अभिसमाचारिकधर्म · भाग 6180
संघस्थविरेण जानितव्यं । यदि ताव तस्य दुग्रहो भवति । सो च भिक्षु
भवति । कलहकारको भण्डनकारको भाष्यकारो अधिकरणिको वा
वक्तव्यं । मा जल्पाहि त्ति कस्य त्वं भिक्षूणां समग्राणां सहितानां
संमोदमानानां अविवदमानानां एकोद्देशकानां क्षीरोदकीभूतानां
शास्तुः शासनं दीपयमानानां सुखञ् च फासु(30ब्2)ञ् च विहरन्तानां
कलहजातो भण्डनजातो विग्रहविवादापन्नो विहरन्तो संघे कर्कशानि
अधिकरणानि (ज्.138) उत्पादयसि मा जल्पाहि त्ति । अथ दानि तस्य सुग्रहो
भवति । सो च भिक्षु भवति । भद्रको गुणवान् शिक्षाकामो अनुद्धतो
अनुन्नडो अचपलो अमुखरो अप्रगल्भो अप्रकीर्ण्णवाचो संघस्थविरेण
वक्तव्यं । आयुष्मन् जल्पथ यथाधर्म्मं, (30ब्3) यथाविनयं
यथाशास्तुः । शासनं ति तेन कार्यं संघमध्ये आरोचयितव्यं ।
संघेन तत् कार्यं धर्म्मेण विनयेन शास्तुः शासनेन
व्युपसमयितव्यं । व्युपशान्तं करिय सो भिक्षु पृच्छितव्यो आयुष्मन्
किं व्युपशान्तं एतं कार्यं यदि ताव आह । व्युपशान्तं वक्तव्यं ।
आयुष्मन् सर्व्वे त्वं एतं कार्यं समग्रेण संघेन संव्युपशान्तं
(30ब्4) पुनः कर्म्माय उत्खोटयसि पुनो चास्मि पर्ष उपसंक्रमेसि ।
संघो ते उत्तरि उपपरीक्षिष्यतीति । यथासुखं करिय गन्तव्यं एवं
आर्यपर्षा उपसंक्रमितव्या न प्रतिपद्यति । आभिसमाचारिकान्
धर्म्मान् अतिक्रामति ॥ * ॥
(इ.प्.129) उद्दानं ॥
एवं आगन्तुकेहि प्रतिपद्यितव्यं ।
एवं नेवासिकेहि प्रतिपद्यितव्यं ।
एवं पादा वन्दितव्या ।
एवं (30ब्5) सम्मोदितव्यं ।
एवं आलपितव्यं ।
एवं प्रव्याहर्त्तव्यं ।
(ज्.139) एवं क्षत्रियपर्षा उपसंक्रमितव्या ।
एवं ब्राह्मणपर्षा उपसंक्रमितव्या ।
एवं गृहपतिपर्षा उपसंक्रमितव्या ।
एवं तीर्थिकपर्षा उपसंक्रमितव्या ।
एवं आर्यपर्षा उपसंक्रमितव्या ॥
चतुर्थो वर्ग्गः ॥
(इइ.प्.5)
व्.1-2 म्स्. 30ब्5 (ज्.140.1); छ्. 509च्26
भगवान् सम्यक्सम्बुद्धो यद् अर्थं समुदागतो तम् अर्थम्
अभिसम्भावयित्वा श्रावस्त्याम् वि(30ब्6)हरति विस्तरेण निदानं कृत्वा
याव आरण्यकं ताव शेय्यासनं ग्रामान्तिकञ् च एकभक्ततर्प्पणञ् च
ग्रामान्तिके शेय्यासने आरण्यकानाञ् च ग्रामान्तिकानाञ् च अनुग्रहो
साधीयति । तेहि दानि ग्रामान्तिकेहि प्रतिकृत्येव गण्डिं आहनियाणं
स्थिताः । ते दानि आरण्यका देशकाले ग्रामान्तिकं शेय्यासनं आगता
आहंसु । आयुष्मं देशकालो आहनथ गण्डिं ते (30ब्7) दानि ग्रामान्तिका
आहंसु । आहता-य्-इयं गण्डी भुक्त(ं) पि अम्हेहि ते दानि आहंसु ।
आयुष्मन् । एवं यूयं अत्यनुकाल्ये गण्डीं आहनिय भुञ्जथ । ते दानि
ग्रामान्तिका आहंसु । एवं च यूयं अति-उवह्ने आगच्छथ । ते दानि
आरण्यकेहि अपरेज्जुकातो कल्यतो येवा(व) उत्थिहिय भक्तकानि सर्व्वाणि
उ(त्)क्षिप्तानि । ते दानि ग्रामान्तिका देशकालस्मिन् । कुलानि
उपसंक्रम(31अ1)न्ति । आहंसु । उपासिके देथ । भक्तानि उक्कहितानि
भक्तानि केन आहंसु । आरण्यकेहि ते दानि तेषां आरण्यकानां आहंसु ।
आयुष्मन् किन् दानि (ज्.141) युष्माभिः सर्व्वाणि भक्तकानि उत्क्षिप्तानि । ते
दानि आहंसुः । तथा तुम्हेहिं प्रतिकृत्येव गण्डि आहनियाणं भुञ्जथ ।
ते दानि विवदिताः । भगवतो मूलं गताः ।
भगवान् आह । नायं ताव क्षमति प्रतिकृत्येव गण्डीं आहनियाणं
भुञ्जि(31अ2)तुं । नापि क्षमति । अपरेहि कल्यतो येव सर्व्वाणि भक्तानि
उत्क्षिपितुं, । तेन हि । एवं आरण्यके विहारे प्रतिपद्यितव्यं । एवं
ग्रामान्तिके विहारे प्रतिपद्यितव्यं । किन् ति दानि एवं आरण्यके विहारे
(इइ.प्.6) प्रतिपद्यितव्यं । एवं ग्राम(मा)(न्ति)के विहारे प्रतिपद्यितव्यं ।
एतं दानि ग्रामान्तिकं च शेय्यासनं आरण्यकञ् च शेय्यासनं च
एकभक्ततर्प्पणं भवति । ततो यदि ताव ग्रामान्तिके शे(31अ3)य्यासने
भक्तम् पच्यति । न दानि क्षमति । ग्रामान्तिकेहि प्रतिकृत्येच(व) गण्डीं
आहनियाणं चेतियं वन्दियाणं भुञ्जितुं । अथ खलु ग्रामान्तिकेहि दुवे
शा(था)लीयो आद्राहयितव्या । या एका ग्रामान्तिकानां । एका आरण्यकानां
ग्रामान्तिकानां थाली तहिं । तण्डुला प्रक्षिपितव्याः । या आरण्यकानां
थाली यदि ताव आरण्यका आगता भवन्ति । तहिं, (31अ4) तण्डुला
प्रक्षिपितव्याः । अथ दानि नागच्छन्ति । नापि क्षमति तहिं तण्डुलानि
प्रक्षिपितुं । अथ खलु कढन्ती थपितव्या । एकेन भिक्षुणा विहारकं
उक्कसिय निध्यायि(पि)तव्यं । यदि ताव (ज्.142) आरण्यका आगच्छन्ति ।
वक्तव्यं । आयुष्मन् एते आरण्यका आगच्छन्ति प्रक्षिपथ तण्डुलानि । अथ
दानि कालपर्यन्तं नागच्छन्ति ग्रामान्तिकेहि गण्डीं आहनि(31अ5)याणं
भुञ्जितव्यं । आरण्यकानां स्थाली ओतारियाणं वोधि(धोवि)याणं स्थाने
स्थंपयितव्या । अनेकाये आरण्यकानां चो(र)भयं वा भवेय
उदकभयं वा सिंहभयं वा । व्याघ्रभयं वा यथापि ते
नागच्छन्ति । यदि कोचि उपासको संघं भक्तेन निमन्त्रयति । आह ।
आर्यो (र्ये) आरण्यकानां पि आरोचेथ न्ति(त्ति) । तेहि दानि ग्रामान्तिकेहि
आरण्यकानां । (31अ6) पि आरोचितव्यं । आयुष्मं शुवे भक्तं वा
पुरेभक्तिकं वा यवागूपानं वा भविष्यति । मा पिण्डकेन
विहरिष्यथ । कर्ण्ण(ल्ल)तो य्येव आगच्छथ । तेहि पि दानि आरण्यकेहि न
विघ्नयितव्यं । यदि अर्थिका भविष्यन्ति प्रतिपालयिष्यन्तीति । अथ खलु
कालेन कालं (इइ.प्.7) गन्तव्यं । यदि न सज्जं भवति । न दानि
भक्ताग्रं अवष्टभयितव्यो आसयितव्यं । अथ खलु वे(चे)तियं वन्दित्वा
एकान्ते (31अ7) स्वाध्यायो कर्त्तव्यो । धर्म्मम् वा चिन्तयन्तेहि आसितव्यं
एषो दानि कोचि ग्रामान्तिकां भक्तेन निमन्त्रेति । वक्तव्यं ।
आरण्यकानां पि निमन्त्रेहि न्ति(त्ति) । अथ दानि आह । नास्ति मम तहिं
श्रद्धा नापि प्रसादो त्ति वक्तव्यं । वयं पि न प्रतिच्छामे (मो)
न्ति(त्ति) । अथ दानि आरण्यकानां पि निमन्त्रेति भक्तं सज्जयितव्यं । (ज्.143)
पानीयं परिश्रावयितव्यं । आसनप्रज्ञप्ति कर्त्तव्या । दानपति आगतो
भवति । (31ब्1) आरण्यका च नागच्छन्ति । दानपती आह भन्ते आहनेथ
गण्डिं कालो पि ताव अद्यापि भवति वक्तव्यं । प्रागो ताव अद्यापि
आरण्यका पि ताव नागच्छन्ति । अथ दानि दानपती आह भन्ते आहनेथ
तुम्हे अ(आ)रण्यका पि एष्यन्तीति किं कर्त्तव्यं । गण्डी ताव विस्तरेण
आहनियाणं वे(चे)ति।यो विस्तरेण वन्दितव्यो । चेतियं विस्तरेण वन्दियाणं
यदि ताव आरण्यका आग(31ब्2)ता भवन्ति । ततो भुंजितव्यं । अथ दानि
आरण्यका नागता भवन्ति । अनन्तरिकानां आसनानि वर्ज(य)न्तेहि
आसितव्यं । परिवेशावकेन पृच्छितव्यं । को आरण्यकानां लाभग्राहो
यदि तावज् जल्पन्ति । अहं पि अहं पि त्ति वक्तव्यं । आरण्यकानां
पिण्डपातं उक्कड्ढथ तेहि आरण्यकानां पिण्डपातो उक्कड्ढयितव्यो ।
उक्कड्ढियाणां सांघिकं कल्पियकुटीयं स्थाप(31ब्3)यितव्यो । यदि तावत्
सकाले आगच्छन्ति । भुञ्जनाय दातव्यो । अथ दानि विकाले आगच्छन्ति । न
वागच्छन्ति । अपरेज्जुकातो श्रामणेराणां दातव्यं । नापि दानि (इइ.प्.8)
क्षमति । आरण्यकेहि यत्र पु(उ)ल्लु(ल्ल)गिकाये आसितुं । अथ खलु कालेन
कालं ग्रामान्तिकं शेय्यासनं गन्तव्यं । आगच्छिय पादां धोविय
हस्तां निर्म्मादिय चेति।यो विस्तरे(31ब्4)ण वन्दितव्यो । यदि (ज्.144) ताव
अनुकल्यो अद्यापि ताव भवति । तत्रैव स्थानचंक्रमनिषद्यायोगम्
अनुयुक्तेन विहरितव्यं । उद्देशप्रयुक्तेहि वा मनसिकारप्रयुक्तेहि वा ।
अथ दानि देशकालो भवति । संघारामं प्रविसियाणं ग्रामान्तिकं
भिक्षुं प्रतिसंमोदियाणं स्वकस्वकेहि आसनेहि उपविशितव्यं । गण्डी
आहतायं वन्दि(31ब्5)य चेतियं नापि दानि आरण्यकेहि ग्रामान्तिका
कुत्सेतव्या बहुकृत्या बहुकरणीया जिह्वाग्रे यूयं रसाग्राणि पर्येषथ ।
अथ खलु संराधयितव्या । वक्तव्यं आयुष्मन् सोभनं क्रियति
बहुकरा यूयं भारं वहथ । धर्म्मदेशनां करेथ । संघारामो
केलापीयति । धूमो क्रियति कुलानि प्रसादीयन्तीति । एवं
संराधयितव्याः । अथ (31ब्6) दानि आरण्यके शेय्यासने ग्रामान्तिकानां
च आरण्यकानाञ् च भक्तं सज्जीयति । नापि दानि क्षमति । आरण्यकेहि पि
प्रतिकृत्येव गण्डिं आहनियाणं चेतियं वन्दिय भुञ्जितुं । अथ खलु
दुवे स्थालीयो अ(आ)द्राहयितव्यायो । एका आरण्यकानां एका
ग्रामान्तिकानां या आरण्यकानां स्थाली तहिं तण्डुला प्रक्षिपितव्याः ।
या ग्रामान्तिंकानां स्थाली यदि ताव ग्रामान्तिका (31ब्7) आगता भवन्ति ।
तहिं पि तण्डुला प्रक्षिपितव्याः । अथ दानि ग्रामान्तिका नागच्छन्ति । न
क्षमति तहिं तण्डुलां प्रक्षिपितुं । जानितव्यं । अनेकाये
ग्रामान्तिकानां ग्रामो परो वा भवे चोरा वा पतिता भवेंसुः । यथा
नागच्छन्तीति । (इइ.प्.9) एकेन भिक्षुणा विहारं उक्कसियाणं
निव्या(ध्या)(प)यन्तेन आसितव्यं । किं ग्रामान्तिका (ज्.145) आगच्छन्ति । न
हि त्ति । यदि ताव आगच्छन्ति तेषां पि (32अ1) तण्डुला प्रक्षिपितव्या । अथ
दानि नागच्छन्ति । देशकाले गण्डिं आहनिय चेतियं वन्दिय भुञ्जितव्यं
ग्रामान्तिका(नां) थाली-य्-ओतारिय था(ली) तोयलिप्तां करिय थपितव्याः ।
एषो दानि कोचि आरण्यकानां भक्तेनोपनिमन्त्रयति वक्तव्यं ।
ग्रामान्तिकानाम् अपि निमन्त्रेहीति । अथ दानि आहंसुः । नास्ति मम
तंहिं श्रद्धा नास्ति प्रसादो वक्तव्यं वयं पि न प्रतिच्छामो न्ति(त्ति) ।
अथ दानि (32अ2) ग्रामान्तिकानाम् अपि निमंत्रेति भक्तं सज्जयितव्यं ।
आसनप्रज्ञप्तिः कर्त्तव्या । पानीयं परिश्रावयितव्यं । पुष्पं
सज्जयितव्यं । गन्धो सज्जयितव्यो । यदि ताव ग्रामान्तिका नागच्छन्ति ।
दानपतिर् आगतो भवति । आह । भन्ते । आहणथ गण्डिं अनुकाल्यो व ताव
अद्यापि भवति । वक्तव्यं । प्रागो ताव अद्यापि ग्रामान्तिका च भिक्षवो
नागच्छन्ति । अथ दानि आह । आहणथ (32अ3) तुम्हे ग्रामान्तिका पि
एष्यन्तीति । किं कर्त्तव्यं । गण्डी ताव विस्तरेण आह।नियाणं वे(चे)तियो
विस्तरेण वन्दितव्यो । वे(चे)ति(यं) विस्तरेण वन्दियाणं यदि ताव
ग्रामान्तिका आगता भवन्ति भुञ्जितव्यं । अथ दानि ग्रामान्तिका
नागच्छन्ति । आसनानि (ज्.146) वंजाय(र्जयं)तेहि उपविशितव्यं ।
परिथप(वेष)केन वक्तव्यं । को ग्रामान्तिकानां भिक्षूणां
लाभग्राही यदि ताव आ(32अ4)हंसु । अहं पि अहं पि त्ति वक्तव्यं ।
ग्रामान्तिकानां भिक्षूणां पिण्डपातं परिगृह्नथ न्ति(त्ति) । अथ दानि
तेषां न कोचि लाभग्राहको भवति । परिवेषकेन सर्व्वेषां एकस्थाने
पिण्डपातं उक्कड्ढियाणां सांघिकायं कल्पियकुटीयं (इइ.प्.10)
थपितव्यो । यदि ताव काले आगच्छन्ति भुञ्जनाये दातव्यं । अथ दानि
विकाले आगता भवन्ति । न वा आगच्छन्ति । अपरेज्जु(32अ5)कातो
श्रामणेराणां वा आरामिकानाम् वा दातव्यो नापि दानि क्षमति
ग्रामान्तिकेहि यत्रोल्लग्नाये आसितुं, ॥ अथ खलु कालेन कालं आरण्यकं
शेय्यासनं उक्कसितव्यं पादां प्रक्षालिय हस्तां निर्म्मादिय स्तूपं
विस्तरेण वन्दितव्यं । यदि ताव अनुकाल्यो भवति । आरामेहि वृक्षमूलेहि
चंक्रमेहि निषद्याहि स्थानचंक्रमनिषद्यानु(32अ6)योगम् अनुयुक्तेहि
वीतिनामयितव्या । उद्देशप्रयुक्तेहि वा मनसिकारप्रयुक्तेहि वा अथ
दानि देशकालो भवति विहारं प्रविशियाणां आरण्यकां भिक्षूं
प्रतिसंमोदियाणं स्वकस्वकेहि आसनेहि उपविशितव्यं । गण्डीयं
आहतायं स्तूपं वन्दियाणं भुंजियाणं गन्तव्यं । नापि दानि
ग्रामान्तिकेहि आरण्यका कुत्सेतव्या । पंसेतव्या । (ज्.147) शून्यागारमाता
यूयं प्रज्ञा(32अ7)वैतक्षि(ंस्कि)या शृगाला पि आरण्ये वसन्ति दिवसं यूयं
वर्षाणि पिण्डेन्ता आसथ । अथ खलु वक्तव्या दुरावासकानि आरण्यकानि
शेय्यासनानि प्राप्तानि विविक्तानि विगतजनपदानि मनुष्यरहशय्यकानि
प्रतिसंलयनसारोप्यानि दुष्करं प्रति(वि)वेकेन दुरभिरमं एकं परं
रात्रि विनयमानो मानसं आध्यात्मं वेति । आयुष्मन शोभनं क्रियति
आरण्यकं शेय्या(32ब्1)सनं केलापीयति । उक्तं चेदं भगवता
यावकीयं च भिक्षवो आरण्यकानि शेय्यासनानि अध्यावसिष्यथ । ताव
वृद्धी येव प्रतिकांक्षितव्या । कुशलेहि धर्म्मेहि नो परिहाणि न च वो
मारः । पापीयां अवतारम् अधिगमिष्यति । सद्धर्म्मस्य
अन्तर्द्धानाय स(ं)मोहाय न्ति(त्ति) । एवं संरावि(धि)य गन्तव्यं । एवं
आरण्यकेहि प्रतिपद्यितव्यं । न प्रतिपद्यति (इइ.प्.11) । आभिसमाचारिकान्
धर्म्मान् अतिक्रा(32ब्2)मति ॥ * ॥
व्.3-4 म्स्. 32ब्2 (ज्.147.13); छ्. 508ब्22
भगवान् श्रावस्त्याम् विहरति । तेन दानि कालेन तेन समयेन
आयुष्मन्तो नन्दनोपनन्दना पानीयं प्रतिजागरन्ति । ते दानि भिक्षू
ततो य्येव मुखं ततो य्येव हस्तां निर्म्मादियन्ति । पात्रपरिश्रावणानि
धोवन्ति । ते दानि कल्यतो येव नन्दनोपनन्दना उत्थियाण हस्तां
निर्म्मादिय पानीयं परिश्राविय (ज्.148) पानीयमण्डपं परिघट्टिय
तायितमुद्रितं करिय गोचरं (32ब्3) प्रविष्टाः । आगन्तुका भिक्षू
आगताः । पानीयं मार्ग्गेन्ति । न लभन्ति । ते दानि ओध्यायन्ति किन् दानि
अयं पानीयमण्डपो तायितमुद्रितो थपितो एतं प्रकरणं भिक्षूहि
श्रुतं । भिक्षू भगवतो आरोचयेंसु । भगवान् आह । शब्दापयथ
नन्दनोपनन्दनां । ते दानि शब्दापिताः । भगवान् आह । सत्यं
भिक्षवो नन्द्(अन्)ओपनन्दना ॥ पे ॥ याव आगन्तुका(32ब्4)नां भिक्षूणां
गणो आगतो पानीयं मार्ग्गन्ति । न लभन्ति । ते दानि ओध्यायन्ति किन् दानि
अयं पानीयमण्डपो तायितमुद्रितो करिय थपितो आहंसुः । आम
भगवन्
भगवान् आह । तेन हि एवं पानीये प्रतिपद्यितव्यं । एवं
पादधोवनीये प्रतिपद्यितव्यं । किन् ति दानि एवं पानीये
प्रतिपद्यितव्यं । एवं पादधोवनीये प्रतिपद्यितव्यं । नायं क्षमति
(32ब्5) पानीयं परिश्राविय पानीयमण्डपं घट्टिय तापि(यि)य मुद्रितं
करिय अन्येन गन्तुं । अथ खलु पानीयवारिको ताव उद्दिशितव्यो ।
नवकान्ते पटिप(पा)टिकाय वा यस्य वा प्रापुणति । एको वा द्वयो वा
त्रयो वा यत्तका वा अभिसंभुणन्ति । तेहि कल्यत एव उत्थिय हस्तां
निर्म्मादिय (इइ.प्.12) पानीयं परिश्राविय गोलका वा मणिका वा उष्ट्(र्)इका
(32ब्6) वा थगनका वा आरंजरा वा घट्टा वा करकीयो वा अप्पिहाणा
कर्त्तव्या । शील(शिला)मया वा मृत्तिकामया वा काष्ठमया वा अच्छेहि
वा चेलष(प)ट्टेहि वा बन्धितव्या । यो सुभाविता करिय थपेतव्या ।
यथा पानीयं चौक्षं भवेय । न दानि (ज्.149) कुक्कुटपाशकेन
बन्धित्वा स्थापेतव्यं । तेहि भाजनेहि प्रक्षिपितव्या पाटलागुलिका वा
चम्पकगुलिका वा शर्करा वा सर्व्वङ् क(32ब्7)र्त्तव्यं । यथा सुगन्धा
भवेंसु । ततो यदि ताव अन्यं पिबनाये पानीयं भवति । अन्यं
पादधोवनीयं परिश्रावितव्यं । परिवोध(धोव)नीयेन पानीयेन
शिरिकुण्डिका पूरयितव्या । आकल्पियकर्क्करी पूरयितव्या । पादधोवनिका
पूरयितव्या । वर्च्चकुम्भिका पूरयितव्या । भिक्षूणां हस्तोदकस्य
पात्रोदकस्य पारिभोगिकस्य कुम्भिका च करका च पूरयितव्या ।
गो(33अ1)गोत्रस्थाप(स्थपा)नीयं भवति । यथा पाटलिपुत्रे शोणपानीयं
राजगृहे तयोत(पोद)ं वाराणस्यां बुद्धविचीर्ण्णा नाम पुष्किरिणी
चम्पायां गंगापानीय(ं) श्रावस्त्यां पे(पो)तलेयं शाकेते
धरपानीयं । मथुरायां यमुना न क्षमति ततो पानीयातो
कल्पियकरकी वा अकल्पियकरकी वा वर्च्चकुम्भिका वा पूरयितुं ।
हस्तोदकपादोदकं वा पानीयं दातुं । अथ खलु ततो पिबनाये (33अ2)
दातव्यं । अथ दानि श्राद्धो भिक्षुर् भवति । ततो एव श्रीकुण्डिकां
पूरेति अनापत्तिः । भिक्षुस्य चक्षु दुःखन्ति वैद्यो आह । भन्ते (इइ.प्.13)
गोत्रस्थेन पानीयेन अक्षिणि धोवाहि त्ति लभ्या दानि पात्रपूरं वा एषो
दानि (ज्.150) धोवनिकां वा रजनिकाम् वा करेति । तस्य उदकेन कार्यम्
भवति । पानीयधा(वा)रिकां याचति इच्छामि पानीयं दीयमानन् ति न
क्षमति । गोत्रस्थं उदकं दातुं । अथ (33अ3) खलु पारिधोवनीयं
उदकं दातव्यं । भक्ताग्रेण पानीयं वा(चा)रेन्तेन हस्तां
सुनिर्म्मादितां कृत्वा भाजनं सुनिर्म्मादितं कृत्वा चौक्षं पानीयं
वा(चा)रेतव्यं । पानीयं गृह्नन्तेन घर्त्तितव्यं । यथा एकहस्तो
निरामिषो भवति । अथ दानि सहसाकारेण सामिषीकृतो भवति ।
प्रक्षालयित्वा य(प)त्रशाखाय वा पात्रं वा ओट्ठाचि(33अ4)क्कणं
भवति निर्म्मादयित्वा पातव्यं । न दानि अतिबहु(ं) ओष्ठ
प्रक्षिपितव्या । केशा वा आलिहितुम् वा निडालम् वा । अथ खलु ओष्ठ
प्रमार्जित्वा अग्रोष्ठेहि या(पा)तव्यं । ततो य्येव स्तोकं वर्जयितव्यं ।
तेनैव अन्तेन प्रक्षालयन्तेन उज्झितव्यं । पानीयं वा(चा)रेन्तेन
उपलक्षयितव्यं । यदि कोचि अतिबहुं ओष्ठं वा वोलयति केशा वा
आलयं(33अ5)ति निलाटे वा अपनेतव्यं तं भाजनं एकान्ते स्थपित्वा तृणं
वा कुलिकं वा उपरि दातव्या । अभिज्ञानं । यथाज्ञाये अकल्पियन् ति । पुनो
वा निर्म्मादयितव्यं । पश्चाद्भक्तं पानीयं चारेन्तेन हस्तां
सुनिर्म्मादिता करिय ॥ पे ॥ याव एकिना हस्तेन पानीयं परिगृह्नितव्यं ।
अपरेण पानीयघटिकां पटिच्छन्तेन चीवर(रा)ंतरिकाय वा
पात्रान्तरिकाये (33अ6) वा गृह्नितव्यं । याव तेनैव अन्तरकेन
उज्झितव्यं । जेन्ताके चारेन्तेन ओष्ठा (इइ.प्.14) पानीयचारिकाये पात्रं
बन्धितव्यं । पिबन्तेन ओष्ठा पत्रशाखाये निर्म्मादयित्वा
अग्रोष्ठकेहि पातव्यं ॥ पे ॥ तं य्येव (ज्.151) कर्त्तव्यं प्रहाणे
चारेन्तेन यदि भूम्यास्तरो भवति भाजनानि पत्रशाखाहि
स्थपितव्यानि । ओम्हाय वा वालिकाय वा भाजनेहि वा थपितव्यं । यदि
अष्ट(33अ7)भाग चतुर्भागं च निषण्णका भवन्ति । एकेन
मध्यमवा(चा)रके स्थितकेन वा(चा)रेतव्यं । अपरेण प्रणेतव्यं । अथ
दानि पटिपाटिकाये दूरे दूरं प्रहाणस्य उपविष्टा भवन्ति । एकेन
चारेतव्यं ॥ पे ॥ लभ्या दानि पारिधोवनिकातो मुखं वा धोवितुं ।
हस्तं वा निर्म्मादयितुं, । पात्रपरिश्रावणं वा धोवितुं । न दानि
क्षमति । झल्लझल्लाये उज्झितुं । मात्राये (33ब्1) उपनामेतव्यं । न दानि
क्षमति । पारिधोवनियातो स्नापि(यि)तुं वा चीवरम् वा धोवितुं । रञ्जनं
वा कढितुं । अथ दानि भिक्षू चीवरकर्म्म करोंति । उदकञ् च आविलं
भवति । भाजनं च अतिरिक्तं ति ले(। ल)भ्या दानि पापिचकधर्म्मीय
याचितुं । आह । आयुष्मन् देहि भूयो आनीय दास्यामि त्ति । किञ् चापि देति
अनापत्तिः । तं पि दानि । गृह्निय आनीय कालेन कालं दातव्यं । अथ
दा(33ब्2)नि आसंनोदको संघारामो भवति । किञ् चापि ततो येव पिबति ततो
येव पारिधोवनीयं करोति । ततो येव हस्तां धोवति रङ्गम् वा करोति ।
(ज्.152) अनापत्तिः । एवं पानीये प्रतिपद्यितव्यं । न प्रतिपद्यति ।
आभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
व्. 5-6 म्स्. 33ब्2 (ज्.152.3); छ्. 507च्21
भगवान् श्रावस्त्याम् विहरति । ते दानि आयुष्मन्तो (इइ.प्.15)
नन्दनोपनन्दना षड्वर्ग्गिका च पादधोंवनिकायां झ(33ब्3)ल्लझल्लां
पादां धोवियाणं सर्व्वं उदकं स्था(च्छो)रिय पादधोवनिकां
ओमुद्धिकां करिय आ(र्)द्रपादकं उपनाहाहि प्रक्षिपिय नैव
कर्द्दमं परिहरन्ति न पांसु कर्द्दमं मर्द्दन्ता पांसु मर्द्देन्ता
दीर्घचंक्रमं चंक्रमन्ति । भिक्षु आगच्छन्ति पादधोवनाय । ते
दानि आहंसुः । मात्राये यूयम् आयुष्मन्तो पादां धोवथ । उदके पि
खलु [मात्र्]आ (33ब्4) उक्ता भगवता तथैव सर्व्वेहि बाहिरकेहि
जीवितपरिष्कारेहि ते दानि भिक्षु पश्यन्ति । तां पादधोवनिकां ऋक्तां ते
दानि ओध्यायन्ति । किं दानि अयं पादधोवनिका ओमुद्धिकृता एतं
प्रकरणं भिक्षू भगवतो आरोचयेंसुः । भगवान् आह ।
शब्दापयथ । नन्दनोपनन्दनां षड्वर्ग्गिकां च । ते दानि शब्दापिता ।
भगवान् आह । सत्यं भिक्ष(33ब्5)वो नन्दनोपनन्दना षड्वर्ग्गिका च
एवं नाम एवं नाम यूयं पादधोवनिकायां गच्छिय झल्लझल्लाये
पादां धोविय उदकं च्छोरिय पादधोवनिकां ओमुद्धिकां करिय
आर्द्रपादां उपानहासु प्रक्षिपिय नैव पांसु परिहरथ न कर्द्दमं
कर्द्दमं मर्द्दन्ता पांसु मर्द्दन्ता दीर्घचंक्रमं चंक्रमथ
भिक्षू आगच्छन्ति । पादधोवनिकाये पादां धो (33ब्6)वनाये यूयं
जल्पथ मात्राये आयुष्मन्तो पादां धोवथ उदके पि खलु भगवता
(ज्.153) मात्रा उक्ता । तथैव सर्व्वेहि जीवितपरिष्कारेहि ते दानि भिक्षु
पश्यन्ति पादधोवनिकां ओमुद्धिकां कृतां आहंसु । आम भगवन्
भगवान् आह । दुष्कृतं वो नन्दनो नन्दनोपनन्दना षड्वर्ग्गिका
च । तेन हि एवं पादा धोवितव्या । एवं (इइ.प्.16) धोवितपादेहि
प्रतिपद्यितव्यं किन् ति (33ब्7) दानि । एवं पादा धोवितव्या । किन् ति दानि
धोवितपादेहि प्रतिपद्यितव्यं । भगवान् दानि भिक्षून् आमन्त्रयति ।
एवं भिक्षवो पादां धोवथ । यथा शारिपुत्रो स्थविरो
एकम् इदं भिक्षवो समयं शारिपुत्रो स्थविरो वैशाल्याम् विहरति ।
महावने कूटागारशालायां स्थविरो दानि कालस्यैव निवासयित्वा
पात्रचीवरम् आदाय वैशालीन् नगरीं पिण्डाय प्रविष्टो
प्रासा(34अ1)दिकेन अतिक्रान्तेन प्रतिक्रान्तेन आलोकितविलोकितेन
सन्मिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन अन्तर्ग्गतेहि
इन्द्रियेहि अबहिर्ग्गतेन मनसेन स्थितेन धर्म्मतावस्थप्राप्तेन स्मृतो
संप्रजानो मार्गो विय कारितकारणो वेशालीं नगरीं पिण्डाय चरति ।
स्थविरो दानि अपरेण ब्राह्मणेन दृष्टो तस्य ब्राह्मणस्य भवति । इमे
इति (34अ2) कितिकाय पुत्राः । श्रमणकाः ग्रामान्ते इर्यापथं पठयन्ति
निर्द्धाविता च भवन्ति विकोपेन्ति । सो दानि प्रदुष्टचित्तो स्थविरस्य
पृष्ठिमेन पृष्ठिमं अनुबद्धो यत्र येव अयं श्रमणको ईर्यापथं
विकोपयिष्यति । तत्रैव शे (शीर्षे) खटकं दास्यामि । स्थविरो दानि
ग्रामारण्यसमेन (ज्.154) ईर्यापथेन समन्वागतो वैशालीं पिण्डाय
चरित्वा निर्द्धावितो विहारं आगतो स्थवि(34अ3)रो दानि विहारकेस्मिन् पात्रं
निक्षिपिय हस्तां प्रक्षालिय संघाटीं प्रस्फोटिय साहरिय अभ्यन्तरेण
द्विगुणिकां करिय चीवरवंशे स्थपयित्वा पानीयस्य दकानकं पूरीय
पीठका प्रज्ञापिय पादतद्ध(ट्ठ)कं उपनामयित्वा उपानहिकायो
उपनामिय (इइ.प्.17) उपानहायो( पो)च्छन्नो उपनामिय पादां धोवति ।
स्थविरो दानि दक्षिणेन हस्तेन उदकं आ(34अ4)सिञ्चति । वामेन हस्तेन
पादां धोवति । स्थविरेण दानि वामा जंघा धोविता दक्षिणा जंघा
धोविता वामो पादो धोवितो दक्षिणो पादो धोवितो
उपानहायो(पो)च्छतु(न्न)कं गृह्निय उपानहा संपुटं करिय एकस्य
उपानहो(हा)वद्ध्रो यो(पो)च्छितो द्वितीयस्य उपानहावद्ध्रो पोच्छितो
एकस्य उपानहातलं यो(पो)च्छितं द्वितीयस्य उपानहा(34अ5) तलं
पोच्छितं । उपानहिकायो निक्षिपिय दकानकातो वामाये कलाचीये उदकं
आवर्जयित्वा दक्षिणेन हस्तेन उपानहायो(पो)च्छनकं धोविय
निष्पीडित्वा आतपे शोषयेतं कलाचीय उदकं आवर्जिय हस्ता धोता हस्तां
(ज्.155) धोविय दकानकं धोविय पानीयावशेषं च्छोरिय आतपे शोषितं
सो दानि ब्राह्मणो [त]स्य (34अ6) आचारगोचरं पश्यिय तुष्टो सो दानि
प्रसन्नचित्तो आह । यथापि इमं भवता शारिपुत्रेण दकानकं ।
उपचीर्ण्णं यो पि सो ब्राह्मणानां उष्णोदककरको सो पि न एवं शुची
लभ्या खलु इतो पानीयं पातुं । स्थविरेण दानि तस्य ब्राह्मणस्य
प्रसन्नचित्तस्य चत्वार्य् आर्यसत्यानि प्रदर्शितानि दुःखम् आर्यसत्यं
दुःखसमुदयम् आर्यसत्यं दुःखनि(34अ7)रोधम् आर्यसत्यं
दुःखनिरोधगामिनी प्रतिपदम् आर्यसत्यं । तेन दानि ब्राह्मणेन
तत्रैव स्थाने स्थितेन श्रोतापत्तिफलं साक्षात्कृतं भिक्षू दानि
भगवन्तम् आहंसु । यस्य भगवान् कथम् अयं ब्राह्मण
स्थविरस्याचारगोचरेण तुष्टो भगवान् आह । न एतर्हि एवम् अन्यदापि
एषो एतस्य आचारगोचरेण तुष्टो न्यदापि भगवन् अन्यदापि (34ब्1)
भिक्षवो भूतपूर्व्वम् भिक्षवो अतीतम् अध्वानं एतहिं च नगरं
(इइ.प्.18) वाराणसी काशिजनपदो । तत्र दानि अग्रकुलिको आढ्यो महाधनो
महाभोगो प्रभूतधनधान्यकोशकोष्ठागारो
प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्व-अजगवेडको
प्रभूतदासीदास(ज्.156)कर्म्मकरपौरुषेयो । तस्य दानि एको पुत्रो
अचिरजातो सो (34ब्2) दानि मातापितृभिर् उन्नीयति वर्द्धीयति । यं कालं
सप्तवर्षो ष्टवर्षो वा सो दानि मातापितॄणां पूर्व्वोत्थायी
पश्चान्निपाती प्रियवादी मन-अपवादी । किंकरपरिश्रावको तस्य दानि
श्रेष्ठिकस्य कुलपुत्रका गृहं ओचरन्ति । तस्य गृह(ं) गुप्तञ् च
सुरक्षितञ् च न पारेन्ति ओतारं विन्दनाय । कदाचि दानि सो श्रेष्ठि
अपरेहिं ज्ञातिसाले निमन्त्रितको गतो व(34ब्3)र्षारात्रिकं तं दार(क)ं
रक्षपालं थपियाणं पुत्र द्वारं घट्टियाणं रक्षमाणो आसेसि । सो
दानि दारको श्रेष्ठिना सपरिवारेण गतेन गृहस्य द्वारं घट्टियाणं
रक्षमाणो आसति तेहि दानि कुलपुत्रकेहि ओतारो लब्धो । ते दानि तं गृहं
ओक्खन्दियाणं प्रविष्टा ते दानि उल्कायो च दीपिकायो च प्रज्वालियाणं
मार्ग्गन्ति । सो एको दा(34ब्4)रको दृष्टो ते दानि पृच्छन्ति । दारक कहिं
तुम्हाणं हिरण्यं वा सुवर्ण्णं वा । सो दान् आह । अहं पि न जानामि ।
एतं गृहं शून्यकं मार्ग्गिय मार्ग्गिय यं लभथ तं गृह्नथ तेहि
दानि मार्ग्गिय मार्ग्गिय प्रभूतं हिरण्यसुवर्ण्णं गृहस्य
मध्यमागारे महान्तं कूटं कृतं यो तेषां चोरसेनापतिः । सो
गृहस्य (ज्.157) मध्यागारे उपविष्टः । सो दान(नि) चो(34ब्5)रसेनापतिः
पिपासितः । तस्य दारकस्याह । हंघो दारक पिपासितो स्मि । इच्छामि
पानीयं पातुं सो दानि दारको चौक्षसमुदाचारो भाजनं गृह्निय
परिमार्जिय हस्तां सुधा(धो)तां कृत्वा भाजनं सुधोतं कृत्वा
उदकस्य पूरिय (इइ.प्.19) यत्र दीपा दीप्यन्ति तत्र अल्लीनो सो दानि
सुप्रत्यवेक्षितं करिय चोरसेनापतिस्य अल्लीनो सेना(34ब्6)पति पिबाहि त्ति
तेनापि दानि चोरसेनापतिना तस्य दारकस्य पानीयं देन्तस्य सर्व्वम्
उपलक्षितं । सो दानि पृच्छति हंघो दारक कस्य कृतेन त्वं अत्र
दीपमूलं अल्लीनोसि सो दानि आह । सेनापति पानीयं प्रत्यवेक्षितुं, । मा
अत्र पानीयस्मिं तृणो वा भवे प्राणको वा तेन सेनापतिस्य अफासु
भवेय । सो दानि सेनापति तस्य आचारगोचरेण तुष्टो (34ब्7) तस्य भवति
सेनापतिस्य मा ताव मा ताव अस्माकं ताव एषो वधकानां
प्रत्यर्थिकानां प्रत्यमित्राणां अर्थकामो हितकामो को पुनर्व्वादो यो
एतस्य मातापिता वा ज्ञातिका वा तेहि एषो कथं अमैत्रचित्तो भविष्यति यदि
वयम् इमस्य दारकस्य एवं धर्म्मिष्ठस्य इमं हिरण्यसुवर्ण्णं
हराम प्रतिचोरेहि पि मुष्येम ग्रहणं पि गच्छेम । राजकुले पि
वध्येम । सो दानि (35अ1) चोरसेनापति पानीयं पिबिय तां सर्व्वां चोरां
शब्दापिय पृच्छति । को भणे को अहं युष्माकं ते दानि आहंसु ।
सेनापति आह । भवन्तो अहं इमस्य दारकस्य एवं च एवं च
आचारगोचरेण तुष्टो यदि वयं एतस्य धर्म्मिष्टस्य एतं हिरण्यं (ज्.158)
सुवर्ण्णं हरेम प्रतिचोरेहि वा वयं मुष्येम ग्रहणं पि गच्छेम ।
राजकुले पि वध्येम । यदि युष्माकं अनुकूलं (35अ2) भवे मुञ्चेम
वयं एतं एतस्य हिरण्यसुवर्ण्णं अन्यं वयं चोरयिष्यामः । ते दानि
आहंसुः । यथा सेनापतिकस्य रुच्यति । सो दानि दारकस्याह । हंघो
दारका इमं वयं तव सर्व्वं हिरण्यं सुवर्ण्णं देमि ते दानि चोरा
निर्द्धापिताः । तेन दारकेन द्वाराणि सर्व्वाणि घटितानि देवता गाथां
भाषते ।
(इइ.प्.20) आचारगुणसम्पन्नाः । ये भवन्ति तु मानवाः ।
(35अ3) लभन्ति विपुलां अर्थां यथा पानीयदायकः ।
आचारं शिक्षितं श्रेयो अनाचारं न शिक्षितं ।
चोरेहि गृहीतो संतो मुक्तो आचारकारणात् ॥
घात्या भवन्त्य् अघात्याचारं शिक्षियाणं विनयं च
स्थानेषु च ऐश्वर्यं लभन्ति आचारगुणयुक्ताः ॥
वध्या भवन्त्य् अवध्या आचारं शिक्षियाणं विनयं च ।
तस्मान् नरेण सततं आचारगुणेन भवि(35अ4)तव्यं ।
रौद्रा लोहितपाणी चौरा तुष्यन्ति ताडृशा सन्ता ।
आचारेण अनार्या आर्या जातावक्रान्ताः ॥
(ज्.159) भगवान् एतस्मिन् वस्तुनि धर्म्मपदं भाषते ।
न ब्राह्मणस्य प्रहरेय नास्य मुंचेय ब्राह्मणो ।
धिग् ब्राह्मणस्य हन्तारं तं पि धिक् यो स्य मुंचति ॥
भगवान् आह । स्याद् वो भिक्षवो एवम् अस्यादन्यो सौ तेन कालेन तेन
समयेन ++(35अ5) भवति अग्रकुलिकस्य पुत्रो नैतद् एवं द्रष्टव्यं ।
एषो शारिपुत्रो स्थविरो अन्यो सो चोरसेनापति एषो ब्राह्मणो तदापि एतस्य
एषो आचारगोचरेण तुष्टो एतर्हि पि एषो स्थविरस्य आचारगोचरेण तुष्टो ।
एषो दानि भिक्षु यदा ग्रामातो निर्ग्गतो भवति । ततो ग्रामप्रवेशिकं
चीवरं प्रस्फोटित्वा अत्यन्तपरि(35अ6)कर्म्मं साहरित्वा स्थपेतव्यं ।
आरामचरणकं प्रावरित्वा आसनं प्रज्ञपेतव्यं पादोपवा(धा)नकं
उदकदानं पि च उष्ठपयित्वा चेलखण्डेन रजो प्रस्फोटितव्यो
दकानकं कलाचीयं अ(आ)वर्जेत्वा चोलकं धोवित्वा निष्पिडित्वा उपानहा
(इइ.प्.21) निर्म्मादयितव्या ॥ पे ॥ याव चोलकं निष्पिडित्वा थपेतव्यो । मा
प्राणका जायेंसु (ज्.160) नीलिकाय वा भवेंसु । भिक्षुणापि ताव (35अ7)
पादां धोवन्तेन दक्षिण(णेन) हस्तेन उदकं आसिंचितव्यं । वामेन
हस्तेन पादां धोवितव्या वामा ताव जंघा धोवितव्या दक्षिणा ताव
जंघा धोवितव्या । वामो पादो धोवयितव्यो दक्षिणो पादो धोवयितव्यो ।
उपानहायो प्रस्फोटित्वा संपुटीकृत्वा एकस्योपानहाये वद्ध्रो
पोच्छितव्यो अपरस्य वद्ध्रो पोच्छितव्यो । एकस्य उपानहाये तलं (35ब्1)
पोच्छितव्यं । द्वितीयस्य उपानहाये तलं पोच्छितव्यं कुण्डिकातो वा
करकतो वा कलाचीये उदकं आवर्जिय उपानहापोच्छनकं धोवितव्यं ।
पीडिय आतपे शोषयितव्यं । कलाचीये उदकं आवर्जिय हस्ता धोवितव्या न
क्षमति उपानहाहि आर्द्रपादेन प्रवेशयितुं अथ खलु यं कालं
अध्वाता भवन्ति । ततो प्रवेशयितव्यो । अथ खलु दानि (35ब्2)
सर्व्वसंघस्य पादधोवनिका भवति । न क्षमति भिक्षुणा
झल्लझल्लाये पादां धोवितुं उदकं च्छोरयि(रिय) ओमुद्धिकां
पादधोवनिकां कर्त्तुं । अथ खलु अच्छटिकां करेन्तेन
पादधोवनिकायां प्रविशितव्यं । यदि ताव कोचि भिक्षुः पूर्व्वप्रविष्टो
भवति । आगमितव्यं । याव तेहि । धोविता पादा न्ति(त्ति) अथ दानि
खणुइ(खाणु)कापादधोवनिका भवति । त्रीणि वाचायो
जल्पयित(35ब्3)व्यो(व्या)।यो को वृद्धतरको वृद्धो(द्धे) न्ति(त्ति) । यदि ताव
कोचि वृद्धतरको भवति । अन्तरं दातव्यं । यं कालं तेन पादा
धोविता भवति । उपविशितव्यं । अथ दानि कोचि वृद्धतरको न भवति ।
एवं पि उपविशितव्यं । ततो यदि ताव दक्षिणान्ते पादधोवनिका (ज्.161)
भवंति । दक्षिणेन (इइ.प्.22) अन्ते(हस्ते)न उदकं आसिञ्चितव्यं । वामेन
हस्तेन पादा धोवितव्या । (35ब्4) वामा ताव जंघा धोवितव्या ।
दक्षिणेन(णा) जंघा धोवितव्या । वामो पादो धोवितव्यो । दक्षिणो पादो
धोवितव्यो । अथ दानि वामान्ते पादधोवनिका भवति । वामेन हस्तेन
उदकं आसिञ्चितव्यं । दक्षिणेन हस्तेन पादा धोवितव्या । नापि दानि
क्षमति तेनैव हस्तेन उदकं आसिञ्चितुं । अथ दानि द्वे जना भवन्ति ।
एकेन आ(35ब्5)सिञ्चितव्यं । एकेन धोवितव्यं । दक्षिणा ताव जंघा
धोवितव्या । वामा जंघा धोवितव्या । दक्षिणो पादो धोवितव्यो । वामो
पादो धोवितव्यो उपानहायो संघा(पु)टीकरिय एकस्य उपानहाये वध्रो
पोच्छितव्यो । द्वितीयस्य वध्रको पोच्छितव्यो । एकस्य उपानहाये तलं
पोच्छितव्यं । द्वितीयस्य उपानहाये तलं पोच्छित(35ब्6)व्यं । यदि तहिं
कोचि भिक्षु भवति नवतरको सो वक्तव्यो उदकं आसिञ्चिहि न्ति(त्ति) ।
उपानहापोच्छन्नो धोविय पीडिय तत्रैव स्थपितव्यं । हस्तान्
निर्म्मादियाणं अथा(ध्वा)तायां उपानहायां प्रक्षिपितव्यं । नापि
क्षमति । पादधोवनिकायां ओगुण्ठितशीर्षेण ओहितहस्तेन वा ।
पादधोवनिकाया उपविशितुं । अथ खलु एकांसी(ज्.162)कृतेन
उपविशितव्यं । नापि दानि (35ब्7) क्षमति पादधोवनिकायां
उद्देशप्रयुक्तेन वा मनसिकारप्रयुक्तेन वा मिद्धान्तरगतेन वा
निरोधसमापत्तिं चिन्तन्तेन आसितुं । अथ खलु पादेहि धोवितेहि उत्थिय
गन्तव्यं । धूली परिवर्जन्तेन गन्तव्यं । नापि दानि क्षमति पादेहि
धोवितेहि दीर्घचंक्रमं चंक्रमितुं । अथ दानि भिक्षुः स्वाध्यायं
करोति । पादेहि धोवितेहि चंक्रमन्ति भूयो धो(36अ1)वितव्या । अथ दानि
हेमन्तकालो भवति भिक्षुः पश्यति को भूयो धोविष्यतीति । अन्तमसतो
लेङ्कटखण्डेन (इइ.प्.23) वामहस्तेन वा आमर्जिय प्रविशितव्यं । एवं
पादा धोवितव्या । एवं धोवितपादेहि प्रतिपद्यितव्यं । न प्रतिपद्यति ।
आभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
व्. 7-8 म्स्. 36अ1 (ज्.162.11); छ्. 508च्24
भगवान् राजगृहे विहरति । विस्तरेण निदानं कृत्वा जीवको
कौमारभृत्यो भ(36अ2)गवन्तं याचति । अनुजानातु भगवान्
श्रावकानां जेन्ताकं वातपित्तश्लेष्मकानां पय(फा)सु भविष्यति ।
भगवान् आह । तेन हि अनुजानामि । एषा एवार्थोत्पत्तिः ॥ * ॥
भगवान् श्रावस्त्यां विहरति । संघस्य दानि जेन्ताको ते दानि
आयुष्मन्तो षड्वर्ग्गिकाः । प्रतिकृत्येव गच्छिय जेन्ताकं प्रज्वालीय
द्वारं घट्टिय स्वेदत्ता आसन्ति । आगता भिक्षू द्वारं याव(च)न्ति (36अ3)
आयुष्मन्तो देथ द्वारं । ते दानि आहंसु । आगमेतुं(ंतु) । आयुष्मन्तो न
ताव (ज्.163) जेन्ताको तत्तो भवति । यं कालं भिक्षु सन्निपतिताः । तं
कालं सर्व्वं तैलं उपयोजिय सर्व्वं चूर्ण्णं उपयोजिय सर्व्वं उदकं
च्छोरिय सर्व्वं, काष्ठं अग्नौ प्रक्षिपिय जेन्ताकं अपदुरिय
निर्द्धाविताः । आहंसुः । प्रविशन्तु आयष्मन्तो जेन्ताको तप्तो (36अ4) ते
दानि भिक्षु शीतप्रष्टव्येन स्पृष्टाः । त्वरितत्वरितं प्रविष्टा ते दानि
यं कालं तेहि आयुष्मन्तेहि षड्वर्ग्गिकेहि द्वारं आघट्टिय
बाहिरवितण्डितं कृतं । ते दानि तैलं मार्ग्गन्ति न लभन्ति चूर्ण्णं
मार्ग्गन्ति न लभन्ति । उष्णेन च धूमेन च संतापिताः । उदकं न
लभन्ति । ते दानि द्वारं आगच्छन्ति । याव बाहिरवितण्डितं कृतं । ते
दानि आहंसुः । (36अ5) आयुष्मन् षड्वर्ग्गिकाः । ओसरथ द्वारं (इइ.प्.24)
धूमेन च उष्णेन च मराम । ते दानि हसन्ति च विलेक्षन्ति च । ते दानि
आहंसुः । स्वेदन्तु आयुष्मन्तो उत्पातगण्डपिटकानां
वातपित्तश्लेष्मिकानां फासु भविष्यति । ते दानि यं कालं धूमेन च
उष्णेन च सुष्ठु संतापिताः । तं वेलं जेन्ताकस्य द्वारं मुक्तं ते
दानि उष्णेन च सन्तापिताः । बाह्यतो पि (36अ6) उदकं मार्ग्गन्ति न
लभन्ति ते दानि आहंसु स्तोकस्तोकं आयुष्मन मात्राये उपनेथ उदके पि
मात्रज्ञता उक्ता भगवता एतं प्रकरणं भिक्षू भगवतो
आरोचयेंसुः । भगवान् आह । शब्दापयथ षड्वर्ग्गिकां । ते दानि
शब्दापिताः । भगवान् आह । सत्यं भिक्षवो षड्वर्ग्गिकाः । एवन् नाम
संघस्य जेन्ताको त्त(त्ति) । तद् एव सर्व्वं भगवान् वि(ज्.164)स्तरेण
प्रत्यारो(36अ7)चयति । याव एते दानि भिक्षू उष्णेन च धूमेन च
सन्तापिता निर्द्धाविता बाह्यतो पि उदकं मार्ग्गयन्ति । न लभन्ति ।
यूयं दानि आहंसु स्तोकंस्तोकं आयुष्मन् मात्राये उपनेथ उदके पि
मात्रज्ञता उक्ता भगवता । आहंसु । आम भगवन् भगवान् आह ।
दुष्कृतं वो भिक्षवो षड्वर्ग्गिकाः । ना(अ)हं भिक्षवो षड्वर्ग्गिकाः ।
अनेकपर्यायेण मेत्रं कायकर्म्म वदामि (36ब्1) सब्रह्मचारिषु
ध्रुवं प्रत्युपस्थापयितव्यं । आवि चैव रहो च मैत्रं वाचाकर्म्मं
मैत्रं मनोकर्म्मं सब्रह्मचारिषु ध्रुवं प्रत्युपस्थापयितव्यं ।
आवि चैव रहो च तत्र नाम यूयं इदम् एवंरूपं पापकर्म्मम्
अकुशलन् धर्म्मम् अध्याचरिष्यथ । तेन हि एवं स्नाने
प्रतिपद्यितव्यं । एवं जेन्ताके प्रतिपद्यितव्यं किन् ति दानि एवं स्नाने
प्रतिपद्यितव्यं । एवं (36ब्2) जेन्ताके प्रतिपद्यितव्यं । जेन्ताकं करेन्तेन
वट्टितो वा कर्त्तव्यो चतुरस्रो वा विदिशं द्वारं कर्त्तव्यं ।
वातपानीयं वीथी कर्त्तव्या । अत्य(भ्य)न्तरे विशाला बाहिरतो (इइ.प्.25)
संद्यि(क्षि)प्ता । एकाये वातधा(पा)नीये वीथीये द्वौविका भवति द्वितीया
कर्त्तव्या भूमि अस्तरितव्या उपलेहि वा पक्षिट्टिकाय वा
सुधामृत्तिकालेपो वा कर्त्तव्यो । उद्विद्धवीथी कर्त्तव्या । भ्(र्)अष्टिका
(36ब्3; ज्.165) कर्त्तव्या । येन द्वाराहेष्ठतो विशालाहि उपरि संक्षिप्ता
उद्वेधो निर्घु(मु)ष्टिका त्रयो हस्ता कर्त्तव्या विस्तारेण नि(र्)मुष्टिका वा
भूमितो अर्धहस्त-उपस्थ(स्थू)लतरिका कर्त्तव्या । उल्कभ्रमो
कर्त्तव्यो । येन भ्रष्टिका समन्तेन कर्त्तव्यं कपाटं कर्त्तव्यं । यदि
ताव भ्रष्टिका दक्षिणतो भवति । वामतो कपाटं कर्त्तव्यं । अथ वा
न(वा)मतो भ्रष्टि(36ब्4)का भवति । दक्षिणतो कपाटं कर्त्तव्यं । न
दानि क्षमति । सूचिकबन्धिमं कर्त्तुं, । घटिका बन्धिमं कर्त्तव्यं ।
नापि दानि क्षमति तदा कर्त्तव्यं । यथा सुखेन तप्यति । अथ खलु
तथा कर्त्तव्यं । यथा य(ये)व फलमात्रेण लग्ग बाहिरतो चीवरकुटी
कर्त्तव्या । नागदन्तकवीथी कर्त्तव्या यतायेतार्थायैव भवति
जेन्ताकवारिका वा आरामिका वा (36ब्5) तेहि जेन्ताके सन्तानिका
शाटयितव्या । सिञ्चित्वा सम्मार्जयितव्यो । काष्ठं से(स)ज्जेतव्यं । भण्डा
सज्जयितव्या । घटा वा सज्जेतव्या । कुण्डा जेन्ताके पीठिका वा शुक्तिकायो
वा धोवितव्या । काष्ठं भ्रष्टिकायां आजुहि(ज्.166)तव्यं गण्डी
आकोटेतव्या । अग्निर् दातव्यो उदकं आहर्त्तव्यं । ते दानि अग्नि दत्वा
पश्चाद् गण्डी आकोटेतव्यो अग्निर् दातव्यो । (36ब्6) उदकं आहर्त्तव्यं । न
दानि अग्निं दत्वा पश्चाद् गण्डी आकोटेतव्या । अथ खलु गण्डि आकोटेत्वा
अग्निर् दातव्यो । मा एवम् एव काष्ठं दह्येय जेन्ताकस्य गण्डी (इइ.प्.26)
आकोटिताजे जानितव्या । किं एषो जेन्ताको सर्व्वसांघिको पारिवेणिको
यथायो(पर्षाये ।) यदि ताव पर्या(र्षा)ये भवति । ये तहिं पर्या(र्षा)ये
तहिं गन्तव्यं । अथ दानि परिवेणिको भवति । ये तस्मिं परिवेणिका संति
तेहि ग(36ब्7)न्तव्यं । अथ दानि सर्व्वसांघिको भवति तथा एवं
स्नायन्तेन चीवरकं साहरित्वा एकस्थाने स्थवितव्यं लोढिकेन वा
पटिकाय वा चीवरंच(वं)शे वा थपेतव्यो जेन्ताकपीठे वा प्रविशतेन
न दानि क्षमति । [ब्]आहा भ्रामयन्तेन प्रविशितुं । अथ खलु एकेन
हस्तेन अग्रतो प्रतिच्छादित्वा प्रवेष्टव्यं । एको निष्क्रामति । एको
प्रविशति । यो प्रविशति । तेनान्तरं दात(37अ1)व्यं । न दानि आस(ज्.167)नानि
वा भाजनानि वा वृद्धतरकं वा भिक्षुं लंघयन्तेन गन्तव्यं ।
संप्रजाननेन गन्तव्यं । यदि दानि उपाध्यायो वा आचार्यो वा
प्रविष्टको भवति । न दानि बाहिरतो विक्रोशितव्यं । स्नायामि आचार्य
स्नायामि उपाध्याय न्ति(त्ति) अथ खलु चीवरकानि स्थापित्वा प्रविशित्वा
तस्य ताव परिकर्म्म कर्त्तव्यं । अथ दानि अन्यस्यापि कर्त्तुकामो
भवति । आपृच्छित्वा कर्त्त(37अ2)व्यं । अथ दानि सो प्रकृत्येव भणितो
भवति । असुकस्य वा असुकस्य वा परिकर्म्म कुर्येसि त्ति । किञ् चापि
अनापृच्छित्वा करेति । अनापत्तिः । यदि ताव अग्नि बहलको भवति । नवकेहि
अग्रतो स्थातव्यं । अग्नि प्रतिवाहेन्तेहि । अथ दानि अग्निर् म्मन्दो भवति ।
वृद्धेहि अग्रतो स्थातव्यं । परिकर्म्म करेन्तेहि न दानि स्वेदेन वा
मलेन वा उस्फोषेतव्यो । उषान्तके(37अ3)न स्नानेन वा प्रतिपन्नेन वा
(इइ.प्.27) परिकर्म्म कर्त्तव्यं । अन्तेवासिकेहि वा सार्व्वे(र्द्धे)विहारिकेहि
वा परिकर्म्म करेन्तेन न दानि अपूर्व्वचरिमं उभयबाहा
प्रसारेतव्या । अथ खलु हस्तेन अग्रतो प्रतिच्छादयितव्यं । अपरेण
परिकर्म्म कारयितव्यं । अथ दानि भिक्षुः प्रहाणिको भवति । न दानि
क्षमति । तेहि अग्नि(ं) प्रजुहित्वा उदकं प्रविशिषित्वा (37अ4) उदकतमं
बन्धित्वा द्वारं पिहित्वा शालं बन्धित्वा प्रहाणं आसितुं, ।
प्रस्वेदंतेहि न दानि क्षमति तैलेन शोषयितुं । अथ खलु मिनीय
दातव्यं । चषकेन वा करण्डिकाय वा हस्तसंज्ञाय वा भाजनकेन वा
(ज्.168) दातव्यं । नापि दानि क्षमति । चूर्ण्णं राशीय उपनेतुं । मिनीय
दातव्यं । मानभण्डे वा भाजनेन वा हस्तसंज्ञाय वा पिण्डि(37अ5)कम्
वा पट्टिय दातव्यं । अथ दानि दानपति आहंसुः । यावद् अर्थं
भदन्ता उपनेतुं(ंतु) । एवं पि कृत्वा मात्राये । उपनेतव्यं । जेन्ताकं
प्रविशन्तेन उदकस्य प्रत्ययो जानितव्यो । कथं दीयति । यदि ताव
मितकं दीयति । उष्णोदकं घटेन वा कुण्डेन वा तेन तथा येव
ग्रहेतव्यं । अथ दानि प्रकृत्येव आहंसुः । या(यो) प्रतिबलो (37अ6) भवति
उदकं उपस्थापेतुं । सो प्रविशतु । यो प्रतिबलो भवति । उदकं
उपस्थापेतुं तेन प्रवेष्टव्यं । अथ दानि अन्तेवासिको (वा)
सार्व्व(र्द्धे)विहारिको वा आहंसु । उपाध्यायाचार्या प्रविशथ वयम्
उदकम् उपस्थापयिष्यामि त्ति ॥ प्रवेष्टव्यं एवं पि कृत्वा मात्राये
उपनेतव्यं । उपासका वा कर्म्मकरा (वा) आरामिका वा आहंसु ।
प्रविशन्तु आर्यमि(37अ7)श्राः वयं उदकं दास्यामः । प्रवेष्टव्यं
मात्राये उपनेतव्यं । अथ दानि ओघो वा पुष्किरिणी वा तडागो वा भवति
किञ् चापि यावद् अर्थं उपनेन्ति । अनापत्तिः । न क्षमति । अभ्यवकाशे
नग्नस्य नग्नेन परिकर्म्म (इइ.प्.28) कर्त्तुं । अथ दानि उदकस्य
प्रतिच्छन्नं भवति नाभिमात्रं वा उदकं अनापत्तिः । अथ दानि
जानुमात्रं उदकं भवति । उपविष्टेन (37ब्1) कर्त्तव्यं । यथा
नाभिप्रतिच्छन्ना भवेय न क्षमति आत्मनो (ज्.169) चीवराणि गृह्नित्वा
परस्य चीवरेहि समाकुलीकृत्वा स्थापेतुं । अथ खलु यथास्थाने
स्थापयित्वा गन्तव्यं । एतं दानि जेन्ताकस्य आरोचितं भवति । जानितव्यं ।
किम् अयं जेन्ताको एकतो सांघिको पर्षायं परिवेणिको निमन्त्रितकानां ति
यथा भवति तथा गन्तव्यं । यदि ताव एकतो सांघिको भवति । (37ब्2)
सर्व्वंसंघेन गन्तव्यं । अथ दानि पर्षाये भवति । तेहि गन्तव्यं ।
परिवेणिको भवति । परिवेणिकेन गन्तव्यं । निमन्त्रितकानां भवति ।
निमन्त्(र्)इतकेहि गन्तव्यं । अथ दानि आरोचीयति । भन्ते यस्यास्ति तैलं च
चूर्ण्णं च ततो आगच्छन्तु न्ति(त्ति) । ततो यस्यास्ति तैलं च चूर्ण्णं च तेहि
गन्तव्यं । अथ दानि भिक्षु जरादुर्ब्बला वा व्याधिदुर्ब्बला वा
भवन्ति । तस्य (37ब्3) सर्व्वे(सार्द्धे)विहारिका भवन्ति अन्तेवासिका वा तेहि
वक्तव्यं । उपाध्यायाचार्या आगच्छाहि स्नाहि वयं तैलं वास्याम । यदि
स्नायितुकामो भवति गन्तव्यं । अथ दानि न स्नायितुकामो भवति ।
वक्तव्यं सु(स)गोत्रीमाता गच्छथ यूयं नाहं स्नापयिष्यामि । अथ
दानि जेन्ताको सांघिको भवति दायकदानपती वा देन्ति गण्डी
आहनि(37ब्4)तव्या । आरोचयितव्यं आयुष्मन् तैलं भविष्यति । चूर्ण्णं
भविष्यति । उदकं भविष्यति । (स्)नायंतु आयुष्मन्तो (ज्.170)
येन्ताकवारिका अध्येषितव्याः । तेहि जेन्ताको प्रज्वलितव्यो
जेन्ताकपीठकानि प्रवेशयितव्यानि । तैलम् प्रवेशयितव्यं । चूर्ण्णं
प्रवेशयितव्यं,। शुक्तियो प्रवेश(इइ.प्.29)यितव्यो । उदकं तापयितव्यं ।
यदि ताव अल्पं (37ब्5) तैलं चूर्ण्णं भवति । मितकं दातव्यं । तैलं
म(स)ंचयितव्यं । उदकं भावयितव्यं । अथ दानि बहुं भवति ।
संघसंव्यवहारको वादा(ं) नयति वा जल्पति विस्वस्ता भदन्ता
स्नायन्तु न्ति(त्ति) । एवं पि करिय तैलमात्रा जानितव्या नवकेहि भिक्षूहि
स्थविराणां भिक्षूणां कायपरिचर्या कर्त्तव्या । नापि दानि क्षमति ।
नवकेहि भिक्षूहि उच्चहन्तेहि स्ना(37ब्6)यितुं । अथ खलु अन्योन्यस्य
सगौरवेहि स्नायितव्यं । सप्रतिशेहि स्नायितव्यं । नापि क्षमति ।
उच्चशब्दमहाशब्देहि स्नायितुं । अथ खलु अल्पशब्देहि अल्पनिर्घोषेहि
जेन्ताके स्नायितव्यं । अथ दानि प्रश्नो स्थापीयति । किञ् चापि प्रघुष्टेन
स्वरेण प्रश्ना विसर्जेन्ति । अनापत्तिः । यं कालं भिक्षू स्नाता भवन्ति
जेन्ताकवारिकेन तैलं शेषं भवति । प्रवेशयित(37ब्7)व्यः । चूर्ण्णं
शेषं भवति प्रवेशयितव्यं । जेन्ताकपीठिकानि धोविय
प्रवेशयितव्यानि । शुक्तियो धोविय प्रवेशयितव्यायो यं काष्ठं शेषं
भवति यथास्थाने स्थापेतव्यं । अथ दानि कोचि पश्चात् प्रविशति ।
आगच्छन्तु आयुष्मन्तो वयम् एतं प्रवेशयिश्याम न्ति(त्ति) । गन्तव्यं तेहि
प्रवेशयितव्यं । मा आदीनवम् उत्पादये जेन्ताकं सिञ्चिय सन्मार्जिय
ना(अ)ंगारा(38अ1)नि चापिय जेन्ताकं बाहिरघटितं करिय गन्तव्यं । एवं
जेन्ताके प्रतिपद्यितव्यं । एवं (ज्.171) स्नाने प्रतिपद्यितव्यं न
प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
व्. 9 म्स्. 38अ1 (ज्.171.3); छ्. 509ब्14
भगवान् श्रावस्त्याम् विहरति । पञ्चार्थवशां विस्तरेण निदानं कृत्वा
याव अद्राक्षीद् भगवां पञ्चाहिकां (इइ.प्.30) विहारचारिकांम्
अनुचंक्रमन्तो अनुविचरन्तो विहारकेहि भण्डं उज्झितावकीर्ण्णे (38अ2)
तिष्ठति स्थालीयो पीठरिका अधोतका अनुपलिप्ता नकूलमूषिकेहि
आलुप्यमाना ओदनमानिकायो हस्ता काकशकुन्तेहि निक्खोडियन्ता द्रोणीयो
उद्वायो परियो भक्तपीठिका माणिकं चंगेरियो शुष्यायो पटलकां ।
भगवां जानन्तो येव पृच्छति । किम् इयं भिक्षवो भाण्डं
उज्झितप्रकीर्ण्णं तिष्ठति ।
तेन हि एवं भण्डे प्रतिपद्यितव्यं । (38अ3) किन् ति दानि एवं भण्डे
प्रतिपद्यितव्यं । एतं दानि संघस्य अनुग्रहो भवति नित्यपवना वा
उद्दिशितव्या । मासवारिको वा दशाहवारिको वा तत्र उद्दिशितव्यो ।
पंचाहवारिको वा तेन संघस्य अनुग्रहो साधयितव्यो भिक्षुसंघो
परिवेशापयितव्यो । यं कालं भिक्षुसंघेन भुक्तं भवति यं तत्र
भण्डं भवति लो(38अ4)हिका (ज्.172) वा कटाहका वा स्थाली वा पिठरिका
वा मासवारिकेहि वा पक्षवारिकेहि वा कल्पियकारं शब्दाविय
लिप्तोपलिप्तं करिय ओमुद्धिका स्थपितव्या । सूर्यादि(भि)मुखं यं
कालं शुष्का भवन्ति । कल्पियकुटिं प्रवेशिय स्थापयितव्यानि ।
यथास्थानं यं तत्र भवति । दुग्धघटा वा दधिघटा वा
व्यञ्जनगोलका वा ते सुधोतां (38अ5) सुप्रक्षालितां कारापयिय आतपे
स्थापयितव्याः । यं कालं शुष्का भवति ततो कल्पियकुटिं प्रवेशिय
स्थापयितव्याः । यं तत्र भवति शतपोतनको वा ताम्रपात्रा वा
लोहपात्रा (इइ.प्.31) वा कटच्छुका वा तद्दुका वा चषका वा पलीनका वा
पलीनका वा निर्म्मादिता कारापिय कल्पियकुटिं प्रवेशिय यथास्थाने
प्रवेशयितव्यानि । एता भवन्ति (38अ6) माणिका वा खाणुका वा दुर्व्वा वा
कण्डहस्ता वा कर्क्कटका वा प्रस्फोटिय सुधोतां सुप्रक्षालितां करिय
आतपे शोषयितव्या । यं कालं शुष्का भवन्ति । ततो कीलकेहि ओल्लयित्वा
स्थपितव्या यथा न खज्जेय । उक्कसिय स्थपेतव्या एते खज्जकचंगेरीयो
वनफलचङ्गेरीयो हरीतकीचङ्गेरीयो वा प्रस्फोडिय सुप्रक्षालितां
करिय एकमन्ते स्थपेतव्याः । एते भवन्ति । (38अ7) वस्त्राभरणका वा
परिश्रावणा वा चतुरस्रका वा साहरित्वा कीण(ल)केहि ओल्लयित्वा
स्थपयितव्या । यथा (ज्.173) न (ख)द्येंसु । एता भैषज्यपिषणिका शिला न
दानि कार्य(ं) कृत्वा यथा येव प्रतिलिप्तिका स्थपेतव्या । अथ खलु
सुधोवित्वा यथास्थाने स्थापयितव्या । नापि दानि कल्पिककुटी
अध्युपेक्षितव्या । ओद्द्रिण्णका वा प्रल(लु)ग्गिका वा अचौक्षा वा ।
अप्रतिसंस्कृता वा । अथ ख(38ब्1)लु कालेन कालं यदि ताव तृणच्छन्ना
भवति तृणपुलको दातव्यो । गोमयकार्षी दातव्या । अभीक्ष्णं
सन्मार्जयितव्यं । अथ दानि तृणप्रवेशिका भवन्ति । एकान्ते
स्थषे(पे)तव्यं । एवं यत् किञ्चित् संघस्य भाण्डं यो यत्र अभियुक्तो
भवति । तेन तं प्रतिसामेतव्यं । एते भवन्ति रङ्गगोलका वा
रङ्गघटका वा रङ्गकुण्डका वा रङ्गकट(टा)हका वा
माषवारिकस्य वा । (38ब्2) पक्ष(वारिक)स्य वा आधीनं भवति । एषो
भिक्षु धोवनिका वा कर्त्तुकामो भवति । मासवारिको वा पक्षवारिको
वा याचितव्यो । अथ दानि द्वे जना (इइ.प्.32) यांच(चं)रतीति तेन
वृद्धतरकस्य ज्ञातव्यं अथ दानिं वृद्धतरकस्य चिरकालो भवति
नवतरकस्य इत्वरकालिकं भवति । नवतरकस्य दातव्यं । अथ दानि
उभयेषां इत्वरकालिकं वृद्धतरकस्य दातव्यं उभये(38ब्3)षां
चिरकालिकं भवति । वृद्ध(ज्.174)तरकस्य दातव्यं । तेन धोवनिका वा
रजनिका वा करिय न क्षमति तथा य्येव उपमक्षितं वा रंगरक्षितं
वा अधोतकम् वा अनुपलिप्तकम् वा दयितुं न क्षमति । अथ खलु
सुधोतं सुप्रक्षालितं सुलिप्तं सुशुष्कं करियाणं चीवररजूं न दानि
चीवरं रंजेत्वा न तथा येव वितनिका उज्झित्वा गन्तव्यं । अथ
ख(38ब्4)लु साहरित्वा यथास्थाने स्थापयितव्यं । वड्ढकिभण्डं
भवति । नासिते वा दानि या वा विशालिका वा सूत्राथ ओलम्बिको धोवित्वा
एकान्ते स्थापेतव्या । तक्षाणं भाण्डं भवति । कुठारो वा वासीयो वा
विहरणको वा निखादनको वा अट्टिला वा एकान्ते स्थपेतव्या । एता
भवन्ति वासीयो वा कुद्दालका वा निश्रेणियो वा (38ब्5) न दानि तथा
येच(व) मृत्तिका प्रलिप्तिका स्थपेतव्या । अथ खलु बोधि(धोवि)सत्वा
यथास्थाने स्थापयितव्यो । तच् चेवं चातुर्द्दिशं सांघिकं
म(भा)ण्डकं रिक्त परिभोगं न दानि कार्यं कृत्वा विहारे गोपित्वा
स्थापेतव्यं । पुरोकृत्यं सुखं भविष्यति । अथ खलु यस्यैवं (ज्.175)
कार्यम् भवति । तस्यैवन् दातव्यं । एवं भाण्डे प्रतिपद्यितव्यं ।
(38ब्6) न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
व्.10 म्स्. 38ब्6 (ज्.175.3); छ्. 509च्9
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा (इइ.प्.33) अपरेहिं
विहारके संबहुला भिक्षू प्रतिसंक्रमति । सो दानि विहारको उप्पेडनको
अपरो च भिक्षुः । विरात्रे उश्वास(च्चार)कारको वा प्रश्वास(स्राव)कारको
वा निर्द्धावितो भवति । स चीवरं चीवरंवंशातो हू(कू)षियाणं पतितो ।
ए(38ब्7)वं भूमीये पतितो तं दानि एकेन आक्रान्तं द्वितीयेन आक्रान्तं
तृतीयेनाक्रान्तं सर्व्वं कर्द्दमेहि अनुप्रविष्टं चीवरकोणको अवशिष्टो
सो दानि अपरेज्जुकातो कल्यत एव निवासिय प्रावरिय चीवरकं मार्ग्गति न
लभति । तेन दानि मार्ग्गन्तेन सो चीवरकोणको दृष्टो तं दानि तहिं
चीवरकर्ण्णके गृह्निय अच्छियं चटन्ति संच(र्व्वं) फाटितं । ए(39अ1)तं
प्रकरणं भिक्षू भगवतो आरोचयेंसुः । भगवान् आह । शब्दापयथ
तं भिक्षुं । सो दानि शब्दापितो । भगवान् आह । एवं च त्वं भिक्षुः
चीवरकं चीवरकोणके गृह्निय अच्छोसि च चटन्ति सर्व्वं फाटितं तेन
हि एवं चीवरे प्रतिपद्यितव्यं । किन् ति दानि एवं चीवरे प्रतिपद्यितव्यं ।
एते दानि संबहुला संबहुला भिक्षूः । एकहि विहारके प्रतिक्रमन्ति ।
यदि । (39अ2) ताव सो उप्पेडनको विहारको (ज्.176) भवति । नापि क्षमति
भिक्षूहि मुक्तकं चीवरं स्थपयितुं । अथ खलु चीवरकानि
ससाहरितानि कारिय अन्तरमुख दुगुणान्तरं करिय चीवरवंशे
स्थपेतव्यानि ततो पट्टिकाये वा लोढकेन वा रेज्जुकाये वा
बन्धितव्यानि । उपाध्यायस्य (वा) आचार्यस्य वा चीवरं साहरित्वा
अभ्यन्तर परिकर्म्म द्विगुणन्ते । (39अ3) अग्रतो कर्त्तव्यो । अन्तरपीडितो
न दानि उपाध्यायस्य वा आचार्यस्य (वा) चीवरेहि आत्मनो चीवरं (इइ.प्.34)
वेढयितव्यं । अथ खलु आत्मनो चीवरेहि उपाध्यायाचार्याणां चीवरा
वेढयितव्याः । एवं सर्व्वेहि बन्धिय थपेतव्यानि । अथ दानि भिक्षु
विरात्रकाले उश्वास(च्चार)कारो वा प्रश्वास(स्राव)कारो वा निर्द्धावति ।
चीवरवंशकातो । (39अ4) चीवराणि मुंचिय एकं द्वितीयं वा तृतीयम् वा
ल्क(कू)षियाणां भूमीयं पतितं । एकेन (आ)क्रान्तं द्वितीयेन आक्रान्तं
तत्रैव सर्व्वं भूमीये अनुप्रविष्टो भवति । अपरेज्जुकातो भिक्षू
कल्यतो येव निवासिय प्रावरिय चीवरकाणि मार्ग्गति सो मार्ग्गन्तो न
पश्यति । तस्य चीवरकस्य कोणकं नापि क्षमति । तहिं
चीवरकोण(39अ5)के गृह्निय द्रन्ति अच्छितुं । मा चीवरकोणको भवतु ।
मा चीवरको ति । अथ खलु ततो कोणकातो प्रभृति सुखाकं
मोचयितव्यं । चीवरकं धोविय विहारकोणको (थ)पयितव्यो तं
चीवरकं यं कालं शुष्कं भवति ततो परिभुञ्जयितव्यं । अथ दानि
भिक्षुः । उपाध्यायस्य वा आचार्यस्य वा चीवराणि उपरि स्थापयित(39अ6;
ज्.177)व्यानि । अथ दानि सो उप्पंसुलको विहारको भवति । नापि क्षमति
उपाध्यायस्य वा आचार्यस्य वा चीवरकानि उपरि स्थापयितुं, । आत्मनो
चीवरकानि हेष्ठे स्थपयितु(ं) । अथ खलु उपाध्यायस्य वा आचार्यस्य
वा हेष्ठे स्थपयितव्यानि । आत्मनो चीवराणि उपरि स्थापयितव्यानि । नापि
क्षमति ग्रीष्मका भवति रजो वातरजो वा उक्कनि(39अ7)का चीवरं
विनाशेति नेदानि उपाध्यायाचार्याणां चीवरकेहि आत्मनो चीवरा
वेढयितव्या । अथ खलु आत्मनो चीवरेहि उपाध्यायाचार्याणां चीवरा
वेढितव्या । न दानि क्षमति । विहारो अध्युपेक्षितुं । (इइ.प्.35) उप्पंसुलो
वा अचौक्षो वा । अथ खलु कालेन कालं सिञ्चित्वा सन्मार्जितव्यं ।
गोमयकार्षी दातव्या । वंघोरिका दातव्या । न क्ष(39ब्1)मति ।
चीवरेणाप्रसन्नं गृह्नितुं । खेटकटाहम् वा उच्चारकटाहकम् वा
प्रस्रावकुम्भकं वा संकारं वा उज्झितुं । उपानहा गृह्नितुं ।
गोमयानि वा उच्चिनितुं । न क्षमति । चीवरं अध्युपेक्षितुं । चिक्कनं वा
अप्रतिसंस्कृतं वा ओमयिलमयिलम् वा पाटितविपाटितम् वा । अथ खलु
कालेन कालं धोवितव्यं । रंजितव्यं । सीवितव्यं । यथा च्छवि एवं
चीवरे प्रतिपद्यि(39ब्2)तव्यं । न प्रतिपद्यति ॥ आभिसमाचारिकान्
धर्म्मान् अतिक्रामति ॥ * ॥
(ज्.178) उद्दानं ॥
एवम् अरण्ये प्रतिपद्यितव्यं ।
एवं ग्रामान्तिके प्रतिपद्यितव्यं ।
एवं जा(पा)नीये प्रतिपद्यितव्यं ।
एवं परिधोवनिये प्रतिपद्यितव्यं ।
एवं पादा धोवितव्या ।
एवं पादधोवनिके प्रतिपद्यितव्यं ।
एवं स्नाने प्रतिपद्यितव्यं ।
एवं जेन्ताके प्रतिपद्यितव्यं ।
एवं भण्डे प्रतिपद्यितव्यं ।
एवं चीव(39ब्3)रे प्रतिपद्यितव्यं ॥ * ॥
॥ पञ्चमो वर्ग्गः ॥ * ॥
(योस्हियसु योणेzआwआ । ःइदेतोस्हि योश्ःईzआwआ)
(इइ.प्.36)
वि. 1 म्स्.39ब्3 (ज्.179.1); छ्.511ब्16
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिका कल्यत
एव विहारचरणकानि निवासनानि निक्षिपियाणं नग्नप्रावृता
ग्रामप्रवेशनिकानि निवसनानि मार्ग्गन्ति । गोचरातो निर्द्धाविता
ग्रामप्रवेशनिकानि निवासनानि निक्षिपियाणं नग्नप्रावृता
विहारचरणकानि निवास(39ब्4)का(ना)नि मार्ग्गन्ति । एते(तं) प्रकरणं
भिक्षूहि श्रुतं भिक्षू भगवतो आरोचयेंसु । भगवान् आह ।
शब्दापयथ षड्वर्ग्गिकां ते दानि शब्दापिताः । भगवान् आह । सत्यं
भिक्षवो षड्वर्ग्गिकाः । एवं नाम यूयं कल्यत एव उत्थिय
विहारचरणकानि चीवरकानि निक्षिपित्वा नग्नप्रावृताः ।
ग्रामप्रवेशनिका(नि) निवसनानि मार्ग्गथ गोचरातो (39ब्5)
निर्द्धाविताः । ग्रामप्रवेशनिकानि निवासनानि निक्षिपित्वा
नग्नप्रावृताः । विहारचर(ण)कानि निर्वासनानि मार्ग्गथ । आहंसु
आम । भगवन्
भगवान् आह । तेन हि एवं निवासितव्यं । किन् ति दानि एवं
निवासयितव्यं । भिक्षुणा ताव कल्यत एवोत्थित्वा गोचरं (ज्.180)
प्रविशंतेन न क्षमति । ग्रामप्रवेशनिकं निवासनं अनुपहस्तं
कृ(39ब्6)त्वा विहारचरणकं निवसनं निक्षिपितुं । अथ खलु प्रकृत्येव
ताव ग्रामप्रवेशनकं उपहस्तं कर्त्तव्यं । ततो ग्रामप्रवेशनं च
निवासनं आवेल्लयितव्यं विहारचरणकं निवासनं उच्चेतलयितव्यं ।
कायबन्धनं बन्धयित्वा चीवरवाणि प्रवारित्वा गोचरं प्रविशितव्यं ।
गोचरातो निर्द्धावितेन नापि क्षमति (इइ.प्.37) विहारचरणं निवासनं ।
अनुपह(39ब्7)स्तं करियाणं ग्रामप्रवेशनकं निवासनं निक्षिपितुं ।
अथ खलु प्रकृत्येव ताव विहारचरणकं निवसनं उपहस्तं
कर्त्तव्यं । ततो विहारचरणकं निवासनं आवेल्लयितव्यं ।
ग्रामप्रवेशनकं च निवासनं उच्चेलयितव्यं । ते भिक्षू उद्धारकं
कर्त्तुकामा भवन्ति । उपलेपनं वा संमार्जनं वा भवति ।
स्नानशाटकं वा लेङ्कटखण्डकम् वा निवासि(40अ1)य स्नातुकामो
भवति । नापि क्षमति निवासनं निक्षिपित्वा स्नानशाटकं वा
लेङ्कटखण्डकं निवासयितुं । अथ खलु निवासनं उच्चेल्लयितु(तव्य)ं ।
स्नानशाटिका वा लेङ्कटखण्डकं आवेढयितव्यं निवासनं
उच्चेल्लयितव्यं नापि क्षमति स्नानेन समानेन निवासनं निवासयित्वा
कामभोगिना यथा उपरिमेण निवासनस्य स्नानशाटिकां उत्क्षिपितुं
नापि क्षमति । हे(40अ2)ष्ठेन स्नानशाटिकाम् वा लेङ्कटखण्डकम् वा
ओसारयितुं । चलनकं यथा । अथ खलु निवासनं (ज्.181) ओच्चेल्लयितव्यं ।
स्नानशाटकं वा लेङ्कटखण्डकं वा उच्चेल्लयितव्यं । एषो भिक्षु
विकाले प्रतिक्रमति । नापि क्षमति निवासनं निक्षिपित्वा नग्नप्रावृतेन
रात्रीप्रावरण निवासिनं मार्ग्गितुं । अथ खलु प्रतिकृत्येव ताव
रात्रीप्रावरणकं निवासनं उप(40अ3)हस्तीकर्त्तव्यं । ततो निवासनं
उच्चेल्लयितव्यं । रात्रिप्रावरणं निवासनं च आवेल्लयितव्यं । एवं
निवासने प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
वि. 2 म्स्.40अ3 (ज्.181.7); छ्. 511ब्27
भगवान् श्रावस्त्याम् विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिका गोचराये
प्रस्थिता विहारचरणकानि चीवरका(नि) (इइ.प्.38) निक्षिपिय
एक(40अ4)निवसना ग्रामप्रवेशनिकानि चीवरकानि मार्ग्गन्ति । गोचरातो
निर्द्धाविता ग्रामप्रवेशनकानि चीवराणि निक्षिपित्वा एकनिवासनका
विहारचरणकानि चीवरकानि मार्ग्गन्ति । एतं प्रकरणं भिक्षूहि
श्रुतं । भिक्षू भगवतो आरोचयेंसु । भगवान् आह । शब्दापयथ
षड्वर्ग्गिकान् । ते दानि शब्दापिताः (40अ5) भगवान् आह । सत्यं भिक्षवो
षड्वर्ग्गिकाः । एवन् नाम यूयं कल्यतो येव गोचराय प्रस्थिता ।
विहारचरणकानि चीवराणि निक्षिपिय एकनिवसना ग्रामप्रवेशनकानि
चीवराणि मार्ग्गथ । गोचरातो निर्द्धाविता । ग्रामप्रवेशनिकानि
चीवराणि निक्षिपित्वा एकनिवसनका विहारचीवरकानि मार्ग्गथ । आहंसु
आ(40अ6)म भगवन्
(ज्.182) भगवान् आह । तेन हि एवं प्रावरितव्यं । किन् ति दानि एवं
प्रावरितव्यं । एषो दानि भिक्षुः । कल्यतो येव गोचराये प्रस्थितो भवति ।
नापि क्षमति विहारचरणकानि चीवरकाणि निक्षिपिय एकनिवसनकेन
ग्रामप्रवेशनिकानि चीवराणि मार्ग्गितुं । अथ खलु प्रतिकृत्येव ताव
ग्रामप्रवेशनकं चीवरं उपहस्तं कर्त्तव्यं प्रावरन्तेन
ग्रामं(40अ7)प्रवेशनकं चीवरं आच्चेल्लयितव्यं विहारचरणकं
चीवरं उच्चेल्लयितव्यं । गोचरातो निर्ग्गतेन नापि क्षमति ।
ग्रामप्रवेशनकं चीवरं निक्षिपित्वा एकनिवसनकेन विहारचरणकं
चीवरं मार्ग्गित(तु)ं । अथ खलु प्रकृते(त्ये)व ताव विहारचरणकं
चीवरं उपहस्तीकर्त्तव्यं । प्रावरमाणेन विहारचरणकं चीवरकं
आच्चेल्लयितव्यं । ग्रामप्रवे(40ब्1)शनकं चीवरं उच्चेल्लयितव्यं । एवं
आरामचरणकं वा आच्चेल्लयितव्यं । विहारचरणकं वा (इइ.प्.39)
उच्चेल्लयितव्यं । प्रस्फोटयित्वा साहरित्वा एकान्ते स्थपयितव्यं । एतन्
दानि संघस्य उट्ठानकानि भवन्ति । च्छादनिका वा लेपनिका वा
सम्मार्जनको वा भिक्षु चीवरकाणां दयार्थं । अन्यं
लेङ्कटखण्डं प्रावरितुकामो भवति नापि क्षमति । चीवरकं
निक्षिपियाणं एकनिवसन(40ब्2)केन लेङ्कटखण्डं मार्ग्गितुं । अथ
खलु प्रकृत्येव ताव उपहस्तीकर्त्तव्यं एकं च आवेल्लयितव्यं द्वितीयं
उच्चेल्लयितव्यं । एवं प्रावरितव्यं । न प्रतिपद्यति । आभिसमाचारिकान्
धर्म्मान् अतिक्रामति ॥ * ॥
वि. 3 म्स्.40ब्2 (ज्.183.1); छ्. 511च्7
(ज्.183) भगवान् श्रावस्त्याम् विहरति । ते दानि आयुष्मन्तो
नन्दनोपनन्दना गोचरं प्रविशन्ता चीवरं कंढंता प्रविशन्ति ।
कण्टकशाखाहि लग्नं भवति । द्रन्ति अच्छन्ति । झाडे वा
वृ(40ब्3)क्षशाखायाम् वा लग्नं द्रन्ति कढन्ति । नैव धूलिं
परिहरन्ति । न कर्दमं परिहरन्ति । संबाधरथ्याहि
सुधापाण्डुलेपना भिन्ति(त्ति)यो घसन्ता गच्छन्ति तान् अपि दानि
चीवरकानि । ओमïलमïलाणि पाटितविपाटितानि क्रियन्ति तेषान् दानि
सार्द्धेविहारिका च अन्तेवासिका च ओध्यायन्ति । वयं येच(व) ताव
चीवरकानि धोवेन्ता सिवेन्ता रंजेन्ता तलविलयं गच्छामः (40ब्4) इमे पि
न जानन्ति । कथम् अन्तरघरे प्रविशन्तेहि चीवरेहि प्रतिपद्यितव्यं ।
एतं प्रकरणं भिक्षूहि श्रुतं, । भिक्षू भगवतो आरोचयेंसु ।
भगवान् आह । शब्दापयथ नन्दनोपनन्दनाः(ं,) । ते दानि
शब्दापिताः । भगवान् आह । सत्यं भिक्षवो नन्दनोपनन्दना (इइ.प्.40)
एवं नाम यूयं अन्तरं घरं प्रविशन्ता चीवरकानि कड्ढन्ता ।
गच्छथ त(40ब्5)द् एव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति ।
मूल पाठ: Abhisamācārikadharma · Data entry Abhisamacarika-Dharma Study Group, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0