भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमाचारिकधर्म · भाग 2140

भगवान् आह । एवं च यूयं अप्रत्यास्तरणका शय्यासनं
परिभुंजथ । तेन हि एवं शय्यासने प्रतिपद्यितव्यं । किन् ति दानि (एवं)
शय्यासने प्रतिपद्यितव्यं । न दानि क्षमति सांघिकं शय्यासनं
अध्युपेक्षितुं । उत्पादकम् वा उ(दु)त्थितकम् वा प्राणकेहि वा खज्जन्तं
वर्षेण (वा) ओवर्षपर्यन्तम् वातातपेन वा विनाशियन्तं पक्षीहि
था(वा) ओह्(अय्)इयन्तं । अथ खलु यदि ता(10ब्6)व उज्झितप्रकीर्ण्णं
भवति । साहरित्वा एकान्ते स्थापयितव्यं । उत्पादकं भवति । सम्(अं
(इ.प्.71) थ्)आपेतव्यं । वर्षेण ओवर्षीयति वातातपेन चा(वा) विनाशीयति ।
च्छन्ने प्रविशयितव्यं । प्राणकेहि खाद्यति । पक्षीहि ओहपि(यि)यन्ते
प्रस्फोटियान च्छन्ने प्रवेशयितव्यं । न दानि विहारो अध्युपेक्षितव्यो ।
ओद्दिर्ण्णको प्रलुग्गको अचौक्षो वा अप्रतिसंस्कृतो वा ॥ अथ खलु यदि
ताव तृणच्छदनो भवति । तृ(10ब्7)णपूलको दातव्यो । अपक्कच्छदनो
भवति । अपक्का दातव्या । (ज्.46) कभल्लच्छदनो भवति कभल्लिका
दातव्या । सुधामृत्तिकाच्छदनो भवति मृत्पिण्डो दातव्यो । वर्षाय
ओवृष्टो भवति विख(चिक्ख)ल्लिका ओपूरे(त)व्या वंघोरिका दातव्या
गोमयशाटो दातव्यो न दानि क्षमति । सांघिकं शय्यासनं एवम् एव
परिभुञ्जितं(तुं) । अप्रत्यास्तरणं वा तृणं वा तृणं वा अन्तराकृत्वा
लेङ्कटकं वा अथ खलु प्र(11अ1)त्यास्तरणं कर्त्तव्यं । नापि क्षमति
कल्पं कर्त्तुं । पटिकाम् वा लोड्ढकम् वा प्रत्यास्तरणं कर्त्तुं । अथ
खलु द्विगुणिता नाम कर्त्तव्या विशिष्टा मञ्चातो वा यदि ताव
कम्बलस्य भवति । एकपुटं वा द्विपुटम् वा कर्त्तव्यं । अथ दानि
कर्पासस्य भवति द्विपुटा वा त्रिपुटा वा कर्त्तव्यो समन्तेन सूत्रेण
शिवियाणं । ततो मध्येण दीर्घसूत्राणि दातव्यानि ततो न क्षमति ।
शय्यासनं ओमयिलोमयिलं वा पाटितविपाटितम् वा अध्यु(11अ2)पेक्षितुं ।
अथ खलु कालेन कालं बोधि(धोवि)तव्यं । कालेन कालं शिंचितव्यं ।
कालेन कालं आतपे दातव्यं । न क्षमति सांघिकेन शय्यासनेन
प्रावृतेन भक्ताग्रे वा तर्पणाग्रे वा सामायिकम् वा उपविशितुं । न
क्षमति शय्यासनं सांघिकं प्रावरियं दीर्घच(ं)क्रमं
चंक्रमितुं ॥ अथ दानि भिक्षुः शिराविद्धको वा भवति विरेचनपीतको
वा ग्लानको वा भवति वस्त्रपुग्गलिकं अन्तरीकरणं ददि(11अ3)य
चंक्रमति । अनापत्तिः । नापि क्षमति सांघिकं शय्यासनं
पौद्गलिकपरिभोगेन परिभुञ्जितुं । अथ खलु सांघिकं शय्यासनं
प्रज्ञपयितव्यं । (ज्.47) प्रत्यास्तरणं ददिय ततो परिभुञ्जितव्यं । अथ
दानि सांघिकं शयनासनं महन्तं भवति । उपरितो भुंजितव्यं
(इ.प्.72) यथा नाशं न गच्छे । अथ दानि हेमन्तकालो भवति सांघिकं
शय्यासनं प्रावरिय शयति । (11अ4) अन्तरीकरण(ं) दातव्यं । न देति
विनयातिक्रमम् आसादयति । एवं शय्यासनं(ने) प्रतिपद्यितव्यं । न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
इइ.2 म्स्. 11अ4 (ज्.47.6); छ्.502च्13
भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च

विस्तरेण निदानं कृत्वा ते दानि भिक्षू उपगच्छनिका(यां) काले विहारन्
न प्रतिसंस्करेन्ति । पञ्चार्थवशां संपश्यमानांस् तथागता
अर्ह(11अ5)न्तः सम्यक्संबुद्धाः पञ्चाहिकां विहारचारिकाम्
अनुचंक्रमन्ति । अनुविचरन्ति । कतमां पञ्च । कच्चि मे श्रावकाः न
कर्म्मारामाः न कर्म्मरताः । न कर्म्मारामता-अनुत्या(यो)गम्
अनुयुक्ता विहरन्ति न भाष्यारामाः । न भाष्यरताः न
भाष्यारामतानुयोगम् अनुयुक्ता विहरन्ति । न निद्रारामाः न
निद्रारताः न निद्रारामतानुयोगम् अनुयुक्ता विहरन्ति ।
ग्लानका(11अ6)नाञ् च भिक्षूणाम् अनुकम्पार्थं ये च ते श्राद्धाः
कुलपुत्राः तथागतम् एवोद्दिश्य आगाराद् अनगारिकां प्रव्रजिताः । ते च
तथागतं दृष्ट्वा अतिरि(ती)वोदाराणि प्रीतिप्रामोद्यानि प्रतिलभिष्यन्ति ।
इमां पञ्च अर्थवशां संपश्यमानास् तथागता अर्हन्तः
सम्यक्सम्बुद्धाः पञ्चाहिकां विहारचारिकां अनुचंक्रमन्ति ।
अनुविचरन्ति । (ज्.48) अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकां
अनुचंक्रमन्तो अनुवि(11अ7)चरन्तो विहारकान् ओन्द्रि(द्द्रि)न्नकां
प्रलुग्गकां अचोक्षां अप्रतिसंस्कृतां शय्यासनं उज्झितप्रकीर्ण्णे(र्ण्णं)
ओमयिलेमयिलं पाटितविपाटितं मञ्चाम् पीठा(ं) ओन्द्रि(द्द्रि)ण्णकां
पलुग्गकां उच्छि(दुत्थि)तकां वातातपेन ओपूरियंतां प्राणकेहि
खज्जन्तां वर्ये(षे)ण ओवर्यि(षि)यन्तां काकशकुन्तेहि ओहयियन्तां
भगवान् जानन्तो पृच्छति । कस्येमे भिक्षवो विहारका ओद्रिण्णका
पलुग्गका अचौक्षा अप्रतिसंस्कृता शय्यास(11ब्1)नं उज्झितप्रकीर्ण्णं
ओमयिलोमयिलं पाटितविपाटितं मञ्चा पीठा (इ.प्.73) ओन्द्रि(द्द्रि)ण्णका
पलुग्गकां उ(दु)त्थितकां वातातपेन ओपूरियन्तां प्राणकेहि खज्जन्तां
वर्षेण ओवर्षियन्तां काकशकुन्तेहि ओहयियन्तां भिक्षू आहंसु ॥ इमं
भगवन् संघस्य ये धर्म्मा(वर्षा)ं उपगच्छिष्यन्ति । ते
प्रतिसंस्करिष्यन्ति ।
भगवान् आह । तेन हि एवं वर्षोपनायिके शय्यासने प्रतिपद्यितव्यं ।
किन् ति दानि एवं वर्षोपनामि(यि)के शय्यासने प्र(11ब्2)तिपद्यितव्यं । एषा
दानि संघस्य वर्षोपनामि(यि)का भवति । प्रकृत्यैव ताव
दायकदानपति प्रतिसरितव्या । ततो विहारका प्रतिसंस्कर्त्तव्याः । ये
विहारका उद्दिण्णका पलुग्गका भवन्ति । अचोक्षा वा अप्रतिसंस्कृता वा
भवन्ति । (ज्.49) यदि ताव सुधाच्छदनो भवति । सुधापिण्डो दातव्यो ।
इष्टकाच्छदनो भवति । इष्टका दातव्या । अपक्काच्छदनो भवति ।
अपक्का दातव्या । कभल्ल(11ब्3)च्छदनो भवति । कभल्लिका दातव्या ।
तृणच्छदनो भवति । तृणपूलको दातव्या । मञ्चा वा पीठा वा
ओन्द्रि(द्द्रि)ण्णका पलुग्गकां भवन्ति । मुंजा कर्त्तितव्या । बल्बजा
कर्त्तितव्या मञ्चा ध्र(बु)णितव्या उप्पादका भवन्ति सयेच्छ(मं
त्थ)पयितव्या । दुत्थपिता भवन्ति । सुत्थपिता कर्त्तव्या । वातातपेन
ओत(पू)रियन्ति । काकशकुन्तेहि वा ओहपि(यि)यन्ति । च्छन्ने स्थपितव्या ।
एवं शय्यासनं (11ब्4) भवति । ओमयिलमयिलं पाटितविपाटितं धोविय

सीवितव्यं । मृत्तिकापिण्डो दापयितव्यो । मूषिक-उच्छि(क्कि)रा वा याच(व)
वंघोरिका पूरेतव्या । यं तहिं परिवेणे भवंति । भण्डं नियतकं
सर्व्वं समुदानितव्यं ।
पञ्चेहि अङ्गेहि समन्वागतो भिक्षुः शय्यासनप्रज्ञापक संमुतीये
संमन्यितव्यो । कतमेहि पञ्चहि । यो न च्छन्दाये न दो(11ब्5)षाये न
मोहाये न भयाये प्रज्ञप्तं च जानाति । इमेहि पञ्चहि । पेयालं, ॥
(ज्.50) क(र्)म्मं कृत्वा याव ते दानि समन्तेन आषाढमासं शय्यासनं
ग्राहेतव्यं । विहारा परिवेणा अग्निशाला भक्तशाला । उपस्थानशाला ।
द्वारकोष्ठको वर्च्चकुटी उदुपानो जन्ताको चंक्रमा वृक्षमूला
विहारका (इ.प्.74) ग्राहयितव्या । असुके विहारे एत्तका मञ्च(11ब्6)का
पीठका वा एत्तकं आस्तरणं एत्तकं प्रावरणं ततो लिखितव्यं ।
भुर्जके फलके वा पट्टिकायाम् वा । यदि ताव आरण्यकं शय्यासनं
भवति । दूरे दूरो(रे) परिवेणा भव(ं)ति । त्रयोदशीयं वा
चातुर्द्दशीयं वा तेन शय्यासनोद्देशो कर्त्तव्यो । अथ दानि ग्रामान्तिकं
शय्यासनं भवति । आसन्ने आसन्ने परिवेणा भवन्ति । चातुर्द्दशीयम् वा
पाञ्चदशीयम् वा शय्यासनो(11ब्7)द्देशो कर्त्तव्यो । तं लिखितं
संघस्थविरस्य अल्लीपितव्यं । वक्तव्यं । आयुष्मन् अमुके विहारके
एत्तका मञ्चा एत्तका पीठाः । एत्तकं आस्तरणं एत्तकं प्रावरणं
कतमो तव विहारको रुच्यति । यो संघस्थविरस्य विहारको रुच्यति सो
दातव्यो । अथ दानि संघस्थविरो जल्पति । विहारं यूयं (ज्.51) उद्दिशथ
वर्षावासिकं समं करिष्याम न्ति(त्ति) । यं संघस्थविरो जल्पति । तथा
कर्त्तव्यं, । (12अ1) ततो विहारका उद्दिशितव्याः । वृद्धान्ततो प्रभृति
याव अवर्य(ष)कपर्यन्तं न क्षमति । श्रामणेराणां विहार(रा)
उद्दिशितुं । अथ दानि तेषां उपाध्यायाचार्या जल्पन्ति । उद्दिशथ यूयं
एतेषां वयं प्रतिसंस्करिष्याम न्ति(त्ति) । ततो श्रामणेरकाणां पि
विहारका उद्दिशितव्या । अथ दानि बहुं भवति । ततो द्वितीयकालिका
उद्दिशितव्या । अथ दानि तहि(ं) कोचि भवति । आटक्करसिंहनादिको (12अ2)
पर्याप्तो ग्रीष्मे शय्यासनं उद्दिशितव्यं । गुप्त्यर्थं परिभोगार्थं
उत्थिष्यं उत्थापयिष्यं को विहारको ति । वक्तव्यो न एषो भव किञ्चित
भोगार्थं वदिषन्ति म प्रतिसंस्कारणार्थं एषो चं उद्दिशीयति । अथ
दानि स्तोका विहारका भवन्ति । द्विण्णां त्रयाणां (वा) जनानां एको
विहारको उद्दिशितव्यो । अथ दानि एवं पि स्तोका भवन्ति । चतुर्ण्णां
पञ्चानाम् वा जनानां एको विहा(12अ3)रको उद्दिशितव्यो । अथ दानि
एकवस्तुकं भवति । भिक्षू च बहु(हू) भवंति । वृद्धानाञ् च मञ्चा
प्रज्ञापयितव्याः । नवकानां पीठाः प्रज्ञापयितव्याः । अथ दानि एवं
पि स्तोकं भवति । वृद्धानां पीठाः प्रज्ञापयितव्याः । नवकानां
संस्तरणा (ज्.52) (इ.प्.75) प्रज्ञापयितव्याः । अथ दानि एवं पि स्तोकं
भवति । (अथ दानि) अल्पो(ल्पा)वकाशो भवति । वृद्धेहि संस्तरणे
प्रतिप(12अ4)द्यितव्यं । नवकेहि पर्यन(ङ्के) वीतिनामयितव्यं । अथ
दानि एवं पि अल्पावकाशो भवति । वृद्धेहि च्छन्ने प्रविशितव्यं ।

नवकेहि वृक्षमूलेहि चंक्रमेहि निषद्याहि अभ्यवकाशे
वीतिनामयितव्यं । हेमन्ते शय्यासनं उद्दिशितव्यं, । गुप्त्यर्थं
परिभोगार्थं उत्थिष्यं उत्थापयिष्यं वर्षासु शय्यासनं उद्दिशितव्यं ।
गुप्त्यर्थं परिभोगार्थं उत्था(12अ5)स्यं उत्थापयितव्यं । नापि क्षमति
शय्यासनं अध्युपेक्षितुं ओमयिलोमयिलं पाटितविपाटितं मञ्चा वा
पीठा वा ओद्द्रिण्णका वा पलुग्गका वा अध्युपेक्षितुं । अथ खलु
कालेन कालं शय्यासनं सीवितव्यं । बोधि(धोवि)तव्यं । कालेन कालं
मुञ्जा कर्त्तितव्या । बल्बजा कर्त्तितव्या । ततो मञ्चा च पीठा च
ब्र(बु)णितव्या । एवं वर्षोपनामि(यि)के शय्यासने प्रतिप(12अ6)द्यितव्यं ।
न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
इइ.3 म्स्.12अ6 (ज्.52.15); छ्.503अ24
भगवान् श्रावस्त्याम् विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा याव अद्राक्षीद् भगवां पञ्चाहिकां
विहारचारिकाम् अनुचंक्रमन्तो (ज्.53) अनुविचरन्तो विहारकां ओद्द्रिण्णकां
पलुग्गकां उल्लाय गृहीतकां अचोक्षां अप्रतिसंस्कृतां उदकस्य पूरां
उदकभ्रमाम् अशोधि(त)कां द्वाराहि (12अ7) द्वीपिकाहि खज्जन्तो मञ्चां
पीठां ओन्द्रि(द्द्रि)ण्णकाणां पलुग्गकां उ(दु)त्थितकां वर्षेण
(ओ)वर्षियन्तां प्राणकेहि खज्जन्तां भगवान जानन्तो पृच्छति । किं
इमं भिक्षवो विहारका उल्लग्गका ओल्लाये गृहीतकाः । अचौक्षा
अप्रतिसंस्कृता उदकस्य पूरां उदकभ्रमा अशोधितका द्वा(रे)
द्वीपिकाहि खज्जन्ता मञ्चा पीठा ओन्द्रि(द्द्रि)ण्णकां पलुग्गकां
उत्पादकां उ(दु)त्थितकां वर्षेण ओ(12ब्1)वर्षियन्तां प्राणकेहि
खज्जन्ता(ं) भिक्षू आहंसुः । ये भगवान् (इ.प्.76) अर्षां वसिष्यन्ति ते
प्रतिसंस्करिष्यन्ति ।
भगवान् आह । तेन हि एवं वर्षोपगतेहि शय्यासने प्रतिपद्यितव्यं ।
किन् ति दानि एवं वर्षोपगतेहि शय्यासने प्रतिपद्यितव्यं । एते दानि
भिक्षवो वर्षोपगता भवन्ति । तेन हि विहारका प्रत्यवेक्षितव्या । यदि
ताव ओन्द्रि(द्द्रि)ण्णका वा पलुग्गका वा भवन्ति । यावत् मूषिकोक्कारा वा
चिक्खल्लिका वा प्र(12ब्2)तिसंस्कारयितव्या । यदि ताव विहारको
सुधाच्छदनो भवति (सुधापिण्डो दातव्यो) । इष्टकाच्छदनो भवति ।
इष्टका दातव्या । (ज्.54) अपक्वच्छदनो भवति । अपक्वा दातव्या ।
कभल्लच्छदनो भवति (कभल्लिका दातव्या । तृणच्छदनो भवति) ।
तृणपूलको दातव्यो । उर्ण्णा(ल्ला)ये गृहीतको भवति । पिण्डं शाटिय
मृत्तिकाये लिम्पितव्यो । मूष-उक्कारा विलिख्खि(चिक्खलि)का पूरेतव्या ।
यदि ताव उप्पेडनको विहारको भवति । शक्कारोटेन वा पूरेतव्या
उ(अ)प(12ब्3)क्वपांसुकेन वा । अथ दानि उप्पंसुलो भवति । गोमयकार्षी
दातव्या । उदकभ्रमा वा । प्रणालिभ्रमा वा परिपूरिता भवन्ति
शोधयितव्याः । मुण्डहर्म्मिया प्रतिसंस्कर्त्तव्या । शय्यासनं
ओमयिलोमयिलं भवति । पाटितविपाटितं धोवयितव्यं । रञ्जेतव्यं ।
मञ्चा वा पीठा वा भग्नका भवन्ति । छिन्नगण्ठिका कर्त्तव्या ।

ओन्द्रि(द्द्रि)ण्णका वा पलुग्गका भवन्ति । मु(12ब्4)ञ्जा कर्त्तितव्या । मञ्चा
ब्र(बु)णितव्या । पीठिका ब्र(बु)णितव्या । उप्पादका भवन्ति समं
थापेयितव्या । उ(दु)त्थितका भवन्ति । सुत्थिता थपेतव्या । वातातपेन
ओपूरियन्ति । नैवाते थपितव्याः । वर्षेण ओवर्षियन्ति । च्छन्ने
थपितव्या । प्राणकेहि खज्जन्ति च्छन्दियाणं प्रतिपादिकेहि थपयितव्या ।
नापि क्षमति । शय्यासनं अध्युपेक्षितुं । ओमयिलोमयिलं वा
पाटितवि(12ब्5)पाटितं वा ॥ अथ खलु कालेन कालं धोवितव्यं ।
सीवयितव्यं । रञ्जिय(जयि)तव्यं । मञ्चा वा पीठा वा उप्पादका
भवन्ति । समां थपितव्याः । दुत्थिता भवन्ति । सुस्थिता थपितव्याः ।
ओन्द्रि(द्द्रि)ण्णका भवन्ति । पलुग्नका वा मुञ्जा कर्त्तितव्या । बल्बजा
कर्त्तितव्या । (ज्.55) मञ्चा बुणितव्याः । (इ.प्.77) पीठा बुणितव्याः ।
पादका उ(दु)त्थितका भवन्ति । सुथपिता कर्त्तव्याः । विहारका कालेन
(12ब्6) कालं सिञ्चितव्याः । संमार्जितव्याः । गोमयकार्षी दातव्याः ।
उदकभ्रमाः प्रनाडिकाभ्रमा वा कालेन कालं शोधितव्याः । पञ्चाहे
पञ्चाहे शय्यासनं प्रत्योतापेतव्यं । मञ्चा वा पीठा वा अन्यायतः
कर्त्तव्यं । विहारो ओमस्वेदिको भवति । मञ्चो भित्ति(तो) मोचेत्वा
प्रतिपादिका दातव्याः । यथा प्राणकेहि न खाद्येया सन्तानिका
शाटितव्यो । अन्वर्द्धमासं गोमयशा(12ब्7)टो दातव्यो । यदि ताव विहारो
ओश करोति ओदको दातव्यो । अथ दानि उस्वेदको भवति शुद्धेन गोमयेन
मर्द्दितव्यं । विहारो उस्वेदको भवति । न दानि तहिं क्षमति ।
हस्तशौचं वा कर्त्तुं पादशौचं वा मुखम् वा धोयि(वि)तुं । पादम्
वा निर्म्मादयितुं । नापि दानि क्षमति । विहारो पित्थित्वा स्थपितुं । अथ
खलु कालेन कालं अपावुरितव्यो यथा वातं लभेय्या (न) धूपेतव्यो
कु(13अ1)ष्ठेन भुर्जेन वा सक्तुहि वा एवं वर्षोपगतकेहि (ज्.56)
शय्यासने प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ अभिसमाचारिकान्
धर्म्मान् अतिक्रमति ॥ * ॥
इइ.4 म्स्.13अ1 (ज्. 56.3); छ्.503ब्10
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा अपरं दानि आरण्यकं शय्यासनं हिमदोषेण
चित्तं न वसति । ते दानि आरण्यका विहारं बाहिरं घट्टियं कारियाण
ग्रामन्तिकं शय्यासनं ओकस्ताः सो दानि वि(13अ2)हारको वनदवेन
आगच्छियाण दग्धो । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु
भगवान् आह । तेन हि एवं वर्षवुस्तेहि शय्यासने प्रतिपद्यितव्यं । किन्
ति दानि एवं वर्षवुस्तेहि शय्यासने प्रतिपद्यितव्यं । एतं दानि आरण्यकं
शय्यासनं हिमदोषेण रि(चि)त्तं न वसति । न क्षमति । आरण्यकेहि
अशब्दकर्ण्णिकाये ग्रामान्तिकं । शय्यासनं ओक्कसितुं । अथ खलु
उच्छा(13अ3)हेतव्या । तहि(ं) एको वा द्वौ वा त्रयो वा यावतका (इ.प्.78)
उच्छहन्ति । यो प्रतिबलो वस्तुं यदि उत्सहन्ति । तेषां आहारेण
उपस्तम्भं कर्त्तव्यं । यथा न विहन्येंसु । अथ दानि उद्वहन्ति ।
आह । किं वयं परित्यक्ताः । किस्स (ज्.57) वयं वसामः । यं तहिं

शय्यासनं भवति कोचवको वा उल्लीयो वा चतुरस्रका वा कुम्भीयो वा
कट(टा)हकानि वा सर्व्वं ग्रामान्तिकं, (13अ4) शय्यासनं ओतारेतव्यं ।
मञ्चा पीठा उल्लपित्वा स्थापयितव्या । मञ्चा भित्तियो मोचेत्वा
प्रतिपादका दातव्या । यथा प्राणकेहि दीपिकाहि वा न खज्जेया । नापि
दानि क्षमति सो विहारो अध्युपेक्षितुं । ओन्द्रि(द्द्रि)ण्णको वा पलुग्गको वा
अचौक्षो वा अप्रतिसंस्कृतो वा । अथ खलु यदि ताव तृणच्छदनो वा
भवति तृणपुलको दातव्यो । याव गो(13अ5)मयशाटो दातव्यो ।
परिभाण्डं कर्त्तव्यं । श्वेतवर्ण्णा दातव्यं ॥ समन्तेन विहारस्य
ताव प्रतिकृत्येव अग्निहरणी कर्त्तव्या । भृतकेहि च कर्म्मकरेहि च
विहारस्य चतुःपार्श्वे कक्षं जातकं भवति सो लवापयितव्यो । यं कालं
शुष्कं भवति । निष्प्राणकं ततो ग्निना दहापयितव्यो विहारको
सिञ्चितव्यो । सम्मार्जितव्यो । गोमयकार्षी (13अ6) दातव्या । यं सारासारं
शय्यासनं अमिला वा अस्तरणिकां वा कोचका वा मकुचका (वा)
गुडुगुडुका वा मकुचका वा ते ग्रामान्तिकं शय्यासनं नापयितव्याः ।
मञ्चाः प्रतिपादकेहि स्थापयितव्या भित्तितो यु(मु)क्ताः । मंचस्य उपरि
पीठा स्थापयितव्या । पीठस्य उपरि यं तत्र शय्यासनं
ओमयिलोमयिलं पाटित(ज्.58)विपाटितं पीठस्य उपरि स्थापयितव्यं
चीवरवंशे स्थापयितव्यं, (13अ7) भित्तितो मुक्तं । यदि ताव विहारो
उप्पिडनको भवति । न क्षमति । लेनानि बन्धितुं । अथ खलु मुक्तका
कर्त्तव्या । अथ दानि उप्पंसुलका विहारका बाहिरघट्टिमा कर्त्तव्याः ।
सर्व्वेहि नि(र्)धावितव्या एकेन अभ्यन्तरघट्टिमं विहारकां करिय
रेज्जूये वा कडेवरिका ।य(ये) वा ओतरितव्यं । ओतरिय रज्जूये वा कडेवरिया
वा अभ्यन्तरे क्षिपितव्या । बाह्येन वा अच्छितव्या । ये (13ब्1) तत्र भवन्ति
गोपालका वा पशुपालका वा तेषां सो विहारो अनुपरिन्दितव्यो ते
वक्तव्याः । दीर्घायु गच्छाम ताव यं ग्रामान्तिकं शेय्यासनं एषो
तुम्हाकं विहारको अनुपरिन्दितो भवतु । एवं अनुपरिन्दियाण गन्तव्यं
(इ.प्.79) । अथ दानि ग्रामान्तिकं शेय्यासनं भवति । एवं ह्य् एव सर्व्वं
प्रतिसंस्कारो कर्त्तव्याः । याव श्वेतवर्ण्णा दातव्या । एतानि महन्तानि
वस्तूनि भवन्ति । यथा (13ब्2) अग्निशाला वा उपस्थानशाला वा यदि ताव
सस्वामिकं भवति । तेन प्रतिसंस्कारोये(पे)तव्या । उद्दिष्टको नाशो यो
स्य भवति । तेन प्रतिसंस्कर्त्तव्या । अथ दानि नैव सस्वामिको भवति ।
नापि उद्दिष्टको सर्व्वसंघेन प्रतिसंस्कर्त्तव्यो । सामग्रीये संविदित्वा
तहिं एकम् एको (ज्.59) वा शमो दातव्यो । द्वे वा द्वे वा त्रयो वा त्रयो वा
यथा सर्व्वप्रतिसंस्कारो गच्छे तथा (13ब्3) दातव्यं । मञ्चा वा पीठा
वा उल्लग्गका भवन्ति । अयच्छितव्या । अयं च्छन्तियो कर्त्तव्याः । उन्नियो
वा बिशिओ वा चतुरस्रका वा ओमयिलोमयिला भवन्ति । पाटितविपाटिता
धोवित्व सिवितव्या । प्रत्यग्गलानि दातव्यानि । भण्डं नियतकं भवति ।
समुदानेतव्यं । ग्रामान्तिकं शेय्यासनं उदकदोषेण रि(चि)त्तं न
संवसति न क्षमति तेहि अ(13ब्4)शब्दकर्ण्णिकाये आरण्यकं शेय्यासनं
गन्तुं । अथ खलु प्रतिकृत्येव ताव यं तत्र सारासारं भाण्डम्

अस्तरणं वा प्रावरणं वा उपस्करो वा श्रद्धाप्रसन्नेहि उपासककुलेहि
स्थापयितव्यं । विहारको संमार्जयितव्यो । गोमयकार्षी दातव्या ।
मंचा प्रतिपादकेहि स्थातव्या भित्तितो मुक्तं । मञ्चस्य उपरि पीठं
स्थापयितव्यं । पीठस्योपरि यं त(13ब्5)त्र जर्जर बिसि वा जर्जर
चतुरश्रको वा तं स्थापयितव्यं । यदि ताव उप्पीडनको विहारो भवति ।
ततो लेनानि मुक्तानि स्थापेतव्यानि । अथ दानि उप्पत्सु(म्सु)लको विहा(रो)
भवति लेनानि बाहिरघट्टिमानि कर्त्तव्यानि सर्व्वे भिक्षूहि
नि(र्)धावन्तेहि । एकेन विहारको अत्य(भ्य)न्त(र)घट्टिमो कर्त्तव्यो ।
प्रतिवेशिकुलातो निश्रेणियाविय ततो ओ(13ब्6)तरितव्यो । (ज्.60) ये तत्र
प्रतिवेशिका भवन्ति । तेषाम् अनुपरिन्दितव्यं । दीर्घायु एषो विहारको
तुम्हाणं अनुपरिन्दितो भवतु । (इ.प्.80) गच्छाम वयं अरण्यकानि
शेय्यासनानि एवं परिन्दिय गन्तव्यं । एवं वर्षवुस्तेहि शेय्यासने
प्रतिपद्यितव्यं । न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥
इइ.5 म्स्.13ब्6 (ज्. 60.5); छ्.503च्1
भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ् च मनुष्याणाञ् च
विस्त(13ब्7)रेण निदानं कृत्वा पञ्चार्थवशां विस्तरेण कृत्वा यावद्
अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकां अनुचंक्रमन्तो
अनुविचरन्तो विहारकां ओद्द्(र्)इण्णकां प्रलुग्गकां अचौक्षां
अप्रतिसंस्कृतां शेय्यासनं उज्झितप्रकीर्ण्णं ओमयिलोमयिल(ं)
पाटितविपाटितं मञ्चा च पीठा च । उद्द्रिण्णका प्रलुग्गका उप्पादका
उ(दु)त्थितका वर्षेण ओवर्षियन्तां प्राणकेहि खज्जन्तां भगवान् (14अ1)
जानन्तो भिक्षूं पृच्छति । किम् इदं भिक्षवो विहारका ओद्द्रिण्णका
पलुग्गका अचौक्षा अप्रतिसंस्कृताः शेय्यासनं उज्झितप्रकीर्ण्णं
ओमयिलोमयिलं पाटितविपाटितं मञ्चा च पीठा च ओद्द्रिण्णका
पलुग्गका उप्पादका उ(दु)त्थितका वर्षेण ओवर्षयन्ता प्राणकेहि
खाज्जन्ता ते दानि आहंसु वयं भगवन् आगन्तुका ये नेवासिका ते
संस्करिष्यन्ति ।
भगवान् आह ॥ तेन हि एत(व)ं आगन्तुकेहि शे(14अ2; ज्.61)य्यासने
प्रतिपद्यितव्यं । किन् ति दानि एवं आगन्तुकेहि शेय्यासने प्रतिपद्यितव्यं ।
एता दानि भिक्षू आगन्तुका भवन्ति विहारको उद्दिष्टको भवति । मञ्चं
पीठं पि चतुरस्रकं कुर्च्चं बि(ं)बोहनं उद्दिष्टं भवति नापि
क्षमति । गतागतस्य विहारके भण्डं प्रवेशितुं । अथ खलु यदि ताव
अन्धकारको विहारको भवति । प्रदीपो ज्वालयितव्यो तृणोल्का वा कण्डोल्का
वा प्र(14अ3)ज्वालयितव्या । प्रविशिय चीवरंच(वं)शो ताच(व)
प्रत्यवेक्षितव्यो । अनेकाये प्राणकेहि खादितको भवति । यदि ताव
प्राणकेहि खायितको भवति भग्नका वा तं अपनिय अन्यो कीलको
आकोटयितव्यो (इ.प्.81) पात्रप्रवेशिका स्थापयितव्या । मञ्चकश् च
प्रत्यवेक्षितव्यः । यदि ताव विभग्नको वा च्छिन्नको वा भवति
च्छिन्नकण्ठि कर्त्तव्या । ओद्द्रिण्णको (14अ4) वा पलुग्गको वा भवति

मुंजा कर्त्तितव्या बल्बजा कर्त्तितव्या । मञ्चा ब्र(बु)णितव्या पीठा
ब्र(बु)णितव्या । विहारको शोधयितव्यो । सम्मार्जयितव्यो । मूष-उक्किरा
वा भवति आकोटयितव्या । गोमयकार्षी दातव्या । मञ्चको प्रतिपादके
स्थापयितव्यो आस्तरणं प्रज्ञपिय प्रतिक्रमितव्यं । यदि सर्व्वरात्रो
गच्छति प्रतिसंस्कार(ज्.62)यन्तस्य सर्व्वरात्री
प्रतिसंस्क(स्का)रयि(14अ5)तव्यं । एवं आगन्तुकेहि शेय्यासने
प्रतिपद्यितव्यं । न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥
इइ.6 म्स्.14अ5 (ज्.62.4); छ्.503च्16
भगवान् श्रावस्त्यां विहरति शस्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण
निदानं कृत्वा पञ्चार्थवशां विस्तरेण कृत्वा यावद् अद्राक्षीद् भगवां
पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो अनुविरचन्तो विहारकां
ओद्द्रिण्णकां पलुग्गकां अ(14अ6)चौक्षां अप्रतिसंस्कृतां शेय्यासनं
ओमयिलेमयिलं पाटितविपाटितं । मञ्चा पीठा ओद्द्रिण्णकां
पलुग्गकां । उप्पादकां उ(दु)त्थितकां वर्षेण ओवर्षियन्तां प्राणकेहि
खज्जन्तां भ(ग)वान् जानन्तो पृच्छति । किं इमे भिक्षवो विहारका
ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृता शय्यासनं ओमयिलेमयिलं
पाटितविपाटितं मञ्चा पीठा ओद्द्रिण्णका पलुग्गका उप्पादका
उ(दु)त्थि(14अ7)तका वर्षेण ओवर्षयन्ता प्राणकेहि खज्जन्ता भिक्षू
आहंसु । वयं भगवन् नेवासिका ये आगन्तुका ते प्रतिसंस्करिष्यन्ति ।
भगवान् आह । तेन हि एवं नेवासिकेहि शेय्यासने प्रतिपद्यितव्यं । किन् ति
दानि एवं नेवासिकेहि शय्यासने प्रतिपद्यितव्यं । नायं ताव क्षमति ।
नैवासिकेहि ये विहारका ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृता ते
आगन्तुकानां (14ब्1) स्थापयितुं । यदि आगन्तुकानां मातु अत्यायिकं
भविष्यन्ति । ततो नं प्रतिसंस्करिष्यन्तीति ॥ अथ खलु (ज्.63) ये विहारका
नवका च सुप्रतिसंस्कृता च ते आगन्तुकानां स्थापयितव्या । नापि
क्षमति (इ.प्.82) शेय्यासनं ओमयिलोमयिलं पाटितविपाटितं आगन्तुकानां
स्थापयितुं । यदि आगन्तुकानां मातु अत्यायिकं भविष्यति ततो
धोविष्यन्ति । रञ्जिष्यन्ति । सीविष्यन्ति । अथ खलु यं (14ब्2) शेय्यासनं
नवकं सुधोतं च सुरक्तं च तं आगन्तुकानां स्थापयितव्यं । नापि
क्षमति ये मञ्चा वा पीठा वा प्रल(लु)ग्गका वा ओद्द्रिण्णका वा ते
आगन्तुकानां स्थापयितुं । यदि आगन्तुकानां मातु अत्याय(यि)कं
भविष्यति । ततो बुणिष्यन्ति । अथ खलु ये मञ्चा वा पीठा वा नवा च
सारा च स(सु)धोता च ते आगन्तुकानां स्थापयितव्या नापि क्षमति ।
अध्युपेक्षितुं । अथ खलु वि(14ब्3)हारकाणां कालेन कालं
खण्डफुट्टं प्रतिसंस्कर्त्तव्यं । शेय्यासनं धोवितव्यं । सिवितव्यं ।
रञ्जितव्यं । मञ्चा वा पीठा वा भग्ना वा भवन्ति च्छिन्नगण्ठिका
कर्त्तव्या । ओद्द्रिण्णका वा पलुग्गका वा भवन्ति । मुञ्जा कर्त्तितव्या ।
बल्बजा कर्त्तितव्या मञ्चा ब्र(बु)णितव्या पीठा व्रणितव्या । मञ्चा वा
पीठा वा उप्पादका भवन्ति । समं स्थापयितव्या । उ(दु)त्थापितका

(14ब्4) भवन्ति । सुस्थिता कर्त्तव्या । (ज्.64) वातातपेन ते(ओ)पूरियन्ति ।
निवाते स्थापयितव्या । काकशकुन्न(न्त)केहि ओहयियन्ति छन्ने
स्थापयितव्याः । वर्षेण ते(ओ)वर्षियन्ति निरोवर्षे स्थापयितव्या ।
प्राणकेहि खज्जन्ति च्छिन्नगण्डि(ण्ठि)यका करिय प्रतिपादकेहि
स्थापयितव्या । एवं नेवासिकेहि शय्यासने प्रतिपद्यितव्यं । न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान् अतिक्रम(14ब्5)ति ॥ * ॥
इइ.7 म्स्.14ब्5 (ज्. 64.6); छ्.503च्25
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा यावद् अद्राक्षीद् भगवान् पञ्चाहिकां
विहारचारिकाम् अनुचंक्रमन्तो अनुविचरन्तो विहारकां ओद्द्रिण्णकां
पलुग्गकां अनभि(प्रति)संस्कृतां उल्लापे(ये) गृहीतकां शेय्यासनं
ओमयिलमयिलं पाटितविपाटितं मञ्चा च पीठा च ओद्द्रिण्णकां
पलुग्गकां उप्पादकां (14ब्6) उ(दु)त्थितकां वातातपेन ओपूरियन्तां
काकशकुन्ने(न्ते)हि ओहर्षि(यि)यन्तां वर्षेण ओवर्षियन्तां प्राणकेहि
खज्जन्तां भगवान जानन्तो येच(व) भिक्षूं पृच्छति । किं एते भिक्षवो
विहारका ओद्द्रिण्णका पलुग्गका शेय्यासनं (इ.प्.83) ओमयिलमयिलं
पाटितविपाटितं मञ्चा पीठा च ओद्द्रिण्णका पलुग्गका उप्पादका
उ(दु)त्थितका वातातपेन ओपूरियन्ता काकशकुन्ने(न्ते)हि ओहयियन्तां
वर्षेण (ओ)वर्षियंता प्रा(14ब्7)प्राण(ज्.65)केहि खज्जन्ता । भिक्षू आहंसु ।
ये भगवं आगन्तुका च नेवासिका च ते प्रतिसंस्करिष्यन्ति । वयं
इत्वारवासिनो
भगवान् आह । तेन हि एवं सर्व्वेहि शेय्यासने प्रतिपद्यितव्यं । किन् ति
दानि एवं हि सर्व्वेहि शेय्यासने प्रतिपद्यितव्यं । एते दानि विहारका
भवन्ति । ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृतका ततो रणरणाये
गण्डिं आहणिय सर्व्वसंघेन सन्निपति(15अ1)तव्यं । अथ दानि कश्चिद्
आह । अहन् धर्म्मकथिको अहं विनयधरो अहम् आरण्यको पिण्डचारिको
पांसुकुलिको य एतो(ते) द्रोणी श्रमणका ते प्रतिसंस्करिष्यन्तीति ॥ ते
विनायातिक्रमम् आसादयन्ति ।
अथ खलु सर्व्वेहि सन्निपतितव्यं । अन्येहि ताव मृत्तिका मर्द्दितव्या ।
अन्येहि खाणुका विशालिका वा पिण्डका वा परिपूरिय दातव्या । अन्येहि
परिहरितव्यं । अन्येहि लिप्पितव्यं । अ(15अ2)न्येहि मज्जितव्यं । अन्येहि
उदकं परिहरितव्यं । अथ दानि बहुं लिप्पितव्यं भवति । भिक्षू च
शाठ्येन करेन्ति । किं कर्त्तव्यं मितकं दातव्यं । इमन् तव खण्डं
इमं तव खण्डन् ति । इमं त्वया प्रतिसंस्कारयितव्यं । एते विहारका
उल्लापे(ये) गृहीतका भवन्ति अप्रतिसंस्कृता वा उप्पंसुला वा
सर्व्वसंघस्य गण्डिम् आकोटयित्वा अन्येहि तावद् या भित्ति ओल्लाये
गृहीतकायो तायो शा(15अ3)टयितव्यायो अन्येहि मृत्तिका मर्द्देतव्या ।
अन्येहि उदकः परिहरितव्यः । अन्ये(हि) मृत्तिका परिहर्त्तव्या । अन्यो लेपो
दातव्यः । (ज्.66) अन्यैः स(ं)मार्जितव्यं । विहारका उप्पेडनका भवन्ति ।
शर्कराटका वा आपकपांसुको वा परिहरितव्यो आकोटयितव्यो । अथ दानि

उपंसुलका विहारका भवन्ति । अन्यैर् ग्गोमय परिहर्त्तव्यः ।
अन्यै(15अ4)र् उदकं परिहर्त्तव्यः । अन्यै(ये)हि अध्वापयितव्यं । अन्येहि
गोमयकार्षी दातव्या । नापि दानि (इ.प्.84) अध्युपेक्षितव्यं । शेय्यासनं
ओण्णियो वा कोचवको वा प्राका(वा)रा वा बिसियो वा चतुरस्रको वा
बिम्बोहनका वा चिलिमिलिका वा ओमयिलमयिला वा पाटितविपाटितविपाटिता
वा अचौक्षा वा अप्रतिसंस्कृता वा । अथ खलु कालेन कालं । अ(15अ5)न्येहि
ओषा गालयितव्यो । अन्येहि उदकं परिहर्त्तव्यं । अन्येहि क्षारं
आनयितव्यं । अन्येहि वोध(धोव)यितव्यं, । अन्येहि पीडितव्यं । अन्येहि
विसयितव्यं । अन्येहि परिहर्त्तव्यं । मञ्चा वा पीठा वा ओड्डिण्णका वा
पलुग्गका वा पलुग्गका वा भवन्ति । सर्व्वेहि मुञ्जा वा बल्बजा वा
कर्त्तितव्या । मञ्चा वा वातव्या पीठा वातव्या बिसी सीवयितव्या ।
चतुरस्रा दाप(15अ6)यितव्या ॥ नंगलानि उत्थापयितव्यानि । एते मञ्चा वा
पीठा वा भग्नका वा भवन्ति । यो यं पश्यति (ज्.67) तेन य्येव गण्ठी
कर्त्तव्या । उपादका भवन्ति । यो ये(व) पश्यति तेन येव समं
स्थापयितव्यं । दुत्थितका भवन्ति । सुस्थितका कर्त्तव्या । वातातपेन वा
ओपूरियन्ति । यो येव पश्यति तेन य्येव निवाते स्थापयितव्या ।
काकशकुन्तेहि वा ओहयियन्ति । यो य्येव पश्यति । तेन य्येव (15अ7) छन्ने
स्थापयितव्या । वर्षेण ओवर्षयन्ति । यो येव पश्यति तेन य्येव निरोवर्षे
स्थापयितव्या । प्राणकेहि खज्ज(न्)ति । यो येव पश्यति । तेन य्येव
च्छिन्नगण्ठिका करियाण प्रतिपादकेहि स्थापयितव्या । एवं सर्व्वेहि
शय्यासने प्रतिपद्यितव्यं । न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥
इइ.8 म्स्.15अ7 (ज्. 67.9); छ्.504अ14
भगवान् श्रावस्त्यां विरहति शास्ता देवानाञ् च मनुष्याणाञ् च
विस्त(15ब्1)रेण निदानं कृत्वा ते दानि भिक्षू प्रकीर्ण्णकस्य उच्छ्वासं
करोन्ति । जनो दानि ओध्यायति । पश्यथ भणे श्रमणका यथा उष्ट्रा
वा गोणा वा गर्द्दभा वा च्छगलका वा एवम् इमे श्रमणा
प्रकीर्ण्णकस्य उश्वासं करेन्ति । नष्टं भ्रष्टं कुतो एषां
श्रामण्यं । एतं प्रकरणं भिक्षूहि श्रुतं भिक्षू भगवतो
आरोचयेंसु । भगवान् आह । सत्यं भिक्षवो जनो ओध्यायति आम
भगव(व)(15ब्2)न्
(इ.प्.85) भगवान् आह । तेन हि वर्च्चकुटी नाम कर्त्तव्या ।
वर्च्चकुटीं दानि भिक्षुणा कारापयमाणेन नापि क्षमति (ज्.68)
विहारस्य पुरस्तिमेन वा उत्ता(त्त)रेण वा कारापयितुं । अथ खलु
दक्षिणेन वा पश्चिमेन वा कारापयितव्या । वातपथं मुक्त्वा
मल्लकतला खडा खणितव्या । प्रपातनिश्रितं वा यदि वा खानिया
उदकान्तिका भवति । प्रथमं कल्पियकारेण ओह(15ब्3)यियापेतव्या । अथ
दानि प्रपातनिश्रिता वा उर्ण्णावच्चघरं वोवत्ति गच्छति । अन्तरा(ं)
काष्ठं दातव्यं । यथा तहिं, । प्रथमं निय(प)तेय परिमलं वा
चतुरस्रं वा निवितव्या । इष्टकाहि वा उपलैर् व्वा च्छादयितव्या । यानि

साराणि च दृढानि च स्थूला(नि) च काष्ठानि तान्य् अधस्ता दातव्यानि ।
तत्र काष्ठेहि वा फलकेहि वा ओहाटयितव्या । उपरि इष्ट्(अक्)आहि मृत्तिकाय
(15ब्4) च्छादयितव्यानि । तच् च मुखानि कर्त्तव्यानि हस्ताम् वा आयामेन
निमुष्टकम् वा हस्तम् विस्तारेण तत्र कण्ठवारिणि कर्त्तव्या ।
कक्षमात्री वा गलमात्री वा वंशे(न) वा नलेन वा नंगलेहि वा
फलकैर् व्वा तथा कर्त्तव्या यथा उपविष्टा अन्योन्यं न पश्यन्ति ।
शीर्षी(षा)न् तत्रोपरि च्छादेतव्यं कुड्ड(ं) उत्थपियाणं वलभी
कारयितव्या । आकाशतलं वा लिंपितव्या मृत्ति(15ब्5)काय वा सुधाय वा
तृणच्छन्ना वा कर्त्तव्या । अपरस्मिन् पार्श्वे वर्च्चकुटीका कर्त्तव्या ।
तहिं स्थापेतव्या काष्ठकुण्डानि वा मृत्तिकाकुण्डानि वा उदक
पूरयितव्यानि । तहिं (ज्.69) स्थापेतव्यं करीषो मृत्तिका वा ऊषो वा ततो
जानितव्यं । यदि ताव सा खानि।मा वर्च्चकुटी भवति । ततो
वर्च्चकुम्भिका बाहिरोदिवा कर्त्तव्या । यथा तं उदकं अन्ये न
गच्छति । अथ (15ब्6) दानि प्रपातनिस्रिता भवति । वर्चकुटी किञ् चापि
तहि(ं) य्येव उदकं पतति । अनापत्तिः । वर्च्चकुम्भिकाये पुरतो
कल्पियकरकि स्थापयितव्या उदकस्य पूर्ण्णतानि तानि कुण्डकानि वा
कटाहकानि वा नापि क्षमति । अध्युपेक्षितुं । सप्राणकानि वा
अधोतकानि वा । अथ खलु उद्दिशितव्यं । नवकान्ते वा पटिपाट्टिकाय
वा यस्य वा प्रापुणति । तेन तानि कुण्डनिकानि कालेन कालं, (15ब्7)
पूरयितव्यानि । कालेन कालं धोवयितव्या(नि) । कालेन कालं आतपे
शोषयितव्यानि । अथ (इ.प्.86) तानि काष्ठमयानि भवन्ति । न क्षमति ।
आतपे न शोषयितुं, । मा फुट्टिंसु त्ति । शोषयित्वा च्छाता(या)यां
स्थापयितव्यानि । यं कालं परिशुष्कानि भवन्ति । ततो पूरेतव्यानि ।
वर्च्चकुटीये पुरतो कुटी वा शाला वा कर्त्तव्या । तत्र चीवरवंशा वा
चीवरबिसि वा दीर्घ(ज्.70)नागदन्त वा कर्त्तव्याः । य(16अ1)त्र भिक्षू
कल्पिकानि चीवरकाणि विनिक्षिपिय वर्च्चकुटी प्रविशन्ति नापि दानि
द्रविडेन विय प्रश्रावकरणं गृह्नित्वा वर्च्चकुम्भि(टि)का(ं)
गन्तव्यं । अथ दानि वर्च्चकुम्भिकां सप्राणका भवति । न दानि
(क्षमति) वक्तुं, । आयुष्मन्तो सप्राणका वर्च्चकुटि(म्भि)का । अथ खलु
तृणम् वा तूलिका वा उपरि स्थापेतव्या । यथाज्ञाये सप्राणकेत्य्
अभिज्ञानं । उदककृत्यं करेन्तेन न दानि ज्झल्लज्झलेये उदकं
चेतव्यं । अथ ख(16अ2)लु माता येव चेतव्यं । रिक्तकां
वर्च्चकुम्भिकां पश्यति । न तदा अध्युपेक्षितव्यं । यस्य ओहेय्यको
भवति । तस्य आवि(चि)क्षितव्यं । स्वयं वा पूरयितव्यं । अन्तमसतो
कुम्भिकायं । एकस्य (यत्तकं) पर्यास्तं भवेया तत्तकं दातव्यं ।
अथ दानि ग्लानो भवति । आर्षव्याधिकं वा प्रस्कन्दिकं वा
लेक्ष(ङ्क)टाखंडेहि वा भस्त्रायनंकेहि वा सुकुमारेहि दयितव्यं, ॥
* ॥ एषैवार्थोत्पत्तिः ।
भगवा(16अ3)न् श्रावस्त्यां विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा अपरेण दानि भिक्षुणा वंशशलाकाहि

व्रणमुखं पोत्थि(च्छि)तं तस्य दानि क्षतं सरुधिरं कृतं । एतं
प्रकरणं (ज्.71) भिक्षू भगवतः । आरोचयेंसुः । भगवान् आह ।
शब्दावथ भिक्षुं सो दानि शब्दापितो । भगवान् आह । एवं च त्वं
वंशशलाकाहि व्रणमुखं पे(पो)च्छेसि तेन हि न क्ष(16अ4)मति
वंशशलाकाहि कण्डविदलिकै(के)न वा नलकाष्ठेन वा । कठल्लेन वा
अस्थिखण्डेन वा व्रणमुखं पोच्छितुं, । अथ खलु अवलेखनं नाम
कर्त्तव्यं । ओलिका वा स्थापयितव्या । मृत्तिकामया वर्त्तिका कर्त्तव्या । या
खानिमा वर्च्चकुटी भवति । नापि क्षमति भिक्षुणा व्रणमुखं
पोच्छयता तायो वर्त्तिकायो वा कुलिकायो वा वर्च्चकुटीये प्रक्षिपितुं, ।
(16अ5) अथ खलु एकमन्ते (इ.प्.87) कूटकं कर्त्तव्यं । तायो देवसिकं
च्छोरयितव्यायो वा दहिय भूयो वा दहिय भूयो वा थपयितव्यायो । अथ
दानि भिक्षु पश्यति । को इमायो दहिष्यतीति । त(ता)यो च्छोरिय अन्यायो
स्थापयितव्यायो । अथ दानि प्रपातनिश्रिता भवन्ति । किंचापि तहिं
अपलेखाम् वा प्रक्षिपति । संकरं वा अनापत्तिः । वर्च्च(ं) करंतेन
त(16अ6)था कर्त्तव्यं, । यथा उच्चारप्रश्रावखेटसिंघाणकं सर्व्वं
तहिं निगच्छे । अथ दानि अन्यो चौक्षीकृतं भवति । ओहाणम् वा । खेटं
वा । सिंहाणकम् वा वर्च्चे वा तहि(ं) निक्षिप्तं भवति । उच्चिकाये तहिं
सर्व्वं प्रक्षिपितव्यं । नापि दानि क्षमति । अकृत्वा उदककृत्यं
सांघिकं शेय्यासनं परिभुञ्जितुं ॥ * ॥ एषा एवार्थोत्पत्तिः ॥
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ् च मनुष्याणां (16अ7)
च । विस्तरेण निदानं कृत्वा अपरो दानि भिक्षुः । (ज्.72) उश्वासेन उद्दीपितो
निवसनं ओगुहिय वर्च्चकुटिं प्रविशति । तहिं च अपरो भिक्षुः
पूर्व्वप्रविष्टो सो दान् आह । मा मे आयुष्मं ओहयेसि । एतं प्रकरणं
भिक्षुः । भगवतो आरोचयेंसुः । भगवान् आह । तेन हि एवं वर्च्चे
प्रतिपद्यितव्यं । किन् ति दानि एवं वर्च्चे प्रतिपद्यितव्यं । नायं ताव
क्षमति । भिक्षुणा क्षमयितुं, (16ब्1) याव उश्वासेन उत्पीडितो त्ति ॥ अथ
खलु समुदाचारमात्रकेणैव वर्च्चकुटिं गन्तव्या । अथ दानि
भिक्षुः । उश्वासेन सहसा उप्पडि(तो) भवति न क्षमति निवासनं
ओगुहिय अशब्दकर्ण्णिकाये वर्चकुटी प्रविशितुं । अथ खलु अच्छटिकां
कर(न्)तेन प्रविशितव्यं । यदि तातव(व त)हि(ं) कोचि पूर्व्वप्रविष्टो
भवति तेन प्रत्यच्छटिका कर्त्तव्या । इमिना आगमयितव्यं । ताव याव
उत्थित इति । अथ दानि (16ब्2) उप्पीडितो भवति । अच्छटिकां करन्तेन
अल्लीपितव्यं । इमिना च पराङ्मुखेन भवितव्यं । तस्य चावकाशो
दातव्यः । तेन च पराङ्मुखेन उ(प)विशितव्यं । अन्तरं दातव्यः ।
नापि दानि दूरतो येच(व) निवास(न)ं ओगुहिय उपवेष्टव्यं । (ज्.73) अथ
खलु समनन्तरं उपविशितव्यं च निवसनं निगुहितव्यं च नापि दानि
क्षमति वर्चकुटीयं उपविष्टेन ध्यानान्तरगतेन वा
मिद्धान्तरगतेन वा उ(16ब्3)द्देशं वा (इ.प्.88) स्वाध्यायम् वा
मनसिकरेन्तेन आसितुं । अथ खलु समुदाचारं करिय उत्थिय च्छत्ति
म(ग)न्तव्यं । नापि क्षमति । सांघिकेन शेय्यासनेन प्रावृतेन

वर्च्चकुटी प्रविशितुं । नापि क्षमति । कल्पिकेहि चीवरेहि प्रावृतेहि
वर्च्चकुटीं प्रविशितुं । अथ खलु स्थापयित्वा प्रवेष्टव्यं नापि दानि
क्षमति । दन्तकाष्ठं खादन्तेन वर्च्चकुटीं प्र(16ब्4)वेष्टुं ।
एकान्ते निक्षिपित्वा प्रवेष्टव्यं । नापि क्षमति । ओगुण्ठितशीर्षेण वा
ओहयितहस्तेन न वा वर्च्चकुटीं प्रवेष्टुं । अथ खलु एकांसीकृतेन
प्रवेष्टव्यं । एषो भिक्षुः पुरिमे वा पश्चिमे वा प्रहाणी(णे) उपविष्टो
समुदाचारकृतो भवति । प्रहाणस्य आमन्त्रियाण च्छत्ति वर्च्चकुटीयं
गन्तव्यं । अथ दानि भिक्षू उत्पीडितो भवति नापि क्षमति । (16ब्5) यथा
उष्ट्रेण वा गोणेन वा गर्द्दभेन वा ऊरूयो (ओ)हंय(यं)तेन गच्छितुं, ।
अथ खलु संघारामस्य एकहिं अन्ते उपविशितव्यं । अथ दानि भिक्षुणा
दृष्टो भवति । नापि क्षमति वक्तुं, । को वा एषो कथं वा एषो मा वेड्डो
भवेय त्ति । तेन उश्वासं करंतेन मल्लकेन वा कोडितेन वा
च्छोरयितव्यं । च्छोरियाणं सो पृथिवीप्रदेशो गोमये(16ब्6)न
उद्वर्त्तितव्यं । ततो यदि ताव विभवो भवति । तैलकार्षी वा (ज्.74)
गन्धकार्षी वा दातव्यं । अथ दानि विभवो न भवति । अन्तमसतो
गोमयकार्षी दातव्याः । एषो भिक्षुः । चेतियं वन्दितो उश्वासकृतो
भवति । समुदाचारमात्रकेनैव निर्द्धावितव्यं । अथ दानि सहसा
उत्पीडितो भवति । तदा न क्षमति । उष्ट्रेण वा गोणेन वा ऊरूयो
ओहयन्तेन गन्तुं, । अथ (16ब्7) खलु एकमन्ते निवास(न)ं ओ(गु)हिय
उपविशितव्यं । अथ दानि भिक्षूहि दृष्टो भवति तदा न क्षमति वक्तुं ।
को वा एषो कथं वा एषो मा चे(वे)ड्डो भवेय न्ति(त्ति) । तेनापि दानि
उश्वासं करिय मल्लकेन वा कोडिल्लेन वा कठल्लेन वा च्छोडियाण सो
पृथिवीप्रदेशो गोमयेन उद्वर्त्तयितव्यो । यदि ताव आहत्या पृथिवी
भवति । उत्तत्थपितव्या । कृतकर्म्मा पृथिवी भवति उदकेन
धोवित(17अ1)व्यं । यदि ताव विभवो भवति चेतियघरे तैलकार्षी वा
दातव्या । अथ दानि न विभवो भवति । अन्तमसतो तंहि पृथिवीप्रदेशे
गन्धकार्षी वा दातव्या । अथ दानि आरण्यकं शेय्यासनं भवति ।
दुर्लभो गन्धो अन्तमसतो तैलकार्षी दातव्या । एते (इ.प्.89) द्वे भिक्षू
वे(चे)तियं वन्दन्ति यं पश्यन्ति तत्र शुनखेन वा शृगालेन वा उश्वासं
कृतकं यो नवको भवति । ते(17अ2)न च्छोरितव्यं । अथ दानि नवतरको
शैथिलिको बाहुलिको भवति । वृद्धतरेण च्छोरितव्यं । (ज्.75) एते द्वे
भिक्षू गोचरं प्रविशन्ति प्रकृत्येव ताव च्छड्डयितव्यं, । अथ दानि
भिक्षूः प्रविष्टो समानो समुदाचारं कृतो भवति । किं कर्त्तव्यं
ग्रामान्तिकं शेय्यासनं गन्तव्यं । प्रतिक्रमणम् वागन्तव्यं । नापि
क्षमति । भिक्षुणी-उपाश्रये गतागतस्य वर्च्चकुटिं प्रविशितुं । अनेकाये
(17अ3) भिक्षुणिका उपविष्टा भवेय । अथ खलु पृच्छितव्यं । भगिनि किं
रिक्ता वा वर्च्चकुटी नेति नापि क्षमति । तरुणिका पृच्छितुं । मा वेण्णा
भवेय न्ति(त्ति) । अथ खलु वृद्धा पृच्छितव्या । यदि तावद् आह । आर्य
रिक्ता वर्च्चकुटीति । कनकेन वा दकानकेन वा उदकं गृह्णिय
प्रविशितव्यं । उश्वासं करिय उदककृत्यं करिय गन्तव्यं, । अथ दानि

एवं पि न भवति नी(17अ4)लमञ्चं गन्तव्यं । नापि दानि क्षमति ।
स्त्रीणां निग(नील)मंच(ं) गन्तुं । अथ खलु यो पुरुषाणां नीलमंचो
तहिं गन्तव्यं नीलमञ्चो न भवति । उत्सृष्टगृहं गन्तव्यं ।
पृच्छितव्यं रिक्तो उक्खरो ति न दानि तरुणिका स्त्री पृच्छितव्या । मा
अऽप्रहासं देया महन्तिका पृच्छितव्या । यदि तावद् आह । ऋक्तो
उदकदकानका आदाय प्रवेष्टव्यं । एवं पि न भवति ।
शून्य(17अ5)घरं वा जम्बालम् वा भवति । तहिं गन्तव्यं । न दानि
तहिं गन्तव्यं । न दानि तहिं अतिनि(ः)शब्दप्रवे(दे)शे उपवेष्टव्यं ।
मा (ज्.76) उग्गंकितो भवेयं छन्नप्रवे(दे)शे उपवेष्टव्यं । अथ दानि
एवं पि न भवति । उत्क्षिप्तरथ्यायां कुड्यं पृष्ठतो कृत्वा उश्वासो
कर्त्तव्यो । यो सौ द्वितीयो सहायो भवति । तेन पुरतो पराङ्मुखेन
स्थातव्यं । एते भिक्षु सार्थेन सा(17अ6)र्द्धम् अध्वानं गच्छंति ।
भिक्षु उश्वासितो भवति नापि क्षमति । य(प)त्थेस्मिं उश्वासं कर्त्तुं, ।
मा (जनो) ओध्यायेंसु केन् इमं (इ.प्.90) य(प)त्थेस्मि(ं) अन्त्राणि
विकीर्ण्णानि । अथ खलु एकतमं ज्झटम् वा वृक्षं वा पृष्ठतो
करियाण उपविशितव्यं । नापि दानि अनुवातं कर्त्तव्यं । मा
सर्व्वसार्थं गन्धेन व्यावहेय्या अपवातं कर्त्तव्यं । सार्थे
निसृष्टस्मिं समुदाचारो भवति । एकान्ते उपविशिय कर्त्त(17अ7)व्यं । नापि
दानि अप्रतिसंविदितेन उथ(च्च)त्तितव्यं, । मा चोरो वा ओचोरको वा न्ति(त्ति)
हन्येया नापि दानि अनुवातं कर्त्तव्यं । या(मा) सर्व्वसार्थो गन्धेन
वा(व्या)वहेया अपवातं कर्त्तव्यं, । नापि दानि क्षमति । प्रतिकृत्येव
निवासनं (ज्.77) ओगुहिय गच्छितुं, । अथ खलु निवासनं ओगुहितव्यं च
उपविशितव्यञ् च न क्षमति निवासनं ओगुहिय वामेन हस्तेन अङ्गजातं
गृ(17ब्1)ह्निय द्रविडेन यथा उदकसमीप(पे) गन्तुं । अथ खलु
उत्थिहितव्यं च निवासनं ओसरितव्यं । नावाये गच्छन्तस्य समुदाचारो
भवति यदि वर्चकुटी भवति । तहि(ं) कर्त्तव्यं काष्ठकं अन्तरा
कर्त्तव्या । यथा तहिं प्रथमं निपतेया एवं न भवति । अन्तमसतो
स्वका अङ्गुलि उपथपितव्या । वर्च्चकुटी न भवति । कटा(हे)न वा
मल्लिकेन वा उज्झितव्यं स्तूपाभिगृहे वा संघाभिगृहे वा प(17ब्2)श्यति ।
उज्झितव्यं । अथ दानि द्वे चंक्रमन्ते । वृद्धतरको नवतरको च
नवकेन उज्झितव्यं । अथ दानि सो भवति शैथिलिको वा बाहुलिको वा
आवड्ढको वा अशिक्षाकामो (वा) तदा स्वयं उज्झितव्यं । एषो हि भिक्षुः ।
दीर्घकेन खायितको भवति । वैद्यो जल्पति भत्ते(न्ते) महाविकटां
पायेथ न्ति(त्ति) किं कर्त्तव्यं । यदि ताव आत्मनो उच्चारो भवति । सो एव
तस्य प्रतिग्रहो (ज्.78) अथ (17ब्3) दानि परकेरको उच्चारो भवति ।
प्रतिग्रहापयितव्यो । उदकेन अच्चाविय घनेन नर्त्तकेन परिस्राविय तस्य
भिक्षुस्य सुमनाफुल्लानि न शक्ये ददियाणं वक्तव्यं । आयुष्मन
इमस्य भैषज्यस्य गन्धो यादृशो उच्चारस्य मा खलु ते अमनाय(प)ं
भविष्यति पिबाहि यदि शे जीवितुकामो एवं सर्व्वेहि सर्व्वे(वर्च्चे)
प्रतिपद्यितव्यं । न प्रतिपद्यति । अभि(17ब्4)समाचारिकान् धर्म्मान्

अतिक्रमति ॥ * ॥
(इ.प्.91)
इइ.9 म्स्. 17ब्4 (ज्. 78.7); छ्.504च्18
भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा ते दानि भिक्षुः प्रकीर्ण्णकं प्रश्वासं करोन्ति
जनो दानि ओध्यायन्ति । पश्यथ भणे (इमे) श्रमणका । यथा उष्ट्रा वा
गोणा वा गर्दभा वा च्छगलका वा एव(म् इ)मे श्रमणका प्रकीर्ण्णकं
प्रश्वासं करोन्ति । नष्टं भ्रष्टं कु(17ब्5)तो वा । इमेषां श्रामण्यं
एतं प्रकरणं भिक्षूहि श्रुतं । भिक्षू भगवतो आरोचयेंसु ।
भगवान् आह । सत्यं भिक्षवो जनो ओध्यायति । तेन हि प्रश्वासकुटी
नाम कर्त्तव्या । प्रश्वासकुटीपि(ये) दानि भिक्षुणा कार(प)यन्तेन न
क्षमति वी(वि)हारस्य उत्तरेण (वा) पूर्व्वेण (वा) कारापयितुं । अथ
खलु दक्षिणेन वा पश्चिमेन वा कारापयितव्या वातपथ(ं) मुक्त्वा
(17ब्6) उदकभ्रमणस्य वा त(उ)परि कर्त्तव्या । उपलस्य वा इष्टकाय वा
उपरि मल्लतलका खन्नां खनितव्या । मध्ये च्छिद्रकं कर्त्तव्यं ।
(ज्.79) उदकभ्रमणस्य उपरि थपेतव्या सुवा(धा)य समंतेन
लिपितव्या । यदि समन्तेन सेतुः कर्त्तव्यो यथा पतको येव प्रश्वासको
बाह्येन निर्ग्गच्छति । धोविय तैलेन म्रक्षयितव्या । नवकान्तेन वा
उद्दिष्टकेन वा पटिपाटिकायेन वा यस्य (17ब्7) वा प्रापुणेति ॥ * ॥ एषा
एवार्थोत्पत्तिः ॥
भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा अपरो दानि भिक्षुः प्रहाणं उपविष्टको
प्राश्वासेन उष्पी(प्पी)डितो प्रश्वासकुटीं गच्छियाणं निवासनं
ओ(गु)हियाणं प्रश्वासं करिष्यन्ति । तहिं च भिक्षुः पूर्व्वप्रविष्टो
प्रश्वासं करोति । सो जल्पति । मा खलु मे आयुष्मन् ओमुत्रप(य)सि त्ति ।
एतं (18अ1) प्रकरणं भिक्षूहि श्रुतं भिक्षू भगवतो आरोचयेंसु ।
भगवान् आह । तेन हि एवं प्रश्वासे प्रतिपद्यितव्यं । एवं ताव न
क्षमति भिक्षुणा आगमयितुं । याव प्रश्वासेन प्र(उ)पीडितो भवति ।
अथ खलु समुदाचारमात्रकेनैव प्रश्वासकुटीं गन्तव्यं । नापि
दानि क्षमति अशब्दकर्ण्णिकाये प्रश्वासकुटीं प्रविशितुं ॥ अथ खलु
अच्छटिकां करन्तेन प्रश्वासकुटिं प्रविशितव्यं । य(18अ2)दि तहिं कोचि
पूर्व्वप्रविष्टो (इ.प्.92) तेन प्रत्यच्छटिका कर्त्तव्या इमिना ताव
आगमयितव्यं । याव प्रश्वासो कृतो अथ दानि सो भिक्षुः । उप्पीडियती
येव अच्छटिकां करन्तेन अल्लीपितव्यं । (ज्.80) इमिना अवकाशो दातव्यो ततो
उभयो(ये)हि प्रश्वासो कर्त्तव्यो । नापि दानि क्षमति । ओगुण्ठितशीर्षेण
वा ओहितहस्ते(न) वा दन्तकाष्ठं खादन्तेन (वा) उपवेष्ट(ष्टु)ं । अथ
खलु एकांसकृतेन एका(18अ3)न्ते दन्तकाष्ठं स्थापयित्वा
उपवेष्टव्यं । नापि दानि तहिं ध्यानान्तरेण वा स्वाध्यायम् वा
करेन्तेन अशुभसमापत्तिम् वा समापन्नेन आसितव्यं । अथ खलु
प्रस्रावं कृत्वा च्छत्ति उत्थितव्यं । एषो दानि भिक्षुः प्रहाण

उपविष्टको प्रश्वासकृतो भवति । उत्थियाणं प्रश्वासकुटीं गन्तव्या ।
अथ दानि प्रश्वासेन उप्पीडितो भवति । न क्षमति । यथा उष्ट्[रे]ण वा
(18अ4) गोणेन वा गर्दभेन वा ऊरूयो ओमूत्रियन्तेन गन्तुं, । अथ खलु
एकतमंते उपविशिय प्रश्वासो कर्त्तव्यो । अथ दानि केनचि भिक्षुणा
दृष्टो नापि दानि क्षमति वक्तुं । को वा एषो कथम् वा एषो मा वेड्डे
भवेय न्ति(त्ति) । तेनापि दानि प्रश्वासं करियाण सो पृथिवीप्रदेशो यदि
तावद् आहत्य ।(त्या) पृथिवी भवति । काष्ठेन वा कठल्लेन वा
उत्तत्थिया(18अ5)णं च्छोरयितव्यो अथ दानि कृतंकर्म्मा पृथिवी भवति ।
धोवयितव्या । ततो तैलकार्षी वा गन्धकार्षी वा (ज्.81) दातव्या । अथ
दानि नास्ति विभवो अन्तमसतो गोमयकार्षी दातव्या । अथ दानि
प्रश्वासकुटी न भवति । एकस्मि(ं) कोणे सर्व्वसंघस्य
प्रश्वासपटे(घटो) स्थापयितव्यो तस्योपरि च्छिद्रमल्लका दातव्यं ॥
मा अप्रकृतिका घटस्य वा बाह्येन [प्र]श्वा(18अ6)सं छोरेया ति । तत्र
तत्रं(कुन्त)को अलाबुओतुम्बको वा थपयितव्यो तहिं प्रश्वासं करियाण
घटके प्रक्षिपितव्यं । न दानि तहि(ं) क्षमति । उच्चारो वा
खेटसिंघाणको वा प्रक्षिपितुं । सो दानि उज्झितव्यो । नवकान्तेन
कायस्य वा ओहेय्यको भवति । नापि दानि क्षमति । अत्या(भ्या)गमे
प्रदेशे उज्झितुं सर्व्वसंघस्य मा गन्धेन व्यावहेय्या । अथ दानि
द्विभूमको भवति । द्वितीयायां (18अ7) भूमियं तथा येव घटको
स्थापयितव्यो । तृभूमिको भवति । तृतीयायां भूमौ तथा य्येव
स्थापयितव्यं । तहिं प्रश्वासं (इ.प्.93) करितव्यं । कर्ण्णिकं यं कालं
प्रहाणस्य यथासुखं कृतं भवति । तं कालं प्रश्वासघटिका
निक्काल(ज्.82)यितव्या । केनायं निक्कालयितव्यो । नवकान्तेन वा
पटिपाटिपाटिकाय वा यस्य वा प्रापुणति । ततो पि न क्षमति । सो तहिं
च्छोरयितुं । यहिं देवे व(18ब्1)र्षिन्तस्य स्तूपविग्रहं वा संघविग्रहं
वा गच्छति । अथ खलु तहिं च्छोरयितव्यं । यहिं देवे वर्षन्तेन अन्ये
न गच्छति नापि क्षमति । प्रश्वासघटं अभिनिकुञ्जे प्रदेशे
स्थापयितुं । मा अन्ये भिक्षू न पश्येंसु । नापि क्षमति । अतिप्राकटे
प्रदेशे स्थापयितुं । मा नं ढोस्सा वा विडा वा वातपुत्रा वा
भुंजेंसु । अथ खलु प्रच्छन्नप्राकटे स्थापयितव्यं । विकाले
प्रविशियाणं तहिं य्येव (18ब्2) स्थाने स्थापयितव्यो । घटस्योपरि
च्छिद्रमल्लकं स्थापयितव्यं । च्छिद्रमल्लकस्योपरि कुन्तको वा
अलाबुतुम्बुको वा थपयितव्यो । अथ दानि संघे प्रश्वासघटो न
भवति । पौद्गलिकपौद्गलिकानि प्रश्वासघटिकानि स्थापयितव्यानि ।
घटिका वा कारका वा अलाबुतुम्बुका वा कल्प(य)तो एव प्रश्वासं
एकमन्ते विसर्जिय प्रश्वासभण्डकं । वोधि(धोवि)य प्रतिगुप्ते (18ब्3)
प्रदेशे आतपे स्थापयितव्यं । ततो विकाले भूयो प्रवेशितव्यो । कुत(न्त)को
भवति । एवं य्येव कर्त्तव्यं तुच्छकं भवति कल्प(य)तो येच(व)
उज्झित्वा च्छन्ना(न्ने) स्थवितव्यं । मा फुट्टेंसु शिक्तेन उच्चिनित्वा
स्थापयितव्यं । मल्लकं भवति । एकान्ते उज्झित्वा धोवित्वा आतपे

स्थापयितव्यं । सायं प्रवेशेन्तेन कुन्त वा तुम्बका वा शिक्षे(क्ते)(न)
(ज्.83) उच्चिनित्वा मञ्चकस्थाने उल्लपितव्यं । ओरु(18ब्4)हन्तेन मल्लकं
घटिका वा मञ्चकस्य च ओरुहन्तेन सुस्थपिता कर्त्तव्या भाजनं न
भवति । वर्षा उदकं च भवति । न दानि तथा प्रस्रावो व(क)र्त्तव्यो ।
यथा चेतियाभिगृहं उपरि घंश्वतो गच्छेया एकान्तके कर्त्तव्यं ।
अग्निशालायां वा उपस्थानशालायां वा उपविष्टस्य समुदाचारो भवति ।
च्छत्ति निष्क्रमितव्यं । अथ दानि उप्पिलितो भवति अकं,(18ब्5)थायेने विय
मूत्रेण सिञ्चन्तेन न गन्तव्यं । अथ खलु एकान्तेन कृत्वा उज्झितव्यं
(इ.प्.94) । तैलकार्षी दातव्या । अन्तमसतो गोमयकार्षी दातव्या । एषो
भिक्षु चेतियं वन्दन्तो प्रश्वासकृतो भवति । समु(दा)चारमात्रकेण
एव गन्तव्यं । अथ दानि भिक्षु सुष्ठु उप्पीलितो भवति नापि क्षमति ।
यथा उष्ट्रेण वा गोणेन वा उरूयो ओमूत्रन्तेन गन्तुं, । अथ (18ब्6)
खलु एकमन्तेन प्रश्वासो कर्त्तव्यो । अथ दानि कोचि भिक्षु पश्यति ।
नायं वक्तव्यो को एषो किम् वा कथम् वा एतं ति मा वेड्डो भवेय
न्ति(त्ति) । तेनापि प्रश्वासं करियाण यदि ताव आहत्या पृथिवी भवति ।
काष्ठेन वा कठल्लेन वा उत्तच्छि(त्थि)य च्छोरयितव्यं । (ज्.84) अथ
दानि कृतकर्म्मा पृथिवी भवति धोवितव्या । सर्व्वत्र चेतियंगृहे
गन्धकार्षी वा तैलकार्षी वा दातव्या । अथ दानि विभवो न (18ब्7)
भवति । अन्तमसतो तहिं पृथिवीप्रदेशे तैलकार्षी वा गन्धकार्षी वा
दातव्या । अथ दानि आरण्यकं शेय्यासनं भवति दुर्ल्लभो गन्धो
अन्तमसतो तैलकार्षी दातव्या । एषो भिक्षुः गोचरं प्रविसति । प्रकृत्येव
ताव प्रश्वासं करिय प्रविशितव्यं । अथ दानि भिक्षुः गोचरं प्रविष्टः
प्रश्वासकृतो भवति । नापि क्षमति । अभ्यागमे प्रदेशे प्रश्वासं
कर्त्तुं, । अथ ख(19अ1)लु या उ(त्)क्षिप्तरथ्या भवति तुण्डरथ्या तहिङ्
गन्तव्यं । कुण्ड(ं) अग्रतो करियाण प्रश्वासो कर्त्तव्यो यो से द्वितीयो
सहायो भवति । तेन पृष्ठतो स्थातव्यं । पराङ्मुखेन एषो भिक्षुः
सार्थेन समानम् अध्वानं गच्छति । प्रश्वासकृतो भवति । नापि
क्षमति । पन्थेस्मिं प्रश्वासं कर्त्तुं । मा जनो ओध्याये केन इमे
पन्थे प्रश्वासो कृतो रुधिरं विय च्छन्दितुं । अथ खलु एकान्ते
प्रश्वासो कर्त्तव्यो । (19अ2) पन्थातो उस्सरिय एकान्ते कर्त्तव्यं । नापि दानि
क्षमति । अनुवातं कर्त्तुं, । मा सार्थो गन्धेन व्यावहेय्या । अपवातं
कर्त्तव्यं । अथ दानि सार्थे सन्निविष्टे समुदा(चा)रो भवति । एकान्ते
उच्चत्तिय कर्त्तव्यं । (ज्.85) न दानि अप्रतिसंविदितेन उच्चत्तितव्यं । मा
चोरो वा ओचोरको वेति हन्येया । अथ खलु संविदितेन उच्चत्तितव्यं । नापि
दानि अनुवर्त्तित(वातं कर्त्त)व्यं । अपवातं कर्त्तव्यं । नावारे(ये) (19अ3)
गच्छन्तस्य समुदा(चा)रो भवति । यदि वर्च्चकुटी भवति तहिं
कर्त्तव्यं ॥ अथ दानि वर्च्चकुटी न भवति भाजने कृत्वा उज्झितव्यं ॥
(इ.प्.95) अथ दानि ग्लानो भवति भिक्षुः पाण्डुरोगेण वैद्यो जल्पति ।
भञ्जेन्तं प्रतिमूत्रं पिबनाय देथे त्ति किं कर्त्तव्यं यदि ताव
आत्मनको प्रश्वासो भवति । पुरिमपश्चिमकं च वर्जयित्वा मध्यमं

गृह्नितव्यो । एवम् तस्य प्रतिग्रहः । (19अ4) अथ दानि अन्यातकं भवति
पुरिमपश्चिमकञ् च वर्ज्यं कृत्वा गृह्नितव्यं । ततः पश्चात्
प्रतिग्राहयितव्यं । तस्य ग्लानस्य सुमनाफुल्लं न (श)क्के ददियाणं
वक्तव्यं । इमं खलु बुद्धप्रज्ञप्तं भैषज्यं पिब यदि जीवितुकामो
सि । एवं प्रश्वासे प्रतिपद्यितव्यं । न प्रतिपद्यति ॥ अभिसमाचारिकान्
धर्म्मान् अतिक्रमन्ति ॥ * ॥
इइ.10 म्स्.19अ4 (ज्.85.14); छ्.505अ23
भगवान् श्रावस्त्यां विह(19अ5)रति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा । अपरेण दानि भिक्षुणा सांघिकायं (ज्.86)
भूमौ आम्रपोतको रोपितको सो दानि तं उन्नेति व(र्)द्धेति घटसिक्तको
एकपुत्रको विय अपरेण भिक्षुणा आगच्छिय उप्पाडिय दन्तकाष्टं
खायितं सो दानि तेन दृष्टो ॥ सो दान् आह । आयुष्मन् एवं च दानि त्वं
मम आ(19अ6)म्रपोतको घटसिक्तको एकपुत्रकं विय संवर्द्धितव्यं ।
उप्पाडिय दन्तकाष्ठं खादसि । एतं प्रकरणं भिक्षूहि श्रुतं
भिक्षू भगवतो आरोचयेंसु । भगवान् आह । शब्दापयथ तं भिक्षुं ।
सो दानि शब्दापितो भगवान् आह । सत्यं भिक्षु एवं नाम अपरेण
भिक्षुणा सांघिकायां भूमौ आम्रपोतको रोपितो सो दानि तेन उन्नीतो
वर्द्धितो घटसिक्तको एकपुत्र(19अ7)को विय त्वया सो अगे(आग)च्छिय
उप्पाडिय भंजिय दन्तकाष्ठं खादितं । आह । आम भगवं
भगवान् आह ॥ एवं नाम त्वं पुष्पोपगतं वृक्षं उप्पाडिय
दन्तकाष्ठं खादसि । तेन हि न क्षमति । दन्तकाष्ठं ॥ * ॥ एषा
एवार्थोत्पत्तिः ॥
भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण (इ.प्.96) निदानं कृत्वा भगवान् महतीये बालाकिनीये
भिक्षुपर्या(षा)ये धर्म्मन् देशय(19ब्1)ति । ते दानि भिक्षू
दन्तकाष्ठं न खादन्ता एकान्ते निषण्णा आसन्ति प्रवातगन्धिकेन
मुखेन पश्यन्ति । मा सब्रह्मचारिं गन्धेन (ज्.87) व्यावहिष्यामः ।
भगवान् जानन्तो येव पृच्छति किं एते भिक्षवो भिक्षू एकान्ते आसन्ति ।
कलहितका विय मन्ये । भिक्षू आहंसु । भगवता दन्तकाष्ठं
प्रतिक्षिप्तं । ततो एते भिक्षवो एकान्ते आसन्ति । प्रवातगन्धिकेन
मुखेन पश्यन्ति मा सब्रह्मचा(19ब्2)री गन्धेन व्यावहिष्यामः ।
भगवान् आह । तेन हि अनुजानामि दन्तकाष्ठं प्रामाणिकं महान्तं
षोडशाङ्गुलं, ॥ * ॥ एषैवार्थोत्पत्तिः ॥
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो नन्दनोपनन्दना
सवल्लरिकानि दन्तकाष्ठानि खादन्ति जनो दानि ओध्यायन्ति पश्यथ
भणे श्रमणकाः । यथा कुमारका वा धर्म्मिष्ठा वा अक्षदर्शा वा
गण(का) वा महामत्रा वा । एवम् इमे श्र(19ब्3)मणकाः सवल्लरिकानि
दन्तकाष्ठानि खादन्ति । नष्टं भ्रष्टं कुतो इमेषां श्रामण्यं एतं
प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान् आह शब्दापयथ
नन्दनोपनन्दनां ते दानि शब्दापिता । भगवान् आह । सत्यं भिक्षवो

नन्दनोपनन्दना एवं नाम यूयं सवल्लरिकानि दन्तकाष्ठानि
खादथ । जनो दानि ओध्यायति पश्यथ भणे श्रमणका यथा (19ब्4)
कुमारका वा धर्म्मिष्ठा वा गणका वा राजपुत्रा वा इमे
श्रमणकाः सवल्लरिकानि दन्तकाष्ठानि खादन्ति । नष्टं भ्रष्टं
कुतो इमेषां श्रामण्यं आहंसु । आम भगवन् भगवान् आह । एवं च
दानि यूयं अप्रमाणानि दन्तकाष्ठानि खादथ । तेन हि प्रमाणिकं
दन्तकाष्ठं खादयितव्यं । दन्तकाष्ठानि नाम त्रिणि ज्येष्ठं
मध्यमं कनीयसं । ज्येष्ठं (ज्.88) नाम षोडशाङ्गु(19ब्5)लानि
मध्यमं द्वादशाङ्गुलानि कनीयसम् अष्टाङ्गुलानि ॥ * ॥
भगवान् श्रावस्त्याम् विहरति विस्तरेण निदानं कृत्वा अपरो दानि भिक्षु
दन्तकाष्ठं खादति । तेन दानि खादन्तेन दन्तकाष्ठं
थो(निर)वशेषं कृतं । तेन दानि भगवान् दृष्टो भगवतो गौरवेण
सर्व्वम् अभ्यवहृतं । तस्य दानि अफांसु । एतं प्रकरणं भिक्षू
भगवतो आरोचयें(19ब्6)सु । भगवान् आह । एवं च यूयं सर्व्वं, (इ.प्.97)
निरवशेषं दन्तकाष्ठं खादथ तेन हि शेषाश् चत्वारि अङ्गुलानि
दन्तकाष्ठस्य वर्ज्यं कर्त्तव्यं । अथ दानि भिक्षू आरण्यके शेय्यासने
प्रतिवसन्ति । कल्पियकारो दुर्ल्लभो भवति किं कर्त्तव्यं । ज्येष्ठकानि
दन्तकाष्ठानि कारापयितव्यानि । ततो भिक्षुणा दन्तकाष्टं खादिय
कु(र्)च्चकं शस्त्रकेन च्छिन्दितव्यं । धोवियाणं थपयितव्यो । अपरं
(19ब्7) दिवसं एवम् एव खादिय एवं ताव खादयितव्यं याव
दन्तकाष्ठस्य चत्वारि अङ्गुलानि अवशिष्टानि ततो च्छोरितव्यं । सो एषो
भिक्षुः निरवशेषं दन्तकाष्ठं खादति विनयातिक्रम(ं) आसादयति ।
दन्तकाष्ठं पि नाम खादन्तेन न क्षमति । स्तूपविग्रहे वा
संघविग्रहे वा दन्तकाष्ठं खादिन्त(तु)ं । अथ दानि भिक्षुः ग्लानो
भवति शिराविद्धको वा विरेचनपीतको वा घृत(20अ1)पीतको वा किञ्चापि
संघविग्रहे दन्तकाष्ठं खादति । अनापत्तिः । नापि दानि क्षमति ।
दन्तकाष्ठं (ज्.89) खादन्तेन खेटं दिशोदिशं च्छोरयितुं । कु(र्)च्चको
वा दिच्छद्दिय दिशोदिशं च्छोरयितुं । अथ खलु कट(टा)हके वा
मल्लके वा कोटियां वा आविद्धपुटिकायाम् वा खेटं च्छोरयितव्यो
वामेन च हस्तेन कु(र्)च्चको गृह्णितव्यः । पश्चात एकमन्तेन
च्छोरयितव्यः । दन्तकाष्ठं पि दानि खादन्तेन नापि क्षमति ।
उपस्थानशा(20अ2)लायाम् वा अग्निशालायाम् वा भक्तशालायाम् वा
कल्पियशालायाम् वा कल्पिककुटिकायाम् वा संघमध्ये (वा)
उपाध्यायाचार्याणाम् वा अग्रतो वृद्धतरकानाम् वा भिक्षूणां अग्रतो
दन्तकाष्ठं खादितुं । नापि क्षमति मातृग्रामस्य अग्रतो
दन्तकाष्ठं खादितुं, । नापि क्षमति । चेतियं वन्दन्तेन
ओगुण्ठितशीर्षेण वा ओहितहस्तेन वा थ(चे)तियाति(भि)गृहे वा प्रासादे वा
खा(20अ3)दितुं । एकांशीकृतेन एकान्ते खादितव्यं । नापि क्षमति ।
दन्तकाष्ठं खादिय मध्येन पाटियान जिह्वां निलेहितुं कामभोगिना
यथा । अथ दानि भिक्षु जिह्वां निलेहितुकामो भवति । कुर्च्चकेन

आमर्जयितव्या । नापि क्षमति विभूषणाभिप्रायेण दन्तकाष्ठं
खादितुं ॥ अथ खलु दुर्ग्गन्धप्रहाणार्थं दन्तकाष्ठं
खादितव्यं । अथ दा(20अ4)नि दन्तकाष्ठं न (इ.प्.68) भवति । अङ्गारेण
वा । अपक्कलद्दुना वा दन्ता ओद्य(घ)(र्)सयितव्याः । (ज्.90) अन्तमसतो
अंगुलि दन्तकाष्ठं खादितव्यं । स एषो भिक्षुः सर्व्वेण सर्व्वं
दन्तकाष्ठं न खादति विनयातिक्रमम् आसादयति । एषो भिक्षु
वे(चे)तियं वन्दति । पश्यति दन्तपोणं च्छोरयितव्यो । अथ दानि द्वे जना
भवन्ति । यो नवको भवति । तेन (20अ5) उद्धृतव्या । अथ दानि नवको
शैथिलिको बाहुलिको भवति वृद्धतरेण उद्धृतव्यो । एवं दन्तकाष्ठे
प्रतिपद्यितव्यं । न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥
उद्दानं
एवं शेय्यासने प्रतिपद्यितव्यं ।
एवं वर्षोपनायिको(के) शेय्यासने प्रतिपद्यितव्यं ।
एवं वर्षोपगतेहि शेय्यासने प्रतिपद्यितव्यं ।
एवं (20अ6) वर्षवुस्तेहि शेय्यासने प्रतिपद्यितव्यं ।
एवं आगन्तुकेहि शेय्यासने प्रतिपद्यितव्यं ।
एवं नैवासिकेहि शेय्यासने प्रतिपद्यितव्यं ।
एवं हि सर्व्वेहि शेय्यासने प्रतिपद्यितव्यं ।
एवं वर्चे प्रतिपद्यितव्यं ।
एवं प्रश्वासे प्रतिपद्यितव्यं ।
एवं दन्तकाष्ठे प्रतिपद्यितव्यन् ति॥ * ॥
॥ द्वितीयो वर्ग्गः ॥ * ॥
(इ.प्.99) इइइ.1 म्स्.20अ6 (ज्.91.1); छ्.505च्1
भगवान् श्रावस्त्यां विहरति । विस्तरेण निदानं कृत्वा
पञ्चा(20अ7)र्थवशान् सम्पश्यमानास् तथागता अर्हन्तः
सम्यक्सम्बुद्धा । पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्त्य्
अनुविचरन्ति । कतमां पञ्च । कच्चि मे श्रावकाः । न कर्म्मारामाः ।
न कर्म्मरताः । न कर्म्मारामतानुयोगम् अनुयुक्ता विहरन्ति
विस्तरेण यावद् अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकाम्
अनुचंक्रमन्तो अनुविचरन्तो अन्यतरं भिक्षु भूमौ अस्तरिय चीवरं
(20ब्1) सीवन्तं भगवां जानन्तो पृच्छन्ति किम् इदं भिक्षुः । आह ।
भगवन् इदं चीवरं सिवयामि ।
भगवान् आह । एवन् तं त्वं भूमीय अस्तरीय चीवरं सिवयसि । तेन हि
कठिनं नाम कर्त्तव्यं । कठिनं ताव भिक्षुणा कारापयमाणेन
द्वादशहस्तां आयामतो कर्त्तव्यो । अष्टहस्तां विस्तारेण वंशानां वा
नलानाम् वा न(ं)गलानां वा काण्डानाम् वा चरुकानाम् वा रोहिषाणाम्
वा सूत्रिकाय वा रेज्जुकाय वा (20ब्2) घण बुणितव्यं । यं कालं भिक्षुः
चीवरं सीवितुकामो भवति । उपस्थानशालायां वा अग्निशालायां वा
प्रासादे वा प्रहाणके कठिनं प्रज्ञापयित्वा चीवरं सीवितव्यं ।

मूल पाठ: Abhisamācārikadharma · Data entry Abhisamacarika-Dharma Study Group, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc