अभिसमाचारिकधर्म · भाग 4160
कठिनं अस्तरियाणं पादां (ज्.92) धोवियाणं कठिनस्मिं
पल्लंकेनोपविशियाणं तं चीवरं सीवितव्यं । अथ दानि अपरो पि कोचि
सीवयि(तु)कामो भवति तेनापि पादां धोवयित्वा कठिनस्मिं
पल्लंकेनोपविशिय चीवरं, (20ब्3) सीवयितव्यं । अथ दानि निषण्णो
बाहिरकां पादां कृत्वा मू(सू)त्रं वलेन्तो आसति अनापत्तिः । अथ दानि
भिक्षुः पादानं(नि) धोवयितुकामो भवति । न क्षमति । अधोतकेहि
पादकेहि कठिनं ओक्रमितुं । अथ खलु बाह्येन कठिनस्मि पादानि
थपि।याणं चीवरं सीवयितव्यं । यं कालं चीवरं सीवितं भवति ।
कठिनं सव्व(न्व)टियाणं भित्तीये द्वे कीलकानि खनिय रज्जुए (20ब्4)
बन्धिय तहिं उक्कवयितव्यं । यदि अपरो पि कोचि सीवयितुकामो भवति ।
तेनापि कठिनं अस्तरीय चीवरकं येच(व) तथा सीवयितव्यं । नापि
क्षमति कठिनस्य रङ्गे वा शोधयितुं गोमयं वा चीवरकानि वा
शोधयितुं । अथ खलु चीवरकं सीवयितव्यं । नापि क्षमति । कठिनं
अध्युपेक्षितुं (इ.प्.100) । उल्लग्गकं वा पलुग्गकं वातातपेन
विनासियन्तं वर्षेण वा ओव(20ब्5)र्षयन्तं पक्षीहि वा ओहयि(पि)यन्तां ।
(ज्.93) अथ खलु कालेन कालं बन्धितव्यं कालेन कालं
प्रतिसंस्कर्त्तव्यो । अथ दानि कठिनं न भवति । मञ्चस्य वा उपरि
चीवरं पीठस्य वा उपरि चीवरकं करियाणं सीवितव्यं । अथ दानि
एवं न भवति । प्रहाणशालायाम् वा । उपस्थानशालायाम् वा
मण्डलमाडे वा प्रदेशकं गोमयेन उपलिम्पिय चीवरकं सीवितव्यं ।
अन्तमस(20ब्6)तो जानुकानां पि उपरि चीवरकं थविय सीवयितव्यं । एवं
कठिने प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ अभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
इइइ.2 म्स्.20ब्6 (ज्.93.8); छ्.505च्11
भगवान् श्रावस्त्यां विहरति । अपरो दानि भिक्षुः प्रहाणकं
उपविष्टो । सो दानि यथासुखं कृते विहारकं अपदुरिय प्रविशति
शीतलकं च तेन आक्रान्तं तस्य भवति दीर्घको मया आक्रान्तो तस्य
दानि तेन निवरे(र)णेन सर्व्व(20ब्7)रात्रिं चित्तं न समाधानं गच्छति ।
एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु ॥
भगवान् आह । तेन हि चक्कली नाम कर्त्तव्या । चक्कली तावद्
भिक्षुणा कारापयमाणेन कारापयितव्या । वंशानाम् वा नडानाम् वा
नङ्गलानाम् वा कण्डानाम् वा रेज्जुकाये वा मू(सू)त्रकाये वा घणा
बुणितव्या तथा कर्त्तव्या । यथा दीर्घको न संसक्कति । विहारस्य
द्वारस्मिं उपरि त्रयो कीलकानि आटपितव्या (21अ1) तहिं चक्कली
बन्धितव्या । ओसारियाणं हेष्ठे द्वे कीलकानां पीडियाण तहिं (ज्.94)
बन्धितव्यं । यं कालं भिक्षुः प्रहाणं ओतरन्ति ततो द्वारं
मुञ्चितव्यं । निवापियाण चक्कली ओसारियाणं कीलकेहि बन्धियाण ततो
ओसारितव्यं । यं कालं प्रहाणस्य यथासुखं कृतं भवति । ततो
विहारं गच्छियाणं चक्कली उत्क्षिपितव्या ॥ नापि दानि सहसा अनेकायो
मा तर्हि दीर्घको प्रविष्टो भवेप(21अ2)य न्ति(त्ति) । अथ खलु
खटखटापयितव्यो काष्ठेन वा कठल्लेन वा ततो पश्चाच् चक्कली
उत्क्षिपितव्या । प्रविशियाणं चक्कली ओसारयितव्या । द्वारं बन्धितव्यं ।
ततो प्रतिक्रमितव्यं पश्चिमं प्रहाणं ओतरितव्यं । द्वारं (इ.प्.101)
अपदुच्चरितव्यं चक्कली उत्क्षिपियाणं द्वारं पिवि(धि)याणं चक्कली
ओसारियाणं प्रहाणं ओतरितव्यं । प्रहाणतो यं कालं उत्थितो भवति ।
विहारं गच्छियाणं यदि (21अ3) (ता)व प्रभातं भवति । चक्कली
उत्क्षिपियाणं उपरि बन्धितव्या ॥ द्वारं अपदुरिय ततो प्रविशितव्यं ।
एवं देवसिकं न दानि क्षमति दिवसत ओसरयित्वा थपयितुं । नापि
क्षमति सा चक्कली अध्युपेक्षितुं । उल्लग्गिका वा पलुग्गिका वा ।
प्राणकेहि (ज्.95) वा खज्जन्ति । अथ खलु कालेन कालं बन्धितव्या ।
कालेन कालं प्रतिसंस्कर्त्तव्या । एवं चक्क(21अ4)लीये प्रतिपद्यितव्यं । न
प्रतिपद्येति ॥ अभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
इइइ.3 म्स्.21अ4 (ज्.95.4); छ्.505च्17
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा पञ्चार्थवसां
संपश्यमाना याव विस्तरेण कृत्वा यावद् अद्राक्षीद् भगवान्
पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो विहारां ओद्द्रिण्णकां
पल्लुग्गकां उल्लापे(ये) गृहीतकां अचौक्षां अप्रतिसंस्कृतां ।
भ(21अ5)गवान् जानन्तो येव पृच्छति । किं के(इ)मे भिक्षु विहारका
ओद्द्रिण्णका पलुग्गका ओल्लाये गृहीतका अचौक्षा अप्रतिसंस्कृता तेन हि
एवं विहारे प्रतिपद्यितव्यं । विहारा नाम त्रीणि ज्येष्ठको मध्यमको
कनीयसको ज्येष्ठको नाम विहारको भूमि भवति ।
माषकान(ल)वल्ला(र्ण्णा) उल्लोको भवति । प्रपाण्डरा भित्ति भवति ।
कृतकर्म्मा एवं ज्ये(21अ6)ष्ठको किन् ति मध्यमको किन् ति दानि
मध्यमको मध्यमको नाम विहारको भवति । माषकालवर्ण्णा
भित्ति भवति कृतकर्म्मा । न च भवति । उल्लापो प्रपाण्डरो एवं
मध्यमको । किन् ति दानि कनीयसको भूमि भवति । माषकालवर्ण्णा
नापि भवति । उल्लापो प्रपाण्डरो नाहैव भित्ति कृतपरिकर्म्मा एवं
कनीयसको । यो दानि ज्येष्ठको भवति विहारो नायं क्षमति । तहिं
मंचा (21अ7) वा पीठा वा प्रविशितुं । अथ (ज्.96) खलु (इ.प्.102) चत्वारि
प्रतिपादका कर्त्तव्या । मा भूमी खनीयं ति प्रवेशियाणं ततो तहिं
प्रतिपादकानां । उपरि थपेतव्यो । अथ दानि प्रतिपादको न भवति ।
लेङ्कटकेहि पादा बन्धितव्या । पीठं प्रवेशेति । पीठस्यापि एवं
य्येव आसन्दकं तृपादकं वा प्रवेशेति । तस्यापि लेङ्कटकेहि पादका
बन्धितव्या । नापि तहिं क्षमति । मन्दमुखी प्रज्वा(21ब्1)लयितुं ।
दीपको वा प्रवेशयितुं । अथ दानि भिक्षुः शेय्यां प्रज्ञपयितुकामो
भवति । किञ् चापि दीपकं प्रवेशेति । अनापत्तिः । शेय्यां
प्रज्ञपयन्तेनैव च्छि(च्छ)त्ति निक्कालयितव्या नापि क्षमति । तहिं पादां
धोवितुं हस्तां धोवितुं मुखं धोवितुं नापि क्षमति तहिं चंक्रम
चंक्रमितुं ॥ पत्थोलिं धुनन्तेन । अथ दानि भिक्षु ग्लानो भवति किञ्
चापि षटपञ्च गतांगतां देति अनाप(21ब्2)त्तिः । नापि दानि क्षमति ।
एकेनान्तेन । अथ खलु समन्तेन चंक्रमितव्यं । न यं बोलि
ड(उ)द्वापयन्तेन । न क्षमति तहिं भक्तकृत्यं पुरे(ज्.97)भक्तिकं वा
कर्त्तुं पात्रं वा निर्म्मादयितुं । अथ दानि मध्य(म)को भवति ।
मध्यमके पि एषो एव पर्यायो अनन्यो अधिकृतो । अथ दानि कनीयसको
विहारको भवति । किञ् चापि भिक्षुः विना प्रतिपादकेहि मञ्चकं थपेति ।
अनापत्तिः । (21ब्3) पीठकम् वा पीठिकाम् वा तृपादकम् वा विना
प्रतिपादकेहि थपेत्ति अनापत्तिः । मन्दमुखीम् वा प्रज्वालेति ।
अनापत्तिः । दीपं वा प्रवेशेति । अनापत्तिः । ग्लानो वा अग्लानो वा
अनापत्तिः । किं चापि चंक्रमति । अनापत्तिः । जानितव्यं । यदि ताव
उपेडनको सो विहारको भवति । नापि तहिं क्षमति । पादां धोवितुं
हस्ताम् वा निर्म्मादयितुं । (21ब्4) अथ दानि उपंसुलको भवति । किञ् चापि
भिक्षुः पादाम् वा धोवति मुखम् वा धोवति । हस्तम् वा
निर्म्मादयति । रजोनिग्रहं काहेति त्ति अनापत्तिः । भक्तकृत्यम् वा
पुरोभक्तिकम् वा करोति । पात्रम् वा निर्म्मादयति । अनापत्तिः । नापि
क्षमति विहारको अध्युपेक्षितुं । ओद्द्रिण्णको वा पलुग्गको वा ओल्लाये
गृहीतको वा अचोक्षो वा (21ब्5) अध्युपेक्षितुं । अथ दानि ओद्द्रिण्णको
भवति । तृणच्छदनो भवति तृणपुलको दातव्यो (इ.प्.103)
मृत्तिकाच्छदनो भवति । मृत्तिकापिण्डो दातव्यो । इष्टकाच्छदनो
भवति । इष्टका दातव्या । अपक्कच्छदनो (ज्.98) भवति । अपक्का
दातव्या । कभल्लकाच्छदनो भवति । कभल्लका दातव्या ।
फलकच्छदनो भवति । फलकं दातव्यं । सुधा(21ब्6)च्छदनो
भवति । सुधापिण्डो दातव्यो । कालेन कालं शोधयितव्यो । संतानिका
सातयितव्या । मूषिक-उक्किरो वा कोटयितव्यो । उकूलनिकूलो भवति । समो
कर्त्तव्यो । चिक्खलिका पूरेतव्या । वंघोरिका दातव्या । उल्लापे(ये)
गृहीतको भवति । शाटियाणं लिप्तोपलिप्तो घष्टमष्टो कर्त्तव्यो ।
उप्पेडनको भवति । पांसुकेन वा शर्करोटेन वा
प्र(21ब्7)त्यास्तरितव्यो । उपांसुलको विहारको भवति । कालेन कालं
सिञ्चितव्यो । संमार्जितव्यो । गोमयकार्षी दातव्या । श(ं)तानिका
शाटयितव्या । एवं विहारे प्रतिपद्यितव्यं । न प्रतिपद्यति ।
अभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
इइइ.4 म्स्.21ब्7 (ज्.97.3); छ्.505च्29
भगवान् श्रावस्त्याम् विहरति । पञ्चार्थवंशा(शां) विस्तरेण कृत्वा
याव अद्राक्षीद् भगवान् पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो
(22अ1) अनुविचरन्तो विहारका(ना)ं पक्क-खेटेन वा पक्क-सिंघाणकेन
भित्तीयो विनासितायो सिंघाणकवर्त्तीहि लम्बन्तेहि ।
भगवान जानन्तो येव पृच्छति । किं इमायो भिक्षवे विहारकानां
भित्तियो पक्क-खेटेन पक्कसिंघाणकेन वर्त्तीहि लम्ब(ज्.99)न्तीहि । तेन
हि एवं खेटे प्रतिपद्यितव्यं । किन् ति दानि एवं खेटे प्रतिपद्यितव्यं
नायं क्षमति । भिक्षुणा कृतकर्म्मायां वा अकृ(22अ2)तकर्म्मायां वा
भित्तीयं खेटम् वा सिंघाणकम् वा च्छोरयितुं ॥ अथ खलु
खेटकटाहं कर्त्तव्यं । कपालं वा मल्लम् वा कुण्डिकम् वा
दकानकम् वा लिप्तोपलिप्तं करिय वालिकाये वा पाषाणस्य वा
पत्थलिद्द्रकानां वा पूरयितव्यं । ततो तहिं खेटे(टो) कर्त्तव्यो । नापि
क्षमति खेटकटाहकं अध्युपेक्षितुं । मा सप्रमाणको भवेय । अथ
खलु कालेन कालं च्छो(22अ3)रिय अन्यस्य पूरयितव्यं । आतपे वा दातव्यो
यो(सो) भूयो प्रवेशयितव्यो । अथ दानि (इ.प्.104) खेटकटाहकं भवति
मल्लकं वा कोटिकम् वा आविद्धपुटिका वा थपेतव्या तहिं खेटो
कर्त्तव्यो । कालेन कालं विसर्जयितव्यो ॥ अथ दानि एवं पि न भवति ।
कृतकर्म्मा भूमि भवति न क्षमति । भूमीये च्छोरयितुं । अथ खलु
एकस्य उपानहाये (22अ4) तले च्छोरयितव्यं द्वितीयेन मर्द्दयितव्यं ।
अथ दानि उप्पंसुलो विहारो भवति । भूमीये च्छोरिय पादेन
मर्द्दितव्यो । एषो भिक्षुः दिवाविहारंगतो चंक्रमति । श्लेष्मिको भिक्षु
भवति । इतो च च्छोरियन्तो चंक्रमति विनयातिक्रमम् आसादयति । अथ
खलु च्छोरियाण पादेन मर्दितव्यं । चंक्रमशीर्षे वा आविद्धपुटिका
वा (ज्.100) वालिका(22अ5)ये वा कूटिमल्लकं वा थपेतव्यं, । तहिं खेटो
च्छोरयितव्यो । यं कालं गच्छति । ततो एकतमंते च्छोरयितव्यो । प्रहाणे
आसन्तस्य खेट बाधति । ओपानहपुटे कृत्वा भूमिंये मर्दितव्यं, ॥
अथ दानि भूम्यस्तारो भवति भाजने कर्त्तव्यं । कुन्तके वा अलाबुके
वा वंशत्थोलिकायां वा । अथ दानि उच्छदो भवति । खेटम् वा
सिंघाणकं, (22अ6) वा उत्थित्वा एकान्ते कृत्वा पुनः । उपवेष्टव्यं ।
उपाध्यायाचार्याणां वा मूले खेटं व्यावहति । एकान्ते कर्त्तव्यं । एषो
दानि भिक्षुस्य गोचरं प्रविशन्तस्य अथा(ध्वा)नमार्ग्गगतस्य वा
खेटे आगच्छति च्छोरिय पादेन मर्दितव्यो । अमर्दिय गच्छति
विनयातिक्रमम् आसादयति । अथ दानि क्षुद्रो खेटे उपांसुलो च भूमी
भवति । च्छोरन्तको य्येव पर्या[दानं] गच्छ(22अ7)ति । किं चापि न
मर्द्दति । अनापत्तिः । एषो भिक्षुः स्तूपं वन्दति स्तूपाभिगृहे वा खेटं
च्छोरितकं केन चि अप्रकृतिज्ञो न पादेन मर्दितव्यो । अथ दानि द्वे जना
भवंति । यो नवको भवति । तेन मर्द्दितव्यं । अथ दानि नवकतरो
शैथिलिको बाहुलिको वा भवति । वृद्धतरकेन मर्दितव्यं । एवं खेटे
प्रतिपद्यितव्यं, । न प्रतिपद्यति ॥ अभिसमाचारिकान् धर्म्मान्
अति(22ब्1)क्रमति ॥ * ॥
इइइ.5 म्स्.22ब्1 (ज्.101.1); छ्.506अ17
(ज्.101) भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा अपरेण
दानि भिक्षुणा मुण्डे वातपाणे पात्रं स्थवितं तन् दानि
वातमण्डलिकाये (इ.प्.105) आगच्छियाणं भूमीयं पातितो भिन्नो
कपालानां राशिं कृत्वा यवागूये गण्डी आकोटिता सो दानि हस्तां
निर्म्मादिय विहारकं प्रविष्टो पश्यति । कपालिकानां राशिं एतं
प्रकरणं यो(सो) भिक्षुः भगवतो आरोच(22ब्2)ये ।
भगवान् आह । एवं च त्वं मुण्डवातपाने पात्रं थपेसि तेन हि एवं
पात्रे प्रतिपद्यितव्यं । किन् ति दानि एवं पात्रे प्रतिपद्यितव्यं । भिक्षुणा
ताव कल्यतो येच(व) निवासिय प्रावरिय पात्रचीवरम् आदाय गोचरं
प्रविशितव्यं । गोचरातो निर्द्धाविय आहारं करीय पात्रं
निर्म्मादयितव्यं । नापि क्षमति । कर्कशेन वा चूर्ण्णेन कर्कशेन वा
गोमयेन निर्म्मादयितुं ॥ अथ (22ब्3) खलु मूलरसेन वा पत्ररसेन
वा पुष्परसेन वा निर्व्वालिकेन वा गोमयेन निर्म्मादयितव्यं नापि
क्षमति विल्वस्य वा पक्वस्य कपित्थस्य पक्वस्य नालिकेरस्य हेष्ठे
निर्म्मादयितुं, । मा पक्वेन वा विल्वेन पक्वेन वा कपित्थेन पक्वेन
वा नालिकेरेण भंजेय न्ति(त्ति) । नापि क्षमति दरिनिश्रितेन वा पात्रं
निर्म्मादयितुं । मा पतितं भञ्जय न्ति(त्ति) (22ब्4) अथ खलु कर्षधाने
वा वालिकाधाने वा दूर्व्वासाद्वले वा निर्म्मादयितव्यं । नापि क्षमति
स्थितकेन पात्रं निर्म्मादयितुं ॥ नापि क्षमति (ज्.102) भूमीये
घसन्तेन ॥ अथ खलु उपविष्टे(ष्ट)केन निर्म्मादयितव्यं ।
अध्वावयन्तेन नापि । क्षमति । स्थितकेन अध्वापयितुं ॥ अथ खलु
उपविष्टेन अध्वापयितव्यं । प्रतिसामयन्तेन नापि क्षमति ।
जंघा(22ब्5)पथे वा स्थापयितुं । कपाटो(टे) वा मुण्डवातायने वा ।
अथ खलु पात्र प्रवेशिकायां प्रक्षिपिय स्थपेतव्यं । नापि क्षमति
स्थितकेन प्रक्षिपितुं ॥ अथ खलु उपविष्टकेन प्रक्षिपितव्यं ।
पात्रप्रसेविकानागदन्तके वा कीलके वा उक्कचिय थपेतव्या । अथ दानि
उज्जुको कीलको भवति । दुवे त्रयो वा अवेढका दातव्याः । अथ दानि
नागदन्तको (22ब्6) भवति । किञ् चापि एवम् एव थपेति । अनापत्तिः ॥
पात्रप्रसेविका न भवति पात्रपीठके थपेतव्यं । अथ दानि
पात्रपीठकं न भवति । काष्ठम् वा इष्टकम् वा उपलम् वा
निरामिषं निर्म्मादिय तस्य उपरि स्थपेतव्यं । अथ दानि एवं पि न
भवति । अन्तमसतो पृथिवीप्रदेशं (इ.प्.106) पि गोमयेन उपलिम्पिय
थपेतव्यं । गृह्नन्तेन नापि क्षमति । एकहस्तेन दुवे त्रयो वा पात्राणि
गृह्नितुं, । अ(22ब्7)थ खलु परमं त्रयो पात्राणि गृह्नितव्यानि ।
एकहस्तेन द्वे गृह्नितव्याः । अपरेण दानि एकं । अथ दानि
प्रत्यन्धकारको विहारको भवति । न क्षमति । पात्रेण पात्रं
मार्ग्गितुं ॥ अथ खलु हस्तेन मार्ग्गितव्यं । अथ दानि भिक्षुः
उपाध्यायस्य चा(वा)चार्यस्य वा पात्रम् अल्लीपयति नापि क्षमति ।
उपाध्यायस्य वा आचार्यस्य वा पात्रं वामेन (ज्.103) हस्तेन
अल्लीपयितुं, । अथ खलु (23अ1) उपाध्यायस्य वा आचार्यस्य वा दक्षिणेन
हस्तेन पात्रं अल्लीपयितव्यं । नापि क्षमति । गृहीतं न गृहीत न्ति(त्ति) ।
ततो मुञ्चितव्यं । ओकड्ढन्तेन सुगृहीतं कर्त्तव्यं । निर्म्मादयन्तेन
प्रथमं उपाध्यायस्य वा आचार्यस्य वा पात्रं निर्म्मादयितव्यं ।
पश्चाद् आत्मनो शोषयन्तेन प्रथमं उपाध्यायस्य वा आचार्य्यस्य वा
शोषयितव्यं । पश्चाद् आत्मनो प्रतिसामयन्तेन प्रथमं
उपा(23अ2)पाध्यायस्य वा आचार्यस्य वा प्रतिसामयितव्यं । पश्चाद्
आत्मनो प्रवेसिका कर्त्तव्या । दुपुटा तृपुटा प्रसेविकायां
प्रक्षिपियन्तेन कलावीयं दाडीयं । अंसिबद्धकं प्रक्षिपित्वा
समवस्थाय उपविष्टकेन उत्सङ्गस्य उपरि प्रक्षिपितव्यं । मञ्चस्य वा
पीठस्य वा उपरि प्रक्षिपितव्यं । उल्लयन्तेन कीर्ण्ण(ल)कं हस्तेन
प्रत्यवेक्षित्वा मञ्चस्य वा पीठस्य वा उपरि जालवाताय(23अ3)ने वा
पात्रमेलके वा यथा न घट्टेंसु नापि क्षमति । पात्रं अध्युपेक्षितुं
फलकेन वा खज्जन्तं खण्डं वा च्छिद्रम् वा । अथ खलु कालेन
कालं दहितव्यं । पचितव्यं । रञ्जितव्यं । न दानि क्षमति । पात्रेण
अप्रयतं गृह्नितुं । उच्चारो वा प्रस्रावो वा खेटं वा सिंघाणकं वा
विघसो वा संकारो वा अन्यम् वा अप्रयत्तं ग्रहेतुं, । नापि दानि
क्षमति । पात्रे(23अ4)ण केषां (ज्.104) ओतारयितुम् वा पादं वा मुखं वा
धोवितुं । जेन्ताकम् वा प्रवेशितुं । उदककृत्यं वा कर्त्तुं, । यथा
अक्षिस्मिं एवं पात्रे प्रतिपद्यितव्यं । न प्रतिपद्यति । अभिसमाचारिकान्
धर्म्मान् अतिक्रामति ॥ * ॥
(इ.प्.107)
इइइ.6 म्स्.23अ4 (ज्.104.4); छ्.506ब्13
भगवान् श्रावस्त्यां विहरति । ते न दानि आयुष्मतो षड्वर्ग्गिकाः ।
एकत्यं यवागूं निन्दन्ति । एकत्यं प्रसंसन्ति । यो ताव त्प(पे)लंवा
भवति । (23अ5) जल्पन्ति । हे हे हे नायं किञ्च(चि)द् यागु गङ्गा अयं
सरयू अजिरवती मही महामही त्ति निचुडबुन्तिकाये इमंहि तण्डुला
मार्ग्गितव्या ॥ अथ दानि खक्खट भवति जल्पति । हे हे हे नायं किञ्चि
यवागू लेच्छं अयं पेय्या अयं पेय्या अयं कट्टारिका च्छेज्जा अयं ते
दानि भिक्षू उत्क्षिप्ता भवन्ति । जिह्मा(ह्वा) वेड्ढा निष्प्रतिभानाः । एतं
प्रकरणं भि(23अ6)क्षू भगवतो आरोचयेंसु । भगवान् आह ।
शब्दापयथ षड्वर्ग्गिकां ते दानि शब्दापिताः । एतद् एव पृच्छियन्ति ।
आह । आम भगवन्
भगवान् आह । तेन हि एवं यवागूये प्रतिपद्यितव्यं । किन् ति दानि एवं
यवागूये प्रतिपद्यितव्यं । एषो दानि यवागूये समयो आरोचितो भवति ।
ततो जानितव्यं । किम् अयं यवागू उभयतो सांघिकापर्या(षा)ये
परिवेणिका निमन्त्रितिका(23अ7)यां । यदि ताव उभयतो सांघिका भवति
सर्व्वेहि (ज्.105) गन्तव्यं । पार्थिका भवति । ताये पर्या(षा)ये गन्तव्यं
परिवेणिका भवति । तेहि परिवेणिकेहि गन्तव्यं निमन्त्रितका वा भवन्ति ।
तेहि निमन्त्रितकेहि गन्तव्यं । प्रतिकृत्येव ताव भिक्षुणा दन्तकाष्ठं
खादयितव्या(व्यं ।) मुखं धोविय हस्तां निर्म्मादिय पात्रं गृह्निय
उपविशितव्यं । नापि क्षमति यवागू उपानहारूढेन वा प्रतिच्छितुं ।
(23ब्1) ओगुण्ठिकाकृतेन वा समंतप्रावृतेन वा प्रतिच्छितुं । अथ खलु
उपानहा निखोसिय एकांशकृतेन यवागू प्रतिच्छितव्या । अथ दानि
दण्डकर्म्म प्रतिदिन्नं भवति । पा(र्)ष्णिवब्रा(द्ध्रा) ओमुञ्चितव्या
द्वितीयकालिकस्य लाभग्राहं अध्येषित्वा गन्तव्यं । अथ दानि
उपविष्टकानां (पटि)पाटिकाये (इ.प्.108) दीयति । यथा वृद्धिकाये
गृह्नितव्यं । यदि ताव तनुका भवति । न वक्तव्यं । हे हे हे गङ्गा
आयं सर्व्वं या(23ब्2)व मही चन्द्रभागा अयं । अथ दानि अतिघना
भवति न वक्तव्यं । नायं यवागू ओदनो अयं दण्डासनि भेज्जा अयं ।
अथ खलु यादृशी दीयति तादृशी प्रतिच्छिता दायकवशो (ज्.106) न
प्रतिग्राहकवशो ॥ अथ दानि भिक्षुः । जरादुर्ब्बलो वा व्याधिदुर्ब्बलो
वा भवति । अतिशीतम् वा अति-उष्णम् वा भिक्षु नैव दन्तकाष्ठं
खादति । न मुखं धोवति । न हस्ता निर्म्मादयति । आनन्त(23ब्3)र्यस्य
या पात्रं दातव्यं । वक्तव्यं आयुष्मन् इमं मम यवागूये
प्रत्यंशं गृह्न । यं कालं प्रतिच्छिता भवति । ततो परिभुञ्जितव्या । एते
विलम्बका यवागूः निन्दन्ति वा प्रसंसन्ति वा विनयातिक्रमं
आसादयन्ति । एवं यवागूये प्रतिपद्यितव्यं । न प्रतिपद्यति ॥
अभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
इइइ.7 म्स्.23ब्3 (ज्.106.8); छ्.506ब्28
भगवान् श्रावस्त्यां विहरति विस्तरेण निदा(23ब्4)नं कृत्वा अपरो दानि
भिक्षुः योगाचारो वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यामीति ।
अपरो दानि भिक्षुः । आगच्छिय तस्य पुरतो स्थितो तस्य दानि तेन
नीव(र)णेन चित्तं समाधानं न गच्छति एतं प्रकरणं सो
योगव(गाचा)रो भगवतो आरोचये भगवान् आह । शब्दापयथ तं
भिक्षुं सो दानि शब्दापितो । भगवान् आह । सत्यं भिक्षु (23ब्5) एवं
नाम अपरो योगाचारो वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यन् ति ।
त्वं दानि तस्य पुरतो आगच्छिय स्थितो तस्य दानि तेन नीवरणेन चित्तं
समाधानं न गच्छति । आह । आम भगवन
भगवान् आह । दुष्कृतं ते भिक्षु एव(ं) च त्वं योगाचारस्य भिक्षुस्य
पुरतो तिष्ठसि तेन हि एवं स्थातव्यं । किन् ति दानि एवं स्थातव्यं ।
नायं ताव क्षमति (ज्.107) भि(23ब्6)क्षुणा योगाचारस्य भिक्षुस्य पुरतो
तिष्ठितुं नापि क्षमति वेशिका समन्तकेन वा तिष्ठितुं ।
वधबन्धनागारशालासामन्तेन वा तिष्ठितुं । नायं क्षमति ।
अतिगुप्ते वा अतिप्राकटे वा प्रदेशे तिष्ठितुं । अथ खलु च्छन्नप्राकटे
प्रदेशे स्थातव्यं । न (इ.प्.109) क्षमति स्तूपं वा पृष्ठतो कृत्वा
तिष्ठितुं, । संघं वा उपाध्यायाचार्यम् वा वृद्धतरकं वा पृष्ठतो
कृत्वा तिष्ठितुं । उपानहारूढेन (23ब्7) वा तिष्ठन्तु खंभकृतेन वा
ओगुण्ठितशीर्षेण वा ओवाहितहस्तेन वा नापि क्षमति संघमध्ये मा
तिष्ठ ति उक्तो तिष्ठितुं । उपाध्यायाचार्येहि वा उक्तेन समानेन मा
तिष्ठेति तिष्ठति विनयातिक्रमम् आसादयति । अथ दानि ग्लानो भवति । किञ्
चापि ओपानहारुढो ओगुण्ठितशीर्षो वा ओहितहस्तो वा तिष्ठति । अनापत्तिः ।
एवं स्थातव्यं न तिष्ठति ॥ अभिसमाचारिकान् धर्म्मान्
अतिक्रा(24अ1)मति ॥ * ॥
इइइ.8 म्स्.24अ1 (ज्.107.13); छ्.506च्16
भगवान् राजगृहे विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण
निदानं कृत्वा अपरो दानि भिक्षुः । योगाचारो वैदेहके पर्व्वते निषण्णो
चित्तं समाधयिष्यामीति । अपरो दानि भिक्षुः । आगत्वा तस्य पुरतो
तालपादुकाहि आबद्धाहि दीर्घचंक्रमं चंक्रमति । टप्य टटप्य
टप्य टटप्य न्ति(त्ति) तस्य (ज्.108) दानि तेन शब्देन चित्तं न
समाधानं गच्छति । एतं प्रक(24अ2)रणं सो योगाचारो भगवतो
आरोचये । भगवान् आह । सत्यं भिक्षु एवं नामा अपरो योगाचारो
वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यामीति । तद् एवं सर्व्वं
भगवान् विस्तरेण प्रत्यारोचयति । याव तस्य दानि तेन शब्देन चित्तं न
समव(मा)धानं गच्छति । आह । आम भगवन्
भगवान् आह । दुष्कृतं ते भिक्षुः । एवं च त्वं योगाचारस्य
भिक्षुस्य पुरतो चंक्रमसि । तेन हि (24अ3) एवं चंक्रमितव्यं । किन् ति
दानि एवं च(ं)क्रमितव्यं । नायन् ताव क्षमति भिक्षुणा योगाचारस्य
भिक्षुस्य पुरतो चंक्रमितुं । नापि क्षमति स्तूपम् वा पृष्ठतो कृत्वा
चंक्रमितुं । संघं वा पृष्ठतो कृत्वा चंक्रमितुं ।
उपाध्यायाचार्यम् वा पृष्ठतो कृत्वा चंक्रमितुं । एषो दानि भिक्षुः ।
उपाध्यायेन वा आचार्येण वा सार्द्धं चंक्रमति । उपाध्यायस्य वा
आचार्यस्य अति(24अ4)रेकं चंक्रमितुं नापि क्षमति । समं
चंक्रमयितुं । अथ खलु द्वे त्रयो वा पदा (इ.प्.110) निहिनकेन
चंक्रमितव्यं । संघमध्ये वा चंक्रमति । मा चंक्रमाहीति उक्तेन
न चंक्रमितव्यं । अथ दानि ग्लानो घृतं वा पीतं । विरेचनं वा पीतं
किञ् चापि चंक्रमति । तन् न क्षमति । पुरतो समं वा गन्तुं ओहयित्वा
गन्तव्यं । अनुवरिवर्त्तन्तेन तदा न क्षमति ।
उ(24अ5)पाध्यायाचार्याणां वा पृष्ठतो कृत्वा परिवर्त्तित(तु)ं । अथ
खलु अभिदक्षिणं अग्रतो करेन्तेन अनुपरिवर्त्तितव्यं । नापि क्षमति
वेसिकासामन्तकेन चंक्रमितुं । नापि क्षमति द्युतिकरशालासामन्तकेन
चंक्रमितुं, । वधबन्धनागारसामन्तेन चंक्रमितुं । (ज्.109) नापि
क्षमति अतिप्राकटे वा प्रदेशे चंक्रमितुं । अथ खलु च्छन्नप्राकटे
प्रदेशे (24अ6) चंक्रमितव्यं । एवं चंक्रमे प्रतिपद्यितव्यं । न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान् अतिक्रमति* ॥॥
इइइ.9 म्स्.24अ6 (ज्.109.4); छ्.507अ4
भगवान् श्रावस्त्याम् विहरति ते दानि आयुष्मन्तो षड्वर्ग्गिकाः ।
उष्ट्(र्)अपर्यंकेन प्रहाणं उपविंश(शं)ति । अनन्तरिकानां जानुकेहि
व्यावहन्ति । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान्
आह । शब्दापयथ षड्वर्ग्गिकान् ते दानि शब्दापिताः । भग(24अ7)वान्
आह । सत्यं भिक्षवो षड्वर्ग्गिका एवं नाम यूयं उष्ट्रपर्यङ्केन
प्रहाणे निषीदथ । अनन्तरिकानां जात(नु)केहि व्यावहथ आहंसु । आम
भगवन भगवान् आह । दुष्कृतं भिक्षवो षड्वर्ग्गिकाः । एवं च
यूयं उष्ट्रपर्यङ्केन प्रहाणे निषीदथ । तेन हि (न) क्षमति ।
उष्ट्रपर्यङ्केन प्रहाणे निषीदितुं । भगवान् । तान् भिक्षून्
आमन्त्रयति । एवं भिक्षवो निषीदथ । यथा नाग(24ब्1)हिमवताः । एकं
नागं द्वे नागा अनुपरिधा(वा)र्य निषीदन्ति । द्वे नागा चत्वारि नागा
अनुपरिवार्य निषीदन्ति चत्वारि अष्ट अष्ट षोडश षोडश (द्वात्रिंशद्)
द्वात्रिंशच् चतुषष्टि नागा अनुप(रि)वार्य निषीदन्ति । (ज्.110) अथोत्तरेण
यथानुभावं न क्षमति । उष्ट्रपर्यङ्केन निषीदितुं, । भिक्षुणापि
ताव स्वस्ति(क)पर्यङ्केन प्रहाणे निषीदितव्यं । अथ दानि (इ.प्.111)
भिक्षु पर्यङ्केन निषण्णो भवति श्रान्तो भ(24ब्2)वति । गर्भानि
आमिलायन्ति । नापि क्षमति । उभयानि सन्धी मटमटाये प्रसारितुं ।
अथ खलु एको पादो सुखाकं प्रसारयितव्यो तं अमुहूर्त्ते विश्रामिय
सन्मिञ्जिय द्वितीयो पादो सुखाकं प्रसारयितव्यो । उत्थिपित्वा वा एकान्ते
चंक्रमितव्यं । न क्षमति । ओगुण्ठितशीर्षेण प्रहाणे उपवेष्टुं । अथ
दानि जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा भवति । शीर्षम् वा (24ब्3)
दुःखति । अर्द्धशीर्षस्य पिथेतव्यं । एको च कर्ण्णो । अथ दानि एकान्ते
भवति उच्छेदके वा वृक्षमूलके वा विहारे वा प्रतिसंलीनको किञ् चापि
ओगुण्ठितशीर्षो निषीदति । अनापत्तिः । अमूहूर्त्तकं विश्रमिय भूयो
स्वस्तिकपर्यङ्केन निषीदितव्यं ॥ अथ दानि भिक्षु न पारेति ।
स्वस्तिकपर्यङ्केन निषीदितुं । [अर्द्धपर्यङ्केन] (24ब्4) निषीदितव्यं ।
अथ दानि अर्द्धपर्यङ्केनापि न पारेति निषीदितुं, । उभौ पादौ ओसारिय
सुसंवृतेन निषीदितव्यं । तथा कर्त्तव्यं । यथानन्तर्यं जानुकेहि न
व्यावहति । न क्षमति । स्तूपं पृष्ठतो करीय निषीदितुं । संघम् वा
पृष्ठतो करीय निषीदितुं, । उपाध्यायाचार्याणां वा पृष्ठतो करिय
निषीदितुं । वृद्ध[तरकं वा पृ]ष्ट(ष्ठ)तो (24ब्5) करीय निषीदितुं ।
नापि क्षमति संघमध्ये मा निषीद न्ति(त्ति) । उक्तेन समानेन (ज्.111)
निषीदितुं । नापि क्षमति । उपाध्यायाचार्येहि मा निषीद न्ति(त्ति) । उक्तेन
निषीदितुं नापि क्षमति वेसिकासामान्तेन द्युतिकरशालासामन्तकेन
निषीदितुं । वधबन्धनागारशालासामन्तकेन निषीदितुं, । अतिभुंडे
वा प्रदेशे निषीदितुं । अथ खलु च्छन्नप्रा(24ब्6)कटे प्रदेशे
निषीदितव्यं, । एवं निषद्ये प्रतिपद्यितव्यं । न प्रतिपद्यति ।
अभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
इइइ.10 म्स्.24ब्6 (ज्.111.7); छ्.507अ15
भगवान् श्रावस्त्यां विहरति ते दानि आयुष्मन्तो षड्वर्ग्गिकाः ।
ओमुद्धकापि शेय्यां कल्पेन्ति । उत्तानकापि शेय्या कल्पेन्ति । वामेनापि
पार्श्वेन शेय्यां कल्पेन्ति । एतं प्रकरणं भिक्षूहि श्रुतं । भिक्षू
भगवतो आरोचयेंसु । भगवान् आह । (24ब्7) शब्दापयथ
षड्वर्ग्गिकां । ते दानि शब्दापिता । भगवान् आह । सत्यं भिक्षवो
षड्वर्ग्गिकाः । एवं नाम यूयं ओमुद्धकापि (इ.प्.112) शेय्यां कल्पेथ ।
वामेनापि पार्श्वेन शय्यां कल्पेथ । आहंसु । आम । भगवं
भगवान् आह । दुष्कृतं वो भिक्षवो षड्वर्ग्गिकाः । तेन हि न
क्षमति । उत्तानकेन शेय्यां कल्पितुं । न क्षमति । ओमुद्धकेन शेय्यां
कल्पयितुं । न क्षमति । वामे(25अ1)न वा पार्श्वेन शेय्यां कल्पयितुं ।
भगवान् दानि भिक्षून् आमन्त्रयति । (ज्.112) ओमुद्धका भिक्षवो प्रेता
शेय्यां कल्पयन्ति । उत्तानका भिक्षवो आसुरा शेय्यां कल्पयन्ति । वामेन
पार्श्वेन कामोपभोगिनः । शेय्यां कल्पयति । एवं भिक्षवो शेय्यां
कल्पेथ । यथा सिंहो मृगराज सिंहो भिक्षवो मृगराजा दक्षिणेन
पार्श्वेन शेय्यां कल्पयति । पादेन पादं आधाय दन्तेन द(25अ2)न्तं
आधाय जिह्वाग्रं तालुकाग्रे प्रतिष्ठापयित्वा । अङ्गुलं अनुकायं
आयच्छिहित्वा दक्षिणां बाहं शिरस्य् उपनिधाय वामं बाहाम् अनुकायं
प्रसारयित्वा सो पि प्रतिबोधनां(नन्)।तेन पुरिमं कायं अभ्युन्नामेति ।
पृष्ठिमं कायं अभिविलोकयति । स चेत् पश्यति । गात्राणाम् अन्यथात्वं
तेन भवति । अनात्तमनो च पश्यति । गात्राणाम् अन्यथात्वं तेन भवति
चित्ते आ[त्तमनो] अ(25अ3)भिरद्धो भिक्षुणापि ताव शेय्यां प्रज्ञपेंतेन
अभिदक्षिणां प्रज्ञपयितव्या । य(त)था कर्त्तव्या यथा संप(य)तको
येव दक्षिणेन पार्श्वेन शय्यां कल्पेति । न क्षमति । वामेन शय्यां
प्रज्ञपेतुं । दक्षिणशय्या प्रज्ञपेतव्या । चीवरवंशस्य हेष्ठतो
रात्रीये पुरिमं यामं उद्देशप्रयुक्तेन स्वाध्यायप्रयुक्तेन स्थानेन
(ज्.113) चंक्रमेण वीतिनामयि(25अ4)तव्या रात्रीये मध्यमे यामे
दक्षिणेन पार्श्वेन सिंहशेय्या कल्पयितव्या । पादेन पादम् आधाय
जिह्वाग्रं तालुकाग्रे प्रतिष्ठापयित्वा दक्षिणां बाहां शिरस्य् उपनिधाय
वामां बाहां अनुकायं प्रसारित्वा उत्थानसंज्ञी मनसिकाकारेन्तेन
नापि दानि परिवर्त्तकं यावत् सूर्योद्गमनात् ततो शयितव्यं । रात्रीये
पश्चिमे यामे पर्यङ्केन वीति(25अ5)नामयितव्यं । उद्देशप्रयुक्तेन
स्थानचंक्रमानुयुक्तेन वा । अथ दानि भिक्षुः । दुःखशायी भवति
पारश्येन पारश्यं पल्लट्टन्तो (इ.प्.113) शयिति अनापत्तिः । जरादुर्ब्बलो
वा व्याधिदुर्ब्बलो वा भवति । दक्षिणे पार्श्वे गण्डं वा पिटकं वा ।
भवति । किञ् चापि वामेन पार्श्वेन शयति अनापत्तिः । न क्षमति । स्तूपं
वा पादतो कृत्वा । शय्यां कल्पयितुं । संघं, (25अ6) वा पादतो कृत्वा
शेय्यां कल्पयितुं । वृद्धतरकं वा पादतो कृत्वा उपाध्यायाचार्यं वा
पादतो कृत्वा शेय्यां कल्पयितुं, । एव(ं) शय्यां प्रतिपद्यितव्यं । न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान् अतिक्रामति* ॥॥
उदानं
एवं कठिने प्रतिपद्यितव्यं ।
एवं चक्कलीये प्रतिपद्यितव्यं ।
एवं विहारे प्रतिपद्यितव्यं ।
एवं खेटे प्रतिपद्यितव्यं ।
(ज्.114) एवं पात्रे प्रतिपद्यितव्यं ।
एवं यवागूये (25अ7) प्रतिपद्यितव्यं ।
एवं स्थातव्यं ।
एवं चंक्रमितव्यं ।
एवं निषीदितव्यं ।
एवं शेय्या कल्पयितव्यं ॥ * ॥
(इ.प्.114)
इव्.1-2 म्स्.25अ7 (ज्.115.1); छ्.507ब्4
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा ते दानि आयुष्मन्तो
षड्वर्ग्गिकाः । द्वारं बन्धियाणं विहारस्य पश्चा वस्तुके काकवाहं
भंजन्तं । आसन्ति । आगन्तुकानां भिक्षूणां गणो आगतो द्वारं यावन्ति
न लभन्ति ते दानि ओक्खन्दियाणं प्रविष्टाः । तेहि दाणि (25ब्1)
आयुष्मन्तेहि षड्वर्ग्गिकेहि आगन्तुका दृष्टाः पृच्छन्ति । आयुष्मं कुतो
वा प्रविष्टाः । आहंसुः । ओक्खन्दियाणं प्रविष्टाः । ते दानि आहंसु ।
आयुष्मन् एवं च यूयं ओक्खन्दियाणं विहारं प्रविशथ । ते पि दानि
आगन्तुका आहंसु । एवं च यूयं द्वारं बन्धियाणं विहारस्य पश्चाद्
वस्तुकस्य काकवाहं भञ्जन्ता आसथ ते दानि विवदिताः । भगवतो
मूलं गताः ।
भगवान् आह । ना(25ब्2)यं ताव क्षमति । ते(ने)वासिकेहि विहारस्य
द्वारं बन्धियाणं विहारस्य पश्चाद् वस्तुकस्य काकवाहं
भंजमानेहि आसितुं । नापि क्षमति । आगन्तुकेहि विहारं ओक्खन्दियाणं
प्रविशितुं । तेन हि एवं आगन्तुकेहि प्रतिपद्यितव्यं । एवं नि(ने)वासिकेहि
प्रतिपद्यितव्यं । किन् ति दानि एवं आगन्तुकेहि प्रतिपद्यितव्यं । एते दानि
भिक्षु आगन्तुका आगच्छन्ति । सर्व्वेहि पाडिप(य)क्कपाडियककानि
अ(25ब्3)पावुरणानि उपस्थापयितव्यानि । एकस्यापि अपावुरणि न भवति ।
सर्व्वे विनयातिक्रमं आसादयंति । एकस्यापि अपावुरणि भवति ।
सर्व्वेषाम् अनापत्तिः ।
अथ दानि कोचि ग्लानो भवति । न दानि उज्झित्वा गन्तव्यं । अथ खलु
अनुपालेतव्यो । पात्रचीवरं आलम्बितव्यं । नापि दानि पात्र(ज्.116)चीवरं
गृह्नित्वा अदर्शनेन गन्तव्यं । अथ खलु अ(25ब्4)विदूरेण गन्तव्यं ।
मा दानि अदर्शनेन परिजाने हृतं । हृतं मे पात्रचीवरम् इति
गच्छन्तस्य कर्त्तव्यं । यदि दानि ओश्या भवति तरुणभिक्षूहि अग्रतो
गन्तव्यं । ओश्या प्रतिवाहन्तेहि । अथ दानि व्याडभयं वा चोरभयं
वा भवति । वृद्धं बालं मध्ये कृत्वा गन्तव्यं । अथ दानि चोरा
सप्रसादा भवन्ति । वृद्धेहि (इ.प्.115) अग्रतो गन्तव्यं । यथा पश्यित्वा
प्रसा(25ब्5)देन अविवर्जिता गच्छेंसु । यदि दानि ग्रामस्य नगरस्य वा
मध्येन गन्तव्यं । भवति । न दानि क्षमति नगरवे(चे)तियानि
अभिदक्षिणि करेन्ति(ते)हि वा गन्तुं । अपवामिवा(का) करेन्तेहि वा अथ
खलु उज्ज(ज्जु)केन मा(र्)गकेन गन्तव्यं । न्याये वासोपगता भवन्ति ।
तरुणा भिक्षु दुवे वा त्रयो वा प्रवेशयितव्या । अग्रतो गच्छथ
संघस्य फासुवि[हार]ं उप(25ब्6)दहथ पादतैलेन गुडपानीयेन
प्रतिश्रयेण पुरेभक्तिकेन तेहि दानि प्रावरिय गण्ठिपासकं ओबन्धिय
आमन्त्रिय प्रवेष्टव्यं । प्रविसिय याचित्वा संघस्य
यथासुखपरिभोगं निःसारेपेतव्यं । पादतैलं वेकालिकं
पुरेभक्तिकं भैक्षितव्यं । आवि(चि)क्षितव्यं लब्धो प्रतिश्रयो तेहि दानि
यदि तहिं ओघो वा (ज्.117) भवति । नदी तडागं वा पुष्किरिणी वा
उदुपानो वा तहिं पादा(25ब्7)न् प्रक्षालेत्वा प्रावरेत्वा अन्योन्यं
आमन्ध(न्त्र)यित्वा प्रवेष्टव्यं । अथ दानि गुडपानीयं भवति । तहिं
येव वेकालिकं करिय प्रवेष्टव्यं । मा पश्येंसु समामपयि इमे
प्रव्रजिता करोन्ति । अथ दानि उभंडितो भवति संविभजित्वा
प्रवेष्टव्यं । निसृष्टगृहं भवति अनामन्त्रिय प्रविशति अनापत्तिः । न
दानि लभ्या अन्येन गन्तुं । रच्छाच्छिद्द्रका भवति । अनापत्तिः ।
ग्रामन्तिकं शेय्यासनं, (26अ1) भवति । तहिं गन्तव्यं । अथ दानि
आरण्यकशेय्यासनं भवति । तहिङ् गन्तव्यं । संघारामं प्रविशन्तेहि
पुष्किरिणीयं वा तडागे वा ओघे वा पादां धोवित्वा प्रवेष्टव्यं । अथ
दानि उब्भंडितो संविभजित्वा प्रवेष्टव्यं चेतियाणं प्रदक्षिणी
करेन्तेहि उपानहा ओमुञ्चित्वा काष्ठकेन गृह्नित्वा प्रवेष्टव्यं । नापि
दानि उच्चशब्दमहाशब्देहि प्रवेष्टव्यं । नापि नेवासिकां
उल्लय(प)न्ते(26अ2)हि हू ह हे अद्यापि तं तद् एवेत्थ वसथ घुण
विद्धातवे नन्द्(अन्)ओपनन्दना यूयं नागराजानो इहैव यूयं जाता
इहैव मरिष्यथ जाता ते शृगाला ये तुम्भाणं मांसानि खादिष्यन्ति ।
नापि दानि नेवासिकेन उल्लपितव्यं । हू ह हे चण्डमुक्तं पञ्चवर्षिकं
प्रवृत्तं यथापाटितो नापि दानि वक्तव्यं को इत्थं कति वर्षो उत्थिह
नापि दानि (ज्.118) वक्तव्यं । को भक्तका नातिथिका कस्य शुवे
भक्तत(26अ3)र्पणं पुरोभक्तिकं वा (इ.प्.116) नापि दानि नेवासिकेहि
द्वारं बन्धित्वा काकवाहां भजन्तेहि आसितव्यं ।
अथ दानि पश्चाद् वस्तुके मृत्तिकाकर्म्मं करोन्ति । ये तापे(ये)
आर्थापे(ये) भवन्ति । आरामिका श्रामणेरो वा यस्य ओहेय्यको सो वक्तव्यो
द्वारं रक्षन्तो आसा(स ।) अथ दानि अपदुरको विहारो भवति ।
प्रविशितव्यं । अथ दानि घट्टितको भवति । अपावुर(26अ4)णेन
अपदुरियाणं प्रविशितव्यं । संघारामं प्रदक्षिणी करेन्तेहि
आगन्तव्यं । यत्र भिक्षूणां आसनप्रज्ञप्तिर् भवति । तहिं नवकं
तस्मिं चीवरबिसियन् थवियाणं कुण्डिकां वा उपानहौ वा थवियाण
नेवासिका पृच्छितव्याः । आयुष्मं पादधोवनिका कहिं कल्पियकरकी
कहिं अकल्पि(य)करकी कहि(ं) यदि ताव आवि(चि)क्षन्ति पादधोवनिकायां
पादां (26अ5) धोवियाणं अकल्पियकरकीतो हस्ता निर्म्मादियाण
कल्पियकरकीतो प्रक्षालिय ततो चेतियं वन्दितव्यं चेतियं वन्दियाणं
यत्र नेवासिका भवन्ति तत्र गन्तव्यं अल्लीयाणं नापि क्षमति । वक्तुं
वन्दामी त्ति । अथ खलु वक्तव्यं । आयुष्मन् वन्दिष्यन् ति नेवासिकेहि
वर्षाग्रं पृच्छितव्यं । कति वर्षो आयुष्मन यदि (ज्.119) ताव आगन्तुको
वृद्धतरको भ(26अ6)वति । नेवासिकेन उत्थिय पादा वन्दितव्या । आसनं
दातव्यं । अथ दानि नेवासिको वृद्धतरको भवति । आरोग्यापिय एवं
करियाणं आसनं दातव्यं । यं कालं विश्रान्तो भवति पृच्छितव्यं ।
आयुष्मन् अस्ति एतावति वर्षस्य विहारको प्रापुणति । यदि ताव जल्पति
प्रापुणति त्ति विहारको गृह्नितव्यो मञ्च पीठं बिसि चतुरस्रको कुच्चं
बि(ं)बोहनं गृह्नितव्यं । नापि (26अ7) दानि क्षमति । त्रि(ते)हि आगन्तुकेहि
नेवासिकां कुत्सिय हंभिय आयुष्मन्न् अद्यापि यूयं इह वसथ हे हे
शिष्टा वष्टा यूयं जानाते ये शृगाला ये युष्माकं मांसानि
खादिष्यन्ति । अथ खलु संप्रहर्षयितव्या वक्तव्या आयुष्मन् शोभनं
क्रियति संघारामो केलापीयति । धूमो क्रियति । कुलानि प्रशादीयन्ति ।
अविकालको पादां धोविय म्रक्षिय दीपं आदीपि(26ब्1)य शेय्यां
प्रज्ञपिय प्रतिक्रमितव्यं नापि दानि क्षमति । अपरेज्जुकातो कल्यतो
उत्थिहन्तकेनैव (इ.प्.117) भक्तशालं प्रविशितुं । आयुष्मन् किं सिध्यति
किं पच्यति किं भक्तकानां स्थितिका । अथ खलु कल्यतो येव उत्थिय
निवासिय प्रावरिय हस्तान् निर्म्मादिय पात्रं गृह्निय प्रविशितव्यं । अथ
दानि तहिं विहारके अनुग्रहो भवति विहारकं वा भक्त भवति ।
नेवासिकेहि वक्तव्यं । आ(26ब्2)युष्मन मा पिण्डाय प्रविशथ । इह य्येव
भुंजिष्यथ । अथ (ज्.120) दानि भवति । आगन्तुकानां पिण्डकानां
पिण्डभक्तानि उद्दिशितव्यानि । अथ दानि भक्तकानि उद्दिशितव्यानि । अथ
दानि भक्तकानि न भवन्ति नेवासिकेहि वक्तव्यं आयुष्मं आगमेथ
सहितका पिण्डाये प्रविशिष्यामः । ततो सहितकेहि प्रविशितव्यं । अथ दानि
आगन्तुका भिक्षू विहार आगता भवन्ति । नायं (26ब्3) क्षमति ।
नेवासिकेहि वक्तुं ओ ह हे नावा पञ्चवर्षिकडंयदुक्कं
श्रमणमाताप्रजाता त्ति । अथ खलु आगन्तुकानां एहि स्वागतं
कर्त्त(व्य)ं, । एतु आयुष्मन्तो स्वागतम् आयुष्मन्तो अनुरागतम्
आयुष्मन्तो मा श्रान्ता मा क्लान्ता पादां प्रक्का(क्षा)लेथ । हस्तां
निर्म्मादेथ पानीयं पिबथ विश्रमथ न्ति(त्ति) । यदि ताव पुरेभक्ते
आम(ग)ता भवन्ति पुरेभ(26ब्4)क्तिकेन च्छन्दयितव्याः । देशकाले
आगता भवन्ति । भक्तकृत्येन च्छ(न्द)षि(यि)तव्याः । विकाले आगता
भवन्ति विकालिकेन च्छन्दयितव्याः । विकारको उद्दिशितव्यो । मञ्च
पीठं बिसी चतु(र)श्रकं कुच्चकं बिम्बोहनं (ज्.121) उद्दिशितव्यं ।
पादम्रक्षणेन च्छन्दयितव्या । अथ अपरेज्जुकातो यदि ताव बाहिरकं
भक्तं भवति । अनुग्रहो वा भवति (26ब्5) वक्तव्यं । आयुष्मं मा
पिण्डाये प्रविशथ । इह य्येव भुंजिष्यथ । अथ दानि भक्तका न
भवन्ति । आगन्तुकां पिण्डभक्तकानि उद्दिशितव्यानि । अथ दानि
पिण्डचारिको भवति । यं कालं । आगन्तुका पिण्डाथे(ये) व(च)रिय विहारं
आगता भवन्ति । ततो यदि नेवासिकानां व्यञ्जनानि भवन्ति । खज्जकानि
भवन्ति । ततो यदि स्नेहको वा (26ब्6) भवन्ति । तेहि आगन्तुकानां
सम्विभागो कर्त्तव्यो । अथ दानि एवं पि न भवति । अन्तमसतो यदि तहिं
किञ्चि पिण्डचारिकं प्रणीततरकं भवति । आगन्तुकानां सारणीयं
कर्त्तव्यं । (इ.प्.118) नेवासिकेहि सर्व्वम् आरोचयितव्यं । वक्तव्यं ।
आयुष्मन्तो अमुकं कुलं मा प्रविशथ । पात्रनिकुब्जनं समुतीकृतं,
अमुत्र शुनखा चण्डाः । अमुकं अ[श्रा]द्धकु(26ब्7)लं या क्रिया
आरोचयितव्या ।
अथ दानि । आरण्यकं शेय्यासनं भवति । न क्षमति । तेहि
नि(ने)वासिकाहि द्वारं च बन्ध(धि)य विहारस्य पश्चा वस्तुके
काकवाहां भञ्जन्तेहि आसितुं । अथ दानि सिंहभयं वा भवंति
व्याघ्रभयं वा चोरभयं वा (ज्.122) भिक्षू च पलिगुद्धका भवन्ति ।
च्छायनिका वा लेपनिका वा करेन्ति किं वा(चा)पि द्वारं घटेन्ति
अनापत्तिः । सर्व्वे येव गोच(27अ1)रं प्रविशन्ति । किञ् चापि घट्टेन्ति
अनापत्तिः । एको वा रक्षपालो दातव्यो वक्तव्यं । आयुष्म(ं) द्वारं
बन्धिय द्वारकोष्ठकस्य उपरि आसाहि यदि केचि आगन्तुका आगच्छेंसु ।
ततो द्वारं ददेसि । तेन उपरि द्वारकोष्ठस्य आसितव्यं । यदि ताव केचि
आगन्तुका आगच्छेन्ति । तेषां द्वारं दातव्यं । यं कालं ते नेवासिका
निद्धाविता भवन्ति नापि क्षा(क्ष)मति तेहि नेवासि(27अ2)केहि वक्तुं ।
आयुष्मं एषा नावा मुच्यति एषो साध्वो(र्थो) प्रयातो गच्छन्तु
आयुष्मन्तो गतं मार्ग्गस्य श्रेयो । अथ खलु समाश्वासितव्यं । वसन्तु
आयुष्मन्तो रमंतु आयुष्मन्तो यदि ताव स्तूपिकेन वा कार्येण आगता
भवन्ति । स्तूपिकं कार्ष(य)(ं) परिप्रापयितव्यं । सांघिकेन कार्येण
आगता भवन्ति । सांघिकं कार्यं परिप्रापयितव्यं । यं कालं
परिप्राप्तकार्यं भ(27अ3)वति । यदि कोचि सार्था(र्थो) प्रयातो भवति ते
भिक्षु वाणिजकस्य सार्थवाहस्य परिन्दितव्या वक्तव्यं । उपासक
दानपति इमे भिक्षवो त्वया सार्द्धं गमिष्यन्ति । इमे भिक्षु तव
परिनिन्दिता भवन्तु तेषां गच्छमनो(माना)नां पथ्यदनेन वैकल्यं
कर्त्तव्यं । एवं हि (ज्.123) आगन्तुकेहि प्रतिपद्यितव्यं न प्रतिपद्यन्ति ।
आभिसमाचारिकान् धर्म्मान् अतिक्रामंति ॥ * ॥
(इ.प्.119)
इव्.3-4 म्स्.27अ3 (ज्.123.3); छ्.510ब्3
भगवा(27अ4)न् श्रावस्त्यां विहरति । अपरो दानि भिक्षुः । आगन्तुको
आगतो तस्य दानि अपरो भिक्षुः । वृद्धतरको परिज्ञातको भवति । सो च
अपरेण भिक्षुणा सार्द्धं वाचोवाचिकां करोति । सो दानि आगन्तुको
अल्लीयतस्य नेवासिकस्य पादां वन्दन्ति । सो दानि अन्य विज्ञान समंमी न
समन्वाहरति । न तं प्रतिसंमोदति सो दानि अप्रतिसंमोदिय ग(27अ5)तो ते
दानि अपरकालेन उभये समागता सो दानि स्थविरो पृच्छति । आयुष्मं
केच्चिरो ति । आगतस्य आहारे चच्चिरो एवच्चिरो च सो आह आयुष्मन् एवच्चिरो
तव आगतस्य न च मे पादवन्दको उपसंक्रमसि । सो दान् आह । वन्दिता
मया तव पादा त्वं च मम न प्रतिसंमोदेसि । सो दान् आह । कदा वा
किम् वा । सो दान् आह । अमुकं दिव(27अ6)सं त्वं अमुकेन भिक्षुणा
सार्द्धं वाचं(चो)वाचिं करोषि । तदा तव मया पादा वन्दिता सो दानि
आह आयुष्मन् वाचोवाचिं करेन्तस्य पादां वन्दसि । सो दानि आह । एवं च
यं त्वं मम पादां वन्दिन्तस्य न प्रतिसंमोदेसि । ते दानि विवदिताः ।
भगवतो मूलं गताः ।
भगवान् आह । नायं ताव क्षमति । आगन्तुकेन नेवासि(ज्.124)कस्य
वाचोवाचिं करेन्तस्य पादां वन्दितुं । नापि क्षमति पादेहि
व(27अ7)न्दियमाणेहि न प्रतिसंमोदितुं । तेन हि एवं पादा वन्दितव्याः ।
एवं प्रतिसंमोदितव्यं । किन् ति दानि एवं पादा वन्दितव्या । एवं
प्रतिसंमोदितव्यं । एषो दानि भिक्षु आगन्तुको आगतो भवति । तस्य कोचि
भिक्षु परिज्ञातको भवति । सो च अपरेण भिक्षुणा सार्द्धम् वाचोवाचिं
करोति । नापि क्षमति तस्य तं वेलं पादां वन्दितुं उश्वास(च्चार)म् वा
उपविष्टो भवति न क्षमति । तं वेलं पादां (27ब्1) वन्दितुं । एवं
प्रश्वास(स्राव)ं करेन्तस्य दन्तकाष्ठं खादन्तस्य स्नायति वा
एकनिवसनो वा भवति । भक्तकृत्यं करोति । पुरेभक्तिकम् वा करोति ।
द्विभूमिकम् वा उक्कस(म)ति त्वरितं वा अति(भि)क्रमति न क्षमति तं
वेलं तस्य पादां वन्दितुं, । न क्षमति मृत्तिकाकर्म्म करेन्तस्य ॥
पे ॥ पात्रपाकं ददन्तस्य चीवरं धोवन्तस्य रजनिका पठन्तस्य
चीवराणि सीवन्तस्य (इ.प्.120) रंजेन्त(27ब्2)स्य च्च(चे)ल्लपरिकर्म्मम् वा
करेन्तस्य पादां धोवन्तस्य हस्ता निर्म्मादन्तस्य चेतियं वन्दन्तस्य
पात्रं निर्म्मादेन्तस्य धूपम् वा पिबन्तस्य अक्षिणि वा अञ्जन्तस्य
पुस्तकं वाचन्तस्य पुस्तकं लिखन्तस्य वर्च्चकुटीं गच्छन्तस्य
नग्नस्य वा (ज्.125) एकनिवसनकेन वा । अथ खलु यं कालं
समवस्थाये निषण्णो भवति तं वेलं अलीयाणं शीर्षेण पादां
वन्दितव्या । कर्कटग्रा(27ब्3)हिकाये वन्दितव्या । अन्धकारे वा उद्देशं
देन्तस्य उद्दिशन्तस्य वा निवासन्तस्य वा चीवरं प्रावरन्तस्य त्वरितं
वा गच्छन्तस्य न क्षमति । ओगुण्ठितकायेन न क्षमति । ओहितहस्तेन
न क्षमति । उपानहारूढेन सामीचीकरेन्तेन न क्षमति । जानुकेन वा
जंघाहि वा वन्दितुं । अथ खलु पादा वन्दितव्या । पादां
व(27ब्4)न्दन्तेन जानितव्यं । यदि कस्यचि व्रणा भवति । गण्डो वा पिटको
वा न दानि सहसा उप्पीडितव्यं । अथ खलु तथा वन्दितव्यं । यथा न
दुःखापिये पादेहि वन्दयन्तेहि । न दानि मेण्ढेन विय आसितव्यं
पादेहि वन्दयंतेहि । अथ खलु प्रतिसंमोदयितव्यं । स्वागतम्
आयुष्मन्तो अनुरागतम् आयुष्मन्तो मासि श्रान्तो मा(27ब्5)सि क्लान्तो पादां
प्रक्षालेहि हस्तां निर्म्मादेहि विश्रमाहि यदि ताव पुरेभक्ते आगतो
भवति । पुरोभक्तिकेन च्छन्दयितव्यो । देशकाले आगतो भवति ।
भक्तकृत्येन च्छ(न्द)यितव्यो विकाले आगतो भवति । वेकालिकेन
च्छन्दयितव्यो । यदि तावद् वस्तुकामो भवति । पात्रचीवरं
प्रतिसामयितव्यं विहारको उद्दिशितव्यो (27ब्6) अथ दानि गन्तुकामो
भवति । आह । अन्यत्र गमिष्यन् ति । वक्तव्यं । गच्छाहि त्ति एवं पादा
वन्दितव्या । एवं प्रतिसंमोदितव्यं न प्रतिपद्यति ॥ आभिसमाचारिकान्
धर्म्मान् अतिक्रामति ॥ * ॥
इव्.5 म्स्.27ब्6 (ज्.126.1); छ्.510ब्28
(ज्.126) भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा ते दानि
आयुष्मन्तो षड्वर्ग्गिकाः । गृहि-आलापेन आलापेन्ति अम्बे अत्ते भाव भट्ट
तात हंघो हे हे हो (27ब्7) किं, भणसीति । एतं प्रकरणं भिक्षू
भगवतो (इ.प्.121) आरोचयेंसु । भगवान् आह । शब्दापयथ
षड्वर्ग्गिकां ते दानि शब्दाविताः । भगवान् आह । सत्यं भिक्षव
षड्वर्ग्गिकाः । एवं नाम यूयं गृही-आलो(ला)पेन आलापयथ ।
आम्ब(अम्बे) अत्ते भाव भट्ट तात अहंघो हे हे हो किं भणसि त्ति ।
आहंसु । आम भगवन्
भगवान् आह । एवं यूयं गृहि-आलापेन आलपेथ । ते(28अ1)न हि न
क्षमति गृहि-आलापेन आलपितुं तेन हि प्रतिसंमोदितव्यं । आयुष्मान् दानि
उपाली कालज्ञो वेलज्ञो समयज्ञो भगवन्तम् उपसंक्रमिय पृच्छति ।
कथं भगवं नवकेहि भिक्षूहि स्थविरा भिक्षू आलपितव्या । भगवान्
आह । आलपे(ये) ति वा भन्ते ति वा आयुष्मन्ते ति स्थविरो दानि भगवन्तं
पृच्छति कथं भगवां स्थविरेहि भिक्षूहि नवका भिक्षू (28अ2) (ज्.127)
आलपितव्या । भगवान् आह । नामेन वा गोत्रेण वा । वर्षाग्रेण वा एषो
दानि भिक्षुस्य उपाध्यायो वा आचार्यो वा शब्दापयति । नायं क्षमति ।
गृहि-आलपेन आलपितुं । हंघो हे हे त्ति । अथ खलु नामेन वा गोत्रेण
वा शब्दापयितव्यो । तेनापि न क्षमति । गृहि-आलपेन व्याहर्त्तुं, । हा किं
भणसीति । अथ खलु वक्तव्यं वन्दामि उपाध्यायं वा । (28अ3)
आचार्यम् वा किं आणपेहि त्ति । किं करेमि त्ति । वृद्धतरको शब्दापयति ।
नायं क्षमति हा न्ति(त्ति) प्रव्याहरितुं । अथ खलु वक्तव्यं । आर्ये वा
भन्ते वा आयुष्मन् ति वा किं अ(आ)णपेसी न्ति(त्ति) किं करेमि । एषो भिक्षु
मातरं पितरं वा भगिनीम् वा शब्दापयितुकामो भवति नायं क्षमति
शब्दापयितुं । अम्बे त्ति वा अत्ते ति वा भट्टे ति वा । अथ ख(28अ4)लु
सालोहिते ति वा शब्दापयितव्याः । अथ दानि भिक्षुस्य पिता वा भगिनी वा
शब्दापयति । नायं क्षमति हा किं भणसि त्ति प्रव्याहर्त्तुं । अथ खलु
वक्तव्यं । सालोहिते किं आणपेसि किं करेमि । एषो भिक्षुः । उपासकां, वा
दानपतीना(नी)ं वा विहारस्वामिनीं वा शब्दापितुकामो भवति । नापि
क्षमति । अम्बे ति वा अत्ते ति वा भट्टे (28अ5) ति वा । अथ खलु उपासके त्ति
वा दानपत्ति ति (ज्.128) वा विहारस्वामिनि ति वा शब्दापयितव्यं । भिक्षू
वा उपासकम् वा दानपतिम् वा शब्दापयितुकामो (इ.प्.122) भवति । नापि
क्षमति भावे त्ति वा भट्टे ति वा । आयुष्मं त्ति वा । अथ खलु दानपत्ति
ति(ति त्ति) वा भिक्षू वा तेहि शब्दापयति । नायं क्षमति । हा किं भणसि ति
व्याहर्त्तुं, । अथ खलु वक्तव्यं । सा(28अ6)लोहित किं आणपेसि । किं करोमि
त्ति । ते एते(न) गृहि-आलापेन आलपन्ति वा । प्रव्याहरन्ति वा ।
विनयातिक्रमं आसादयति । स्त्री वा पुरुषो वा महन्तो भवति । न दानि
मातापितृकंठेन आलपितव्या महल्लको महल्लकेति वा वक्तव्या । अथ
दानि कोचि पृच्छति । को ते उपाध्यायो को ते आचार्यो वा न दानि वक्तव्यं ।
असुको आचार्यो असुको (28अ7) उपाध्यायो । अथ खलु वक्तव्यं । अर्थहेतोर्
न्नामं गृह्नामि । असुको मे उपाध्यायो असुको मे आचार्यो आलपितव्यं, ।
एवं प्रव्याहर्त्तव्या(व्यं ।) न प्रतिपद्यति । आभिसमाचारिकान्
धर्म्मान् अतिक्रामति ॥ * ॥
इव्.6 म्स्.28अ7 (ज्.128.14); छ्.510च्19
भगवान् श्रावस्त्यां विहरति । विस्तरेण निदानं कृत्वा क्षत्रियपर्षा
दानि सन्निपतिता कार्याणि करिष्याम न्ति(त्ति) ते दानि आयुष्मन्तो
नन्दनोपनन्द(28ब्1)ना आगच्छिय तेषां मध्ये निषण्णाः । ते दानि । तेहि
निषण्णेहि न पारेन्ति कार्याणि कर्त्तुं ओध्यायन्ति । पश्यथ भणे वयं
येव सन्निपतिता कर्म्माणि करिष्याम न्ति(त्ति) । इमे पि श्रमणका
आगच्छिय मध्ये निषण्णाः । नष्टं भ्रष्टं कुतो इमेषां श्रामण्यं
भिक्षूहि श्रुतं । (ज्.129) भिक्षू भगवतो आरोचयेंसु । भगवान् आह ।
शब्दापयथ नन्दनोपनन्दनां ते दानि शब्दापिता । भगवान् आह ।
सत्यं भि(28ब्2)क्षवो नन्दनोपनन्दना । एवन् नाम क्षत्रियपर्या(षा)ये
सन्निपतिता कार्याणि करिष्याम न्ति(त्ति) । यूयं दानि गच्छिय । तेषां
मध्ये निषण्णा ते दानि तुम्भेहि निषण्णेहि न पारेन्ति कार्याणि कर्त्तुं, ।
ते दानि ओध्यायन्ति । पश्यथ भणे वयं येव ताव निषण्णा कार्याणि
कारय न्ति(त्ति) । इमे पि श्रमणका गच्छियाणं मध्ये निषण्णा नष्टं
भ्रष्टं कुतो इमेषां श्रामण्यं आहंसु । आम । (28ब्3) भगवन्
(इ.प्.123) भगवान् आह । तेन हि एवं क्षत्रियपर्या(षा)ये किञ्चि कार्यं
भवति । न क्षमति गतागतस्य । उपसंक्रमितुं । अथ खलु ये तहिं
वृद्धतरका क्षत्रिया भवन्ति । ते ताव अल्लिपितव्या वक्तव्यं । दीर्घायु
क्षत्रियपर्या(षा)ये इमं च कार्यं अल्लीयामि त्ति । यदि ताव ते जल्पन्ति
भन्ते मा अल्लीपथ न्ति(त्ति) न क्षमति अल्लीपितुं, । अथ (28ब्4) दानि
जल्पन्ति । अल्लीपथ न्ति(त्ति) । अल्लीपितव्यं । नापि क्षमति । च्छत्रेण
धार्यन्ते उपानहांहि वा ओबद्धाहि क्षत्रियपर्या(षा)यम्
उपसंक्रमितुं । अथ खलु एकान्ते च्छत्रं निक्षिपिय उपानहायो मुंचिय
(ज्.130) ततो अल्लीपितव्यं । नापि दानि दर्शनोपचारे निक्षिपितव्यं । अथ
खलु प्रतिकृत्येव निक्षिपितव्यं । दर्शनपथे उपसंक्रमि(28ब्5)त्वा न
दानि वक्तव्यं । सुखम् भवन्तो सुखं मार्ष अथ खलु आरोग्यापिय
यादृशं आसनं दीयति । तादृशे आसने उपविशितव्यं नापि क्षमति । आसने
क्षिपा(या)धर्म्मम् आपद्यितुं । नापि क्षमति । ते निन्दितुं । ये क्षत्रिया
कुशला भवन्ति प्राग् एव ते नैरयिका भवन्तीति । अथ खलु वक्तव्यं ।
क्षत्रिया नाम यूयं अग्रो वर्ण्णो ज्येष्ठो वर्ण्णो (28ब्6) द्विहि कुलेहि
तथागता अर्हन्तः सम्यक्सम्बुद्धाः । उत्पद्यन्ति । क्षत्रियकुले वा
ब्राह्मणकुले वा । दुवे चक्राणि धर्म्मचक्रं बलचक्रं च । तवाहं
हितोपसंहारेण रक्षावरणगुप्तिये सुखं च पय(फा)सुखञ् च
विहरामि । कार्यङ् कृत्वा उत्थायासनातो गन्तव्यं । एवं क्षत्रियपर्षा
उपसंक्रमितव्या न प्रतिपद्यति । आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
इव्.7 म्स्.28ब्7 (ज्.130.13); छ्.511अ4
(28ब्7) भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा
ब्राह्मणपर्या(षा) दानि सन्निपतिता कार्याणि करिष्यामो ति । ते दानि
आयुष्मन्तो नन्दनोपनन्दना आगच्छियाणं मध्ये निषण्णा ते दानि तेहि
निषण्णेहि न पारेन्ति । कार्याणि कर्त्तुं, । ते दानि ओध्यायन्ति । वयं
येच(व) ताव निषण्णा कार्याणि करिष्याम न्ति(त्ति) । इमे पि श्रमणका
आगच्छियाणं मध्ये निष(29अ1)(ज्.131)ण्णा नष्टं भ्रष्टं कुतो इमेषां
श्रामण्यं । एतं (इ.प्.124) प्रकरणं भिक्षूहि श्रुतं । भिक्षू भगवतो
आरोचयेंसु । भगवान् आह । शब्दापयथ नन्दनोपनन्दां ते दानि
शब्दापिता । भगवान् आह । सत्यं भिक्षवो नन्दनोपनन्दना । एवं
नाम ब्राह्मणपर्षा सन्निपतिता कार्याणि करिष्याम न्ति(त्ति) । यूयं दानि
तेषां गच्छियाणं मध्ये निषण्णा ते दानि तुम्भेहि निषण्णेहि न
पारे(29अ2)न्ति कार्याणि कर्त्तुं, । ते दानि ओध्यायन्ति । पश्यथ भणे वयं
येव ताव निषण्णा कार्याणि करिष्यामो ति । इमे पि श्रमणका आगच्छियाण
मध्ये निषण्णका । नष्टं भ्रष्टं कुतो इमेषां श्रामण्यं । आहंसु ।
आम । भगवन
भगवान् आह । सम्यग् भिक्षवो जनो ओध्यायन्ति तेन हि एवं
ब्राह्मणपर्षा उपसंक्रमितव्या । किन् ति दानि ब्राह्मणपर्षा
उपसंक्रमितव्या ॥ एतं दानि भिक्षुस्य किं(29अ3)चि ब्राह्मणपर्षायां
कार्यं भवति । नायं क्षमति । गतागतस्य ब्राह्मणपर्षाम्
उपसंक्रमितुं । अथ खलु ये तहिं ब्राह्मणमहत्तरका भवन्ति । ते
प्रतिकृत्येव उपसंक्रमितव्या । दीर्घायु अस्ति मे किञ्चिद्
ब्राह्मणपर्षायां कार्यं अल्लीयाम न्ति(त्ति) । यदि ताव जल्पन्ति । भन्ते
मा अल्लीयथ न्ति(त्ति) । न क्षमति । अल्लीपितुं । अथ दानि जल्पन्ति अल्लीपथ
न्ति(त्ति) ततो अल्लीपि(29अ4)तव्यं । नापि दानि क्षमति । च्छत्रेण वा
धार्यन्तेन उपानहाहि आबद्धाहि ब्राह्मणपर्षा आल्लीपितुं । अथ
ख(लु) च्छत्रोपानहां एकमन्ते स्थपिय ब्राह्मणपर्षायाम्
उपसंक्रमितव्यं । नापि दानि दर्शणोपचारे निक्षिपितव्यं । अथ खलु
प्रतिकृत्येव (ज्.132) निक्षिपितव्यं । दर्शनपथे उपसंक्रमित्वा न दानि
वक्तव्यं । सुखं भवन्तो सुखं मा(29अ5)र्ष अथ खलु
आरोग्यापयि(पिय) त्वा(या)दृशं आसनं लभ्यति तादृशे आसने
उपविशितव्यं । नायं क्षमति । आसने क्षीयाधर्म्मम् आपद्यितुं । अथ
खलु ता(या)दृशं आसनं दीयति । तादृशे उपविशितव्यं । नापि क्षमति ते
निन्दितुं । माणवकस्य मानहतस्य इहलोके भूतस्य कुक्कुटो शूकरो
श्वानो शृगालो पञ्चमो मूष(29अ6)को निरयो षष्ठो न्ति(त्ति) । अथ खलु
वक्तव्यं । ब्राह्मण नाम यूयं अग्रो वर्ण्णो ज्येष्ठो वर्ण्णो श्रेष्ठो
वर्ण्णो द्विहि कुलेहि तथागता अर्हन्तः सम्यक्सम्बुद्धाः । लोके
उत्पद्यन्ति । क्षत्रियकुले वा ब्राह्मणकुले (इ.प्.125) वा एवं कार्यं करिय
गन्तव्यं । एवं ब्राह्मणपर्षाये प्रतिपद्यितव्यं । न प्रतिपद्यति ।
आभिसमाचारिकान् धर्म्मान् अतिक्रामति ॥ * ॥
इव्.8 म्स्.29अ6 (ज्.132.12); छ्.511अ16
भगवान् श्रावस्त्याम् वि(29अ7)हरति गृहपतिपर्षा दानि सन्निपतिता ।
कार्याणि करिष्याम न्ति(त्ति) । आयुष्मन्तो नन्दनोपनन्दना आगच्छिय
तेषां मध्ये निषण्णा । ते दानि तेहि निषण्णेहि न पारेन्ति कार्याणि
कर्त्तुं । ते दानि ओध्यायन्ति । पस्यथ भणे वयं ये(व) ताव सन्निपतिता
कार्याणि करिष्याम न्ति(त्ति) । इमे पि श्रमणका मध्ये आगच्छियाणं
निषण्णाः । नष्टं भ्रष्टं कुतो इमेषां श्रामण्यं । एतं (29ब्1)
प्रकरणं भिक्षूहि श्रुतं भिकू भगवतो आरोचयेंसु । भगवान् आह ।
शब्दापयथ नन्दनोपनन्दा(द)नां । ते दानि शब्दापिताः । भगवान्
आह । सत्यं भिक्षवो नन्दनोपनन्दा(द)नां । एवं नाम गृहपतिपर्षा
सन्निपतिता कार्याणि करिष्या(ज्.133)म न्ति(त्ति) । एतद् एव सर्व्वं भगवां
विस्तरेण प्रत्यारोचयति । यावत् पश्यथ भणे वयं येव ताव सन्निपतिता
कर्म्माणि कर(रि)ष्याम (29ब्2) न्ति(त्ति) । इमे पि श्रमणका आगच्छिय
मध्ये निषण्णा नष्टं भ्रष्टं । कुतो इमेषां श्रामण्यं आहंसु ।
आम भगवन्
भगवान् आह । तेन हि एवं गृहपतिपर्षा उपसंक्रमितव्या । किन् ति
दानि गृहपतिपर्षा उपसंक्रमितव्या । एतं दानि भिक्षुस्य
गृहपतिपर्षायां किञ्चित् कार्यम् भवति । न क्षमति । गतागतस्य
आल्लीपितुं । अथ खलु ये तत्र गृहपतिमहत्तरकाः भवन्ति । (29ब्3) ते
प्रकृत्येव ते(ता)(व) प्रतिसरितव्या । वक्तव्यं । दीर्घायु अस्ति किञ्चि
गृहपतिपर्षायां कार्यं । अल्लीयाम मा आल्लीयामो न्ति(त्ति) । यदि ताव
जल्पन्ति । भन्ते मा आल्लीपथ न्ति(त्ति) । न क्षमति आल्लीपितुं । अथ दानि
जल्पति । आल्लीपथ न्ति(त्ति) । अल्लीपितव्यम् । नापि क्षमति च्छत्रेण
धार्यन्तेन उपानहाहि आबद्धाहि गृहपतिपर्षा उपसंक्रमितुं । अथ
खलु एकत(29ब्4)मन्ते च्छत्रोपानहां निक्षिपिय गृहपतिपर्षा
उपसंक्रमितव्या । नापि दर्शनोपचारे निक्षिपितव्यं । अथ खलु
प्रकृत्येव निक्षिपितव्यं । दर्शनपथे उपसंक्रमित्वा न (इ.प्.126) दानि
वक्तव्यं । सुखं भवन्तो सुखं मार्ष । अथ खलु आरोग्यापिय
यादृशं आसनं लभ्यते तादृशे आसने उपविशितव्यं । (ज्.134) नापि दानि
क्षमति । कुत्सितुम् वा पन्सितुम् वा गृ(29ब्5)हपतिका नाम यूयं
तुलाकूटमानकूटेहि दिवसं लोकं मुषंता आसथ । अथ खलु
वक्तव्यं, ।
सागरा च अनगारा च उभे अन्योन्यनिश्रिता
आरागयन्ति । सद्धर्म्मं सम्यक्सम्बुद्धं देशितं ॥
सागाराष्ट्रं नगाराणां संप्रयच्छन्ति दक्षिणां ।
अनागारा प्रगृह्नन्ति । प्रतिसंयम्य विनोदना ।
अमिषचक्रं निश्राय धर्म्मचक्रं प्रवर्त्ततीति ॥
उक्तं चेदं भग(व)ता (29ब्6) बहुकरा भिक्षवो ब्राह्मणगृहपतयो ।
यं वो प्रत्युपस्थिता ।
चीवरपिण्डपातशेय्यासनग्लानप्रत्ययभैषज्यपरिष्कारेहि तेहि यूयं
निश्राय तथागते ब्रह्मचर्यं चरथा महतो ओघस्य निःसरणार्थं
सर्व्वे इति प्रवृत्तका कर्त्तव्या । एवं कार्यं करिय गन्तव्यं । एवं
गृहपतियथा(पर्षा) उपसंक्रमितव्या न प्रतिपद्यति । आभिसमाचारिकान्
धर्म्मान् अतिक्रामति ॥ * ॥
इव्.9 म्स्.29ब्6 (ज्.135.1); छ्.511अ25
(ज्.135) भगवान् श्रावस्त्यां वि(29ब्7)हरति तीर्थिकपर्या(षा) दानि
सन्निपतिता कार्याणि करिष्याम न्ति(त्ति) । ते दानि आयुष्मन्तो
नन्दनोपनन्दना तेषां गच्छियाणं मध्ये निषण्णाः । ते दानि तेहि
निषण्णेहि न पारेन्ति कार्याणि कर्त्तुं, । ते दानि ओध्यायन्ति । पश्यथ
भणे च(व)यं येवं ताव सन्निपतिता कार्याणि करिष्यामो ति । इमे पि
श्रमणका आगच्छिय मध्ये निषण्णा । नष्टं भ्रष्टं कुतो इमेषां
श्रामण्यं । (30अ1) एतं प्रकरणं भिक्षूहि श्रुतं । भिक्षू भगवतो
आरोचयेंसु । भगवान् आह । शब्दापयथ नन्दनोपनन्दनां । ते दानि
शब्दापिता । भगवान् आह । सत्यं भिक्षवो नन्दनोपनदना एवं
नाम । तीर्थिकपर्षा सन्निपतिता (इ.प्.127) कार्याणि करिष्यामो न्ति(त्ति) ।
यूयं दाणि गच्छियाण तेषां मध्ये निषण्णा । तद् एव सर्व्वं भगवां
विस्तरेण प्रत्यारोचयति । नष्टं भ्रष्टं कुतो इमेषां (30अ2) श्रामण्यं
आहंसु । आम भगवन्
भगवान् आह । तेन हि एवं तीर्थिकपर्षा उपसंक्रमितव्या । एतं दानि
भिक्षुस्य किंचि तीर्थिकपर्षाये कार्यम् भवति । नायं क्षमति ।
भिक्षुणा गतागातस्य तीर्थिकपर्षा उपसंक्रमितुं । अथ खलु
प्रतिकृत्येव ताव वृद्धतरका प्रतिसरितव्या । वक्तव्यं आयुष्मं अस्ति मे
किञ्चि तीर्थिकपर्षाये कार्यं आल्लीपाम मा आल्ली[या]मोथ न्ति(त्ति) । यदि
(30अ3) ताव जल्पन्ति । मा आल्ली(ज्.136)पथ न्ति(त्ति) । न क्षमति अल्लीपितुं ।
अथ दानि जल्पन्ति । अल्लीपथ न्ति(त्ति) । उपसंक्रमितव्यं । याव न दानि
क्षमति । आसने क्षिपा(या)धर्म्मम् आपद्यितुं, । अथ खलु यादृशं
(आसनं) लभ्यते । तादृशो उपविशितव्यं । नापि क्षमति । कुत्सितुम् वा
पंसितुम् वा अश्राद्धा तीर्थिकाः । अह्रीका तीर्थिकाः । अनोत्रापिनो
तीर्थिकाः । मिथ्यादृ(30अ4)ष्टिका तीर्थिकाः । कुसिदा हीनावीर्या
तीर्थिकाः । दुःप्रज्ञा तीर्थिकाः । अथ खलु एवं वक्तव्यं ।
सर्व्वाश्रामिणानोपवादे कदाचि त्रैविद्यप्राप्ताः बहुश्रुता यस्य
प्रशंसा तम् अनुप्रशंशे तेषां गुणम् एव वदेन दोषन्ति । वक्तव्यं ।
दुष्करं गृहिलिङ्गापरित्यागो दुष्करं वस्तिसंयमो दुष्करम् अरण्यवासो
एवं कार्यं करिय गन्तव्यं । एवं, (30अ5) तीर्थिकपर्षा
उपसंक्रमितव्या न प्रतिपद्यति । आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
इव्.10 म्स्.30अ5 (ज्.136.12); छ्.511ब्3
भगवान् श्रावस्त्याम् विहरति । एतं दानि भिक्षुस्य आर्यपर्या(षा)ये
कार्यम् भवति । नायं क्षमति । गतागतस्य वृद्धान्तम् उक्कसितुं ।
अथ खलु प्रकृत्येव ताव उपाध्यायो वा आचार्यो वा आमन्त्रयितव्यो
वक्तव्यं । उपाध्यायाचार्या संघस्य म(30अ6)ध्यं मे किञ्चित् कार्यं
(ज्.137) आल्लीयामि । मा अल्लीयामि त्ति । उपाध्यायेन वा आचार्येण वा
जानितव्यं । यदि ताव सो भवति । उस्रेणको वा प्रवर्द्धको वा
अनर्थक(कु)शलो वा । (इ.प्.128) अभिनीहारकुशलो वा कलहकारको वा
भण्डनकारको वा भाष्यकारको वा । अधिकरणिको वा वक्तव्यं । मा
अल्लीयाहि त्ति । अथ दानि सो भवति । भद्रको गुणवान् । अनुद्धतो
शिक्षा(30अ7)कामो अनुकूलो अनुन्नडो अचपलो पृच्छितव्यो किं कार्यं, ।
आह । असुकम् वा असुकम् वा तेन जानितव्यं । यदि ताव तस्य दुग्रहो वा
वक्तव्यं । मा अल्लीय अथ दानि तस्य संग्रहो भवति वक्तव्यं । आल्लीय
न्ति(त्ति) । अल्लीपितव्यं । अल्लीय वृद्धान्तातो प्रभृति सर्व्वेषां प्रणामो
कर्त्तव्या । या वृद्धतरका यावद् वृद्धान्तं उक्कसियाणं
संघस्थविरो पृच्छितव्यो । अ(30ब्1)सुकं मे कार्यं जल्पामि त्ति ।
मूल पाठ: Abhisamācārikadharma · Data entry Abhisamacarika-Dharma Study Group, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0