाये उपविशितव्यं । अथ दानि भिक्षु पश्यति । अनेकायो
उपानहिकायो मूषिकेन वा खज्जेंसु । भिक्षू वा जानन्तो वा अजानन्तो वा
गृहीत्वा गच्छेयन्ति किं कर्त्तव्यं संपुटिकरियाणं वामकेन
ह(47ब्4)स्तेन गृह्निय निकुटितकेन ओसारयित्वा संप्रजानं गृह्नियाणं
गन्तव्यं । प्रतिसन्धिस्मि तथा येव संपुटिकृतिकायो आसनस्य हेष्ठे
स्थपितव्यायो स्थपित्वा प्रहाणम् उपविशितव्यं । यं कालं प्रहाणस्य
यथासुखं कृ(तं) भवति । भिक्षुणा उपस्थपित्वा उपानहायो तथा
येव संपुटीकृतिकायो (ज्.216) गृहीत्वा निकुटितकेन वामाबाहां ओसारिय
संप्रजानं निर्द्धा(47ब्5)वितव्यं । अथ दानि अकृतो भूमि-अस्तारो भवति
स-उपानहेन प्रहाणशालां प्रविशितव्यं । वृद्धान्ते उपानहायो
पार्ष्णिवद्ध्(र्)अके ओसारिय प्रणामं कर्त्तव्यं । अभिनिकुटितकेन
प्राञ्जलीकृतेन गन्तव्यं । यावत् प्रतिसन्धिनिषीदनं प्रज्ञपयित्वा
उपानहायो निक्खासित्वा पर्यंकेन निषीदितव्यं । प्रहाणस्य यथासुखे
कृते आगमयितव्यं । भिक्षुणा (47ब्6) याव वृद्धतरका निर्द्धाविता
पश्चाद् उत्थयित्वा उपानहायो आबन्धिय गन्तव्यं । अथ दानि (इइ.प्.65)
वृद्धतरका आसन्ति । भिक्षू च आगन्तुकामो भवति । उपानहायो
आबन्धिय नवकान्ते संप्रजानं गन्तव्यं, । नापि क्षमति संघमध्ये
भक्ताग्रे तपर्पणाग्रे वा समीचीयं वा स-उपानहेन निषीदितुं । नापि
क्षमति । उपाध्यायस्य वा आचार्यस्य वा अग्रतो स-उपानहेन निषीदितुं ।
अथ ख(47ब्7)लु उपानहिकायो निक्खासियाणं प्रणामं कृत्वा
उपविशितव्यं । अथ दानि भिक्षु ग्लानो भवति किञ् चापि स-उपानहो
उपाध्यायस्य वा आचार्यस्य वा मूले उपविशति । अनापत्तिः । नापि क्षमति
भिक्षुणा पादां धोवन्तेन उपानहायो वड-वड न्ति(त्ति) प्रस्फोटयितुं ।
अथ दानि भिक्षुः । अध्वानम् आगतो भवति । उपानहायो च पांसुना
ओपूरिता भवन्ति । नदीकूले वा पुष्किरिणीकूले वा (48अ1; ज्.217) पादं
धोविय प्रस्फोटेति । अनापत्तिः । त पि दानि न क्षमति । वृद्धतरकस्य
वा अनुवातं प्रस्फोटयितव्यं । नापि क्षमति उपनहा अध्युपेक्षितुं ।
ओद्रिण्णका वा पलुग्गका वा । अथ खलु कालेन कालं घटयितव्यं ।
कालेन कालं प्रत्यग्रलका दातव्याः । एवं उपानहाये प्रतिपद्यितव्यं ।
न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥

विइ.6 म्स्.48अ1 (ज्. 217.6); छ्. 513ब्25
भगवान् श्रावस्त्यां विह(48अ2)रति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः
प्रहाणं उपविष्टाः । औद्धत्याभिप्राया मुक्तेहि पार्श्वेहि । खल-खल
न्ति(त्ति) कासन्ति । योगाचारां भिक्षुं शब्देन व्यावहन्ति । एतं प्रकरणं
भिक्षू भगवतो आरोचयेंसुः ।
(इइ.प्.66) भगवान् आह । तेन हि एवं कासितव्यं । किन् ति दानि एवं
कासितव्यं । नायं क्षमति भिक्षुणा प्रहाणम् उपविष्टेन
औद्धत्याभिप्रायेण मुक्तेहि पार्श्वेहि खुलु-खुलु न्ति(त्ति) कासितुं, । अथ
(48अ3) दानि भिक्षुस्य कासो आगच्छति । हस्तेन ग्रीवा परिमर्दितव्या । अथ
दानि न पारेति विनोदयितुं संप्रजानकं कासयितव्यं । अथ दानि भूयो
भूयो काशो (ज्.218) आगच्छति । बाहिरतो निर्द्धापिय कासितव्यं ।
प्रहाणस्य वा आमन्त्रिय गन्तव्यं । नापि क्षमति भक्ताग्रे वा
तर्पणाग्रे वा सामायिकाये वा औद्धत्याभिप्रायेण मुक्तेहि पार्श्वेहि ।
ख-ख-ख (48अ4) न्ति(त्ति) कासितुं । अथ दानि भिक्षुस्य कासिका आगच्छति ।
संप्रजानं कासितव्यं । अथ दानि भूयो भूयो उक्कासिका आगच्छति ।
अन्तरिको वक्तव्यो । आयुष्मन् मम ताव पिण्डपातं उक्कड्ढेति(सि) ।
तथा(तो) गन्तव्यं । नापि क्षमति धर्म्मश्रवणिकेन उपविष्टे
औद्धत्याभिप्रायेण मुक्तेहि पार्श्वेहि ख न्ति(त्ति) काशितुं । अथ दानि
भिक्षुस्य कासो आगतो भवति । (48अ5) ग्रीवा मर्दितव्या । अथ दानि न
पारेति विनोदयितुं, । संप्रजानं कासितव्यं । अथ दानि पुनो पुनो
कासावीयति । धर्म्मश्रवणस्य आमन्त्रिय गन्तव्यं । नापि क्षमति ।
उपाध्यायस्य वा आचार्यस्य वा अग्रतो वृद्धतरकानां वा
औद्धत्याभिप्रायेण मुक्तेहि पार्श्वेहि ख-ख-ख न्ति(त्ति) कासितुं । अथ
दानि भिक्षुस्य उक्कासिका आगच्छति । संप्रजानं कासितव्यं (48अ6)
एकतमंते आगच्छिय कासितव्यं । एवं कासे प्रतिपद्यितव्यं । न
प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
विइ.7 म्स्.48अ6 (ज्. 218.16); छ्. 513च्3
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो (इइ.प्.67) षड्वर्ग्गिकाः
प्रहाणं उपविष्टाः । औद्धत्याभिप्रायाः कुलिकाये नक्कं विज्झन्ति ।
सूत्रकं पि वट्टियाणं नक्के प्रक्षिपन्ति । ते दानि सर्व्वेण कण्ठेन
हच्छीयन्ति । ते (ज्.219) दानि योगाचारां भिक्षूं शब्देन व्यावहन्ति । एतं
प्रक(48अ7)रणं भिक्षू भगवतो आरोचयेंसु ।
भगवान् आह । तेन हि एवं क्षिपितव्यं । किन् ति दानि एवं
क्ष(क्षि)पितव्यं । नायं ताव क्षमति । भिक्षुणा प्रहाणं उपविष्टेन
औद्धत्याभिप्रायेण तुलिकाय वा नक्कं विज्झितुं । सूत्रं वट्टिय
नक्कस्मिन् प्रक्षिपितुं, । नापि क्षमति । सर्व्वेण कण्ठेन हा न्ति(त्ति)
क्षिपितुं ॥ अथ दानि भिक्षुस्य अनाभोगेन क्षीविका आगच्छति
विनोदयितव्यं । निरालं परिमर्दितव्यं । नक्का वा (48ब्1)
परिमर्दितव्या । अथ दानि न पारेति विनोदयितुं । संप्रजानं
क्षीवयितव्यं । यथा अनन्तरिकस्य न व्यावहेय्या । खेटेन वा

सिंघाणकेन वा । अथ दानि पुनो पुनो क्षीविका आगच्छति प्रहाणस्य
आमन्त्रिय गन्तव्यं । नायं ताव क्षमति भिक्षुणा भक्ताग्रे वा
तर्पणाग्रे वा उपविष्टेन औद्धत्या(भि)प्रायेण सर्व्वेण कण्ठे(न)
क्षीवितुं । अथ दानि भिक्षुस्य क्षीविका आगच्छति । विनोदयितव्या ।
अ(48ब्2)थ दानि न पारेति विनोदयितुं । संप्रजानं क्षीवितव्यं । यथा
आनन्तरिकस्य न व्यावहेय्या । खेटेना(न वा) सिंहाणकेन वा । अथ
दानि भिक्षुस्य पुनो (ज्.220) पुनो क्षीविका आगच्छति । आनन्तरिकस्य
वक्तव्यं । आयुष्मं मम पिण्डपातम् उक्कड्ढेसि ततो गन्तव्यं । नापि
क्षमति । धर्म्मश्रवणे (इइ.प्.68) सर्व्वेण कण्ठेन क्षीवितुं, । अथ
दानि भिक्षुस्य क्षीविका आगच्छति विनोदयितव्यं । अथ दानि (48ब्3) न
पारेति विनोदयितुं । संप्रजानं क्षीवितव्यं । अथ दानि भिक्षुस्य पुनो
पुनो क्षिविका आगच्छति । धर्म्मश्रवणस्य आमन्त्रिय गन्तव्यं, । नापि
क्षमति सामायिकायाम् वा । उपाध्यायाचार्याणाम् वृद्धतरकानां वा
अग्रतो औद्धत्याभिप्रायेण सर्व्वेण कण्ठेन क्षीवितुं । अथ दानि
भिक्षुस्य क्षीविका आगच्छति विनोदयितव्यं । अथ दानि न पारेति
वि(48ब्4)नोदयितुं । एकमते गच्छिय क्षीवितव्यं । यदि ताव कोचि क्षीवति ।
न दानि वक्तव्यं । जीव ति । अथ खलु यदि वृद्धतरको भवति ।
वक्तव्यं । वन्दामि त्ति । अथ दानि नवको क्षीवति । आरोचेति वक्तव्यं ।
एवं क्षिवितव्यं । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
विइ.8 म्स्.48ब्4 (ज्. 220.13); छ्. 513च्20
भगवान् श्रावस्त्याम् विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः
प्रहाणम् उ(48ब्5)पविष्टाः समाना शर्करायं पि श(क)लिकायं पि अङ्गं
खरकच-खरकच ंति(त्ति) क[ण्डू]यन्ति । योगाचा(रा)न् भिक्षून् शब्देन
व्यावहन्ति । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । (ज्. 221)
भगवान् आह । तेन हि एवं स(क)ंदूषितव्यं । किन् ति दानि एवं
(कं)दूषितव्यं । न क्षमति भिक्षुणा प्रहाण उपविष्टेन
औद्धत्याभिप्रायेण शर्कराये वा अङ्गं खरकच-(इइ.प्.69) खरकच
न्ति(त्ति) कण्डूयितुं । अ(48ब्6)थ च दानि भिक्षु प्रहाणं उपविष्टको
खज्जति । अङ्गुष्ठोदरेण वा हस्ततलेन वा सुखाकं । उच्चट्टयितव्यं ।
अथ दानि भूयो भूयो खज्जति खज्जनको भवति प्रहाणस्यामन्त्रिय
गन्तव्यं । नापि क्षमति । भिक्षुणा भक्ताग्रे वा । तर्पणाग्रे वा
समावापि(यि)कानां वा औद्धत्याभिप्रायेण संकलिकाय वा शर्क्करकाय
वा खरकच-खरकच न्ति(त्ति) कण्डूयितुं । अथ दानि भिक्षु भक्ताग्रे
वा तर्प(48ब्7)णाग्रे वा उपविष्टको भवति । कोचि [षो] प्रदेशो खज्जति ।
हस्तावसे कल्पिया भवन्ति । किञ् चापि भिक्षुः कुलिकाय वा काष्ठग[ते]न
वा सकलिकाय वा कण्डूयति । अनापत्तिः । तं पि तथा दानि कण्डूयितव्यं ।
यथा आनन्तर्यकं शब्देन (न) व्यावहति । अथ दानि भिक्षुः
स(ख)ज्जनको भवति । पुनो पुनो कण्डूयति । आनन्तरिकस्य पात्रं
दातव्यं । आयुष्मन् मम पिण्डपातं उक्कढेसि । त(49अ1)तो गन्तव्यं ।

न क्षमति । उपाध्यायाचार्याणां वृद्धतरकाणां वा अग्रतो
औद्धत्याभिप्रायेण अङ्गं खरकच-खरकच न्ति(त्ति) (ज्.222)
कण्डूयितुं । नापि क्षमति ओसरिय इन्द्रियाणि वुक्तन्ति कण्डूयितुं । अथ
दानि भिक्षुस्य कोचि प्रदेशो खज्जति । अङ्गुष्ठोदा(द)रेण वा हस्ततलेन
वा परिमर्द्दितव्यं । अथ दानि (न) पारेति विनोदयितुं । पुनः पुनः
खनति । एकतमंते गच्छिय कण्डूयितव्यं । एवं कण्डूये (49अ2)
प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
(इइ.प्.70) विइ.9 म्स्.49अ2 (ज्. 222.6); छ्. 513च्11
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः
प्रहाणम् उपविष्टाः । औद्धत्याभिप्राया जंभयन्ति । अङ्गानि
भञ्जयन्ति । पट-पटाव फोडेन्ति । अमडं मडमडं यथा सीहा वा
व्याघ्रा वा । एवं जंभयन्ति । योगाचारां भिक्षून् शब्देन व्यावहन्ति ।
एतं प्रकरणं भिक्षू भगवतो आ(49अ3)रोचयेंसु ।
भगवान् आह । तेन हि एवं जम्भयितव्यं । किन् ति दानि एवं
जम्भयितव्यं । नायं ताव क्षमति भिक्षुणा प्रहाणम् उपविष्टेन
औद्धत्याभिप्रायेण ओसरित्वा इन्द्रियाणि मटमट अङ्गा(नि) भञ्जन्तेन
यथा सीहेन वा व्याघ्रेण वा उन्नदन्तेन एवं भञ्जयितव्यं । अथ
दानि भिक्षुस्य प्रहाणम् उपविष्टस्य विजृम्भिका आगच्छति । न दानि
अंगानि टट्ट-टट्ट न्ति(त्ति) (49अ4) फोटन्तेन (ज्.223) मुखं विवरित्वा
जम्भयितव्यं । विनोदेतव्या निललाटम् वा परिमर्दितव्यं । नासा वा
परिमर्दितव्या अथ दानि न पारेति विनोदयितुं । संप्रजानं मुखं
पिथित्वा जम्भयितव्यं । तथा कर्त्तव्यं यथानन्तरिकं शब्देन न
व्यावहति । अथ दानि भिक्षुस्य विजृम्भिका पुनो पुनो आगच्छति
निर्द्धाविय विजृम्भितव्यं । प्रहाणस्य वा आमन्त्रिय गन्तव्यं, । (49अ5)
नापि क्षमति प्रहाणम् उपविष्टकेन मट-मटाय अङ्गानि भञ्जितुं, ।
अथ दानि भिक्षुस्य अङ्गानि दुःखायन्ति । एका ताव बाहा सुखाकं
प्रसारयितव्या यं कालं विश्रान्तो भवति । (इइ.प्.71) तां सन्मिञ्जिय
द्वितीया सुखाकं प्रसारयितव्या । एको पादो सुखाकं प्रसारयितव्यो ।
तं सन्मिञ्जिय द्वितीयो सुखाकं प्रसारयितव्यो । न क्षमति भिक्षुणा
भक्ताग्रे वा त(49अ6)र्पणाग्रे वा सामायिकं वा धर्म्मश्रवणे वा
अङ्गानि भ(ं)जन्तेन विजृम्भयितुं । अथ दानि भिक्षुस्य विजृम्भिका
आगच्छति । यदि चीवरचीर्ण्ण(कोण)केन मुखं पिधिय सुखाकं
विजृम्भितव्यं । अथ दानि भिक्षुस्य विजृम्भिका पुनो पुनो आगच्छति ।
यदि ताव भक्ताग्रे वा उपविष्टको भवति । अनन्तरिकस्य पात्रं दत्वा
गन्तव्यं । धर्म्मश्रवणेन वा उपविष्टको भवति ।
धर्म्मश्रवणस्य आमन्त्रि(49अ7)य गन्तव्यं । नापि क्षमति भिक्षुणा
गोचरं वा प्रविशन्तेन अन्तरघरं (ज्.224) (वा) प्रविष्टेन
मट-मटाये अङ्गानि भ(ं)जन्तेन विजृम्भितुं । अथ दानि भिक्षुस्य
भूयो भूयो विजृम्भिका आगच्छति चीवरकोणेन मुखं पिधिय

संप्रजानेन विजृम्[भायि]तव्यं । अथ दानि भिक्षुस्य अन्तरघरे वा
उपविष्टस्य पुनो पुनो विजृम्भिका आगच्छति । उत्थिय गन्तव्यं । न
क्षमति । उपाध्यायाचार्याणां वृद्धतरकानां, (49ब्1) वा अग्रतो
मट-मटाये अंगानि भंजन्तेन विजृम्भितुं । अथ दानि भिक्षुस्य
विजृम्भिका आगच्छति । एकमतं गत्वा एवं विजृम्भितव्यं । न
प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
विइ.10 म्स्.49ब्1 (ज्. 224.9); छ्. 513च्26
भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तदर्थम्
अभिसम्भावयित्वा श्रावस्त्यां विहरति शास्ता देवानाञ् च मनुष्याणाञ् च
सत्कृतो गुरुकृतो मानितः पू(49ब्2)जितः । (इइ.प्.72) अपचायितो
लाभाग्रयशोग्रप्राप्तो लाभी
चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्काराणां तत्[र] च
अनुपलिप्तः पद्मम् इव जलेन पुण्यभागियां सत्वां पुण्येहि
निवेशयमानो फलभागियान् सत्वां फलेहि प्रतिष्ठापयमानो
वासनाभागीयान् सत्वान वासनायाम् अवस्थापयमाणो अमृतम्
अनल्पकेन देवमनुष्यां संविभजन्तो प्राणिकोटी (ज्.225)
नि(49ब्3)युतशतसहस्राणि अमृतम् अनुप्रापयन्तो
अनवराग्रजातिजरामरणसंसारकान्तारनरकविदुर्ग्गान् महाप्रपाततो
अभ्युद्धरित्वा क्षेमे समे शिवे स्थले अभये निर्व्वाणे
प्रतिष्ठापयमानो आवर्जयित्वा
अङ्ग-मगध-मल्ली-वर्जि-कासि-कोशल-कुरु-पञ्चल-चेति-वत्स-मत्स-शूरसे
न-शिवि-दशार्ण्ण-अश्वकि-अवन्ति ज्ञाने दृष्टपराक्र(49ब्4)मो स्वयंभू
दिव्येहि विहारेहि ब्राह्मेहि विहारेहि आर्येहि विहारेहि आनिंज्येहि विहारेहि
सातत्येहि विहारेहि बुद्धो बुद्धविहारेहि जिनो जिनविहारेहि । जानको
जानकविहारेहि सर्व्वज्ञो सर्व्वज्ञविहारेहि चेतोवशिपरमपारमिप्राप्ता
पुनर् ब्बुद्धा भगवन्तो येहि येहि विहारेहि आकांक्षन्ति तेहि तेहि
विहारेहि विहरन्ति ।
ते दा(49ब्5)नि आयुष्मन्तो षड्वर्ग्गिकाः । औद्धत्याभिप्रायेण
श्वेतमयेन सक्तुकां कुल्मासां च मर्दियाणं आतपे शोषयन्ति । यं
कालं शुष्का भवन्ति । ततो श्वेतमयेन येव खादन्ति । बिल्वानि
खादन्ति । स्वातकोपनतानि फलानि खादन्ति । कलापा(यं वा)
सतिलपल्लवं खादन्ति । यं कालं प्रहाणस्य जर्जरो आहतो भवति । ततो
प्रहाणशालां गच्छिय चतुर्द्दिशं (49ब्6) निषीदन्ति । यं कालं
भिक्षुसंघो उपविष्टो भवति । एको ताव पूतिवातकर्म्मं करोति अपरो
गच्छन्ति । अपरो ढर- (इइ.प्.73)ढ(र) न्ति(त्ति) । (ज्.226) अपरो आह । साध्व्
आयुष्मं किं एतं सम्वत्सरिकं प्रतिकर्म्मं अष्टशतेनापि खो वातं न
इच्छेय्या अहो मनोज्ञो शब्दो अनुकूलं करोति । आनन्तरिकानां
पद्दमुष्टिकां जिघ्रापेन्ति । आह । जिघ्रायुष्मन् अहो मृष्टो गन्धो अहो
सोभनो ग(49ब्7)न्धो योगाचारान् भिक्षून् शब्देन व्यावहन्ति । एतं
प्रकरणं भिक्षू भगवतो आरोचयेंसु । (ज्.226.19) भगवान् आह ।

शब्दापयथ षड्वर्ग्गिकान् ॥ * ॥ यावद् आम भगवन्
भगवान् आह । तेन हि एवं वातकर्म्मे प्रतिपद्यितव्यं । किन् ति दानि
एवं वातकर्म्मे प्रतिपद्यित(व्य)ं । नायं क्षमति । (ज्.226.19) भिक्षुणा
औद्धत्याभि(ज्.227)प्रायेण श्वेतमयेन कुल्माषान् वा शक्तुकान् वा
मर्दियाणं आतपे शोषयित्वा श्वेत(50अ1)मयेन येव खादितुं । नापि
क्षमति । बिल्वानि वा मदनफलानि वा तत्कालकानि फलानि खादितुं ।
कलायं वा सतिलपल्लवं वा ॥ अथ दानि भिक्षु पिण्डचारम्
अण्ठन्तोपरप्रतिबद्धाये जीविकाये श्वेतमयेन कुल्माषान् वा
शक्तुमर्द्दितकान् लभति । वातकोपकानि वा फलानि । किञ् चापि खादेति ।
अनापत्तिः । न क्षमति प्रहाणम् उपविष्टेन औद्धत्याभिप्रायेण वा
ढर-ढ(50अ2)राये वान(त)कर्म्म कर्त्तुः(ं,) । अथ दानि भिक्षुस्य
प्रहाणशालायाम् उपविष्टस्य वातकर्म्म आगच्चति । न दानि ओसरित्वा
इन्द्रियानि कर्त्तव्यं । अथ दानि आर्शव्याधिको भवति । संप्रजान एकं
फिच्चकं उत्क्षिपियाणं हस्तेन विवरित्वा वातकर्म्म (इइ.प्.74) कर्त्तव्यं ।
तथा कर्त्तव्यं यथा अनन्त(रि)कं शब्देन न व्यावहति । तं पि दानि न
क्षमति । येन वृद्धतरको तेन पिच्चकम् उ(50अ3)त्क्षिपितुं । अथ खलु
येन नवकतरको तेन फिच्चकम् उत्क्षिपितव्यं । अथ दानि वृद्धतरको
च नवकतरको च एकस्थाने ढुक्ककं भवति । नायं क्षमति
संघनवकेन येन संघस्थविरो तेन फिच्चकं उत्क्षिपितुं, । किञ् चापि
येन वृद्धतरको तेन फिच्चकं उत्क्षिपति । अनापत्तिः । (ज्.227.16) अथ
दानि भिक्षु न पारेति संप्रजान वातकर्म्म (50अ4) कर्त्तुं, ।
निर्द्धावियाणं वातकर्म्म कर्त्तव्यं । अथ दानि भिक्षुस्य पुनो पुनो
वातकर्म्म आगच्छति । प्रहाणस्य आमन्त्(र्)इय गन्तव्यं । नापि क्षमति
भक्ताग्रे (ज्.228) वा तर्पणाग्रे वा औद्धत्याभिप्रायेण वातकर्म्म
कर्त्तुं, । अथ खलु एक पि(फि)च्चकं उत्क्षिपिय वातकर्म्म कर्त्तव्यं ।
अथ दानि भिक्षुस्य वातकर्म्म पुनो आगच्छति अनन्तरिकस्य पात्रं
(50अ5) दत्वा गन्तव्यं । नापि क्षमति । धर्म्मश्रवणे वा
सामायिकायाम् वा औद्धत्याभिप्रायेण वा फर-फरस्य(राय)
वातकर्म्म कर्त्तुं, । अथ खलु एकं फिच्चकं उत्क्षिपित्वा वातकर्म्म
कर्त्तव्यः(ं) । अथ दानि भिक्षुस्य (ज्.226.8) पुनो पुनो वातकर्म्म
आगच्छति । (इइ.प्.75) धर्म्मश्रवणस्य आमन्त्रिय गन्तव्यं । नापि
क्षमति । उपाध्यायं वा आचार्यम् वा आमन्त्रयित्वा गन्तुं । नापि (50अ6)
क्षमति अन्तरघरं निषण्णेन औद्धत्याभिप्रायेण फर-फराय
वातकर्म्म कर्त्तुं, । अथ खलु एकं फिच्चकं उ(त्)क्षिपित्वा संप्रजानन्
वातकर्म्म कर्त्तव्यं । अथ दानि भिक्षुस्य पुनो पुनो वातकर्म्म
आगच्छति । एकमन्तं आगच्छिय कर्त्तव्यं । नापि क्षमति । उपाध्यायस्य
वा आचार्यस्य वा वृद्धतरकस्य वा अग्रतो औद्धत्याभिप्रायेण
फरफराय वातकर्म्म कर्त्तुं, । अथ (50अ7) दानि भिक्षुस्य
वातकर्म्म आगच्छति । एकमन्तं गच्छिय कर्त्तव्यं । नापि दानि
क्षमति । अनुवातं कर्त्तुं, । मा गन्धेन व्यावहेय्या । अपवातं

कर्त्तव्यं । वातपथं मुञ्चित्वा । (ज्.226.18) अथ दानि भिक्षुस्य
सार्द्धे(र्थे)न सार्द्धं गच्छन्तस्य समुदाचारो भवति । न दानि
सार्थेन अग्रतो स्थित्वा वातकर्म्म कर्त्तव्यं । (ज्.228.6) अथ दानि
आर्शव्याधिको भवति । हस्तेन विवरित्वा मार्ग्गतो उद्वर्त्तित्वा संप्रजानं
क(50ब्1)र्त्तव्यं । यथा सार्थं गन्धेन न व्यावहेय्या । वातपथं
मोचयित्वा कर्त्तव्यं । एवं वातकर्म्मे प्रतिपद्यितव्यं । न
प्रतिपद्यति ॥ * ॥ आभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
उद्दानं
(एवं) प्रदीपे प्रतिपद्यितव्यं ।
(एवं यष्टीयं प्रातिपद्यितव्यं ।)
(इइ.प्.76) एवं गेण्डुके प्रतिपद्यितव्यं ।
एवं निषीदने प्रतिपद्यितव्यं ।
एवम् उपाध्या(नहा)ये प्रतिपद्यितव्यं ।
एवं कासितव्यं ।
एवं क्षीवितव्यं । (ज्.229)
एवं कण्डूयितव्यं ।
एवं जंभावयितव्यं । (50ब्2)
एवं वातकर्म्म प्रतिपद्यितव्यं ।
(ज्.230) अन्तरोद्दानं
संघस्थविरो च शय्यासन कठिन आगन्तुका च आरण्यका नेवासिका च
प्रदीपो च सप्तवर्ग्गाः प्रकाशिताः ॥ * ॥
आभिसमाचारिकाः समाप्ताः ॥ * ॥
आर्यमहासांघिकानां लोकोत्तरवादिनां मध्युद्देश-पाठकानां
पाठेनेति ॥ * ॥
ये धर्म्मा हेतुप्रभवा
हेतुन् तेषान् तथागतो ह्य् अवदत् ।
तेषाञ् च (50ब्3) यो निरोध
एवम्वादी महाश्रमणः

मूल पाठ: Abhisamācārikadharma · Data entry Abhisamacarika-Dharma Study Group, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc