भाषा

ENहिગુ
ग्रंथ पाठ

अभिसमाचारिकधर्म · भाग 120

एxप्लनतोर्य् रेमर्क्स्
थे प्रेसेन्त् तेxत् इस् एदितेद् तो fअचिलितते wओर्द्-सेअर्छेस्. थे तेxत् इस् बसेद् ओन् थे मनुस्च्रिप्त् ओf थे त्रन्स्लितेरतिओन् ओf थे अभिसमचरिक-धर्म ओf थे महसग्घिक-लोकोत्तरवदिन्स्. ग्रम्मतिचल् एर्रोर्स् अन्द् थे लिके हवे बेएन् लेfत् उन्चोर्रेच्तेद्, बुत् प्रेfएर्रेद् रेअदिन्ग्स् अरे ओच्चसिओनल्ल्य् गिवेन् fओर् चोन्स्पिचुओउस् स्च्रिबल् एर्रोर्स्.
थे स्य्म्बोल्स् अन्द् एदितोरिअल् fएअतुरेस् अरे अस् fओल्लोwस्:
(1) थे लेत्तेर्स् बेत्wएएन् ( ) इन्दिचते थत् थेय् स्होउल्द् बे सुप्प्लिएद्.
(2) थे लेत्तेर्स् wहिछ् सेएम् तो बे wरोन्ग्ल्य् wरित्तेन् अरे उन्देर्लिनेद्. इम्मेदिअतेल्य् अfतेर् थेम् सुग्गेस्तिओन् इस् सुप्प्लिएद् बेत्wएएन् ( ).
(3) लेत्तेर्स् इन् ब्लुए अन्द् उन्देर्लिनेद् अरे तो बे ओमित्तेद्. नो सुग्गेस्तिओन् इस् सुप्प्लिएद् अfतेर् थेम्. थिस् अप्प्लिएस् तो थे ओमिस्सिओन् ओf थे विरम.
(4) थे लेत्तेर्स् बेत्wएएन् [ ] इन्दिचते थत् थेय् अरे ओब्स्चुरे.
(5) अन् इल्लेगिब्ले छरच्तेर् (अक्xअरस्) इस् इन्दिचतेद् ब्य् ओने "+".
(6) स्य्म्बोल्स् wहिछ् सेएम् तो इन्दिचते विरम अरे सुब्स्तितुतेद् ब्य् चोम्म (" , ").
(7) स्य्म्बोल्स् wहिछ् सेएम् तो बे सिद्धम्, एत्च्., अरे सुब्स्तितुतेद् ब्य् " * ".
(8) चन्चेल्लतिओन्स् इन् थे म्स्. अरे नोत् इन्दिचतेद्.
(9) ज्. रेfएर्स् तो थे जिननन्द एदितिओन्.
(10) चोम्पोउन्द्स् इन् wहिछ् हिअतुस् अप्पेअर्स् अरे ह्य्फेनेद्.
(इ.प्.43)
अभिसमाचारिकधर्म
इ.1 म्स्.1ब्1 (ज्.1.1); छ्.499अ22
* नमो बुद्धाय ॥ अभिसमाचारिकाणाम् आदिः ।
भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मां नन्दनो
संघस्थविरो उपनन्दनो द्वितीयस्थविरो दायकदानपती पृच्छन्ति ।
आर्य किं समग्रो भिक्षुसंघो आहंसु नो दीर्घायु । को दानि
नागच्छति । भिक्षू आहंसु संघस्थविरो नागच्छति । ते दानि
ओज्झा(1ब्2)यन्ति । पश्यथ भणे वयन् ताव कर्म्मान्तान् च्छोरय
आगच्छाम । समग्रस्य संघस्य पादान वन्दिष्याम । देयधर्म्मञ्
च प्रतिष्ठापयिष्याम । संघस्थविरो नागच्छति । सो दानि पश्चाद्
आगत्वा संक्षिप्तेन चत्वारि पाराजिकान् धर्म्मान् उद्देशियाण नो च
दक्षिणाम् आदिशति । न परिकथां करोति । उत्थिय गतो । नवका भिक्षू
पृच्छन्ति । आयुष्मान् नागतो संघस्थविरो भिक्षू आहंसु । आगतो (1ब्3) च
गतो च । ते पि नवका भिक्षू आहंसु । नैव संघस्थ(ज्.2)विरस्य आगतिः
प्रज्ञायते न गतिः । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु ।
भगवान् आह । शब्दापयथ नन्दनं सो दानि शब्दापितो । भगवान्
आह । सत्यं नन्दन एवं नाम संघस्य पोषधो ति । तद् एव सर्व्वं
भगवान् विस्तरेण प्रत्यारोचयति नवका भिक्षू ओज्झायन्ति । नैव
संघस्थविरस्या(1ब्4)गतिर् न्न गतिः । प्रज्ञायते ति । आह । आम भगवन् ।
भगवान् आह । तेन हि एवं संघस्थविरेण पोषधे प्रतिपद्यितव्यं ।
किन् ति दानि संघस्थविरेण पोषधे प्रतिपद्यितव्यं । यद् अहो संघस्य
पोषधो भवति । तद् अहो संघस्थविरेण जानितव्यं । किम् अद्य संघस्य
पोषधो चातुर्द्दशिको पाञ्चदशिको सन्धिपोषधो भविष्यतीति किं
पूर्व्वं भक्तं । किं पश्चा(1ब्5)द्भक्तं, । केत्तिक पौरुषाहि च्छायाहि
कहिम् भविष्यति । प्रहाणशालायाम् वा उपस्थानशालायाम् वा ।

अग्निशालायाम् वा । मण्डलमाडे वा । यस्मिन् प्रदेशे यं दिवसं
संघस्य पोषधो भवति । संघस्थविरेण पञ्चसूत्राणि विस्तरेण
स्वाध्यायितव्यानि । यावन्तमसतो (इ.प्.44) चत्वारि पाराजिका गाथाश् च
सिष्टकम् अभीक्ष्णश्रुतिकाया यदि दानि न(ना)गतो सं(1ब्6)घो भवति
संघस्थविरेण यहिं भविष्यति तहिं आरोचयितव्यं, । आयुष्मन् अद्य
संघस्य पोषधो चातुर्द्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा ।
अमुकहिं भविष्यति । प्रहाणशालायाम् वा । उपस्थानशालायाम् वा ।
मण्डलमाडे वा पुरेभक्तम् वा पश्चाद्भक्तम् वा । अति(भि)क्रमन्तु
आयुष्मन्तो नापि दानि आरोचितं मया ति । यत्रोलग्गिकाय आसितव्यं ।
(ज्.3) अथ खलु प्रति(1ब्7)कृत्येव पोषधस्थानं गन्तव्यं सिञ्चापयितव्यो
सन्मार्जयितव्यो गोमयकार्षी दातव्या । आसनप्रज्ञप्ति कर्त्तव्या ।
विभवो भवति शलाका गन्धोदकेन धोवितव्यायो पुष्पेहि ओकिरितव्यायो
संघस्थविरेण जानितव्यं को शलाकां चारयिष्यति । को प्रतिच्छिष्यति । को
प्रातिमोक्षसूत्रं उद्दिशिष्यति । को दक्षिणां आदिशिष्यति । को परिकथां
करिष्यति । यो प्रति(2अ1)बलो भवति । सो अध्येषितव्यो अयं सानं शलाकां
चारेषि । त्वं शलाकां प्रतिच्छेसि । त्वं प्रातिमोक्षसूत्रम् उद्दिशेषि त्वं
भाषेसि त्वं परिकथां करेसि । त्वं दक्षिणां आदिशेसि । तेन
यथाध्येष्टेन शलाका चारयितव्या । द्वितीयेन प्रतीच्छितव्या । नापि
क्षमति शलाकां चारयन्तेन अनिर्म्मादिय हस्तां शलाकां चारयितुं ।
नापि क्षमति । ओगुण्ठिकायकृतेन उपानहा(2अ2)रूढेन वा शलाकां
चारयन्त(तु)ं । अथ खलु हस्तां निर्म्मादिय ओगुण्ठिकां अपनिय
उपानहां ओमुञ्चिय एकांसकृतेन शलाका चारयितव्या । शलाकां पि दानि
गृह्णन्तेन न चापि क्षमति । ओगुण्ठिकाकृतेन वा उपानहारूढेन वा
शलाकां गृह्णितुं, । अथ खलु एकांशकृतेन हस्तान् निर्म्मादिय
ओगुण्ठिकां अपनिय उपानहां ओमुञ्चिय शलाकां गृह्णितव्या । यं कालं
(2अ3) शलाका चारिता भवन्ति भिक्षू गणिता भवन्ति । सामग्री आरोचिता
भवति । दायकदानपति परिपृच्छितव्या । किम् वसिष्यथ अथ
गमिष्यथ । (ज्.4) यदि तावाहंसु गच्छाम ततो देयधर्म्मं
प्रतिष्ठापयितव्यं । देयधर्म्मम् अनुमोदापयितव्यं । धार्म्म्या
कथया संदर्शयितव्याः । समादापयितव्याः । समुत्तेजयितव्याः ।
संप्रहर्षयितव्याः । (2अ4) उद्योजयितव्याः ॥ अथ दानि आहंसु वसिष्याम
न्ति(त्ति) वक्तव्यं । गच्छथ ताव बाह्यतो आमुहूर्त्तं, आगमेथ
भिक्षुसंघो (इ.प्.45) ताव पोषधं करिष्यति । यं कालं दायकदानपति
निर्द्धाविता भवन्ति । ततो सूत्रोद्देशकेन जानितव्यं, ।
यदि ताव नात्या(ति)शीतम् भवति । नात्याति-उष्णं न दूरदूरे विहारका
भवन्ति भिक्षू वा न जरादुर्ब्बला न व्या(2अ5)धिदुर्ब्बला वा भवन्ति ।
न वा सिंहभयम् वा व्याघ्रभयम् वा चौरभयम् वा भिक्षू वा
सुखोपविष्टा भवन्ति । यदि ताव विस्तरेण प्रातिमोक्षसूत्रं श्रोतुकामा
भवन्ति विस्तरेण प्रातिमोक्षसूत्रं उद्दिशितव्यं । अथ दानि अतिसि(सी)तम्
वा (अति)उष्णम् वा भवति । भिक्षू वा जरादुर्ब्बला वा व्याधिदुर्ब्बला वा

भवन्ति । सिंहभयम् वा व्याघ्रभयम् वा चौरभयम् वा भिक्षू
(2अ6) च न विस्तरेण प्रातिमोक्षसूत्रं श्रोतुकामा भवन्ति । संक्षिप्तेन
चत्वारि पाराजिकां धर्म्मां उद्दिशियानं शिष्टकं अभीक्ष्णश्रुतिकाये
गाथाये च ततो यथासुखं कर्त्तव्यं ।
अथ दानि सर्व्वरात्रिका भवति । ततो अध्येषितव्यं । त्वं भाषयेसीति ॥
यथाध्येष्टेहि भाषमाणं सर्व्वरात्रिं धर्म्मवृष्टिये
वीतिनामियानं दायकदानपति (ज्.5) धर्म्या कथया संदर्शयितव्या
समादा(2अ7)पयितव्या समुत्तेजयितव्या संप्रहर्षयितव्या उद्योजयितव्या
यथासुखं कर्त्तव्यं । अभिप्रमोदन्तु आयुष्मन्तो । एवं
संघस्थविरेण पोषधे प्रतिपद्यितव्यं । न प्रतिपद्यति ।
अभिसमाचारिका(ं) धर्म्मां अतिक्रमति* ॥॥
इ.2 म्स्.2अ7 (ज्. 5.5); छ्.499च्2
भगवान् श्रावस्त्याम् विहरति । शस्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मां नन्दनो (2ब्1)
संघस्थविरो उपनन्दनो द्वितीयस्थविरो संघस्थविरो आगतो भिक्षु
आगता द्वितीयस्थविरो नागच्छति । दायकदानपति दानि देयधर्म्माणि
आदाय प्रतिपालेन्ति । समय(ग्र)ं च भिक्षुसंघम् वन्दिष्यामः ।
देयधर्म्मञ् च प्रतिष्ठापयिष्यामो ति ॥ ते दानि पृच्छन्ति । आर्य
समग्रो भिक्षुसंघो अ(आ)हंसु नोहेतं दीर्घायु को खलु नागच्छति ।
आहंसु द्वितीयस्थविरो नाग-च्छ(2ब्2)ति । ते दानि ओज्झायन्ति वयं ये(व)
ताव कर्म्मान्ता च्छोरिय आगतागच्छाम समग्रस्य संघस्य पादां
वन्दिष्यामः । देयधर्म्मञ् (इ.प्.46) च प्रतिष्ठापयिष्यामः ।
द्वितीयस्थविरो पि नागच्छति । ते दानि मुहू-र्त्तमात्रं प्रतिपालिय आसित्वा
देयधर्म्मं प्रतिष्ठापयित्वा गताः । सो दानि अतिविकाले आगतो
संघस्थविरो ओज्झायति । अस्माकं भगवान् दण्डकर्म्मन् ददाति
द्वितीयस्थविर(2ब्3)स्य मोन्ति(त्ति)का । एतं प्रकरणं भिक्षू भगवतो
आरोचयन्ति । भगवान् आह ॥ शब्दापयथ उपनन्दनं सो दानि
शब्दापितो । भगवान् आह ॥ सत्यं उपनन्दन (ज्.6) एवं दानि संघस्य
पोषधो ति । तद् एव सर्व्वं भगवां विस्तरेण प्रत्यारोचयति । याव
संघस्थविरो पि ओज्झायति । अस्माकं भगवां दण्डकर्म्मन् देति ।
द्वितीयस्थविरस्य मोन्ति(त्ति)का (2ब्4) आह । आम भगवन्
भगवान् आह । तेन हि एवं द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यं ।
किन् ति दानि द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यं । यद् अहो दानि
संघस्य पोषधो भवति । संघस्थविरो न प्रतिबलो भवति ।
द्वितीयस्थविरेण जानितव्यं । किं अद्य संघस्य पोषधो चतुर्द्दशिको वा
पाञ्चदशिको वा सन्धिपोषधो वा किं रा(2ब्5)त्रिपोषधो भविष्यति
दिवापोषधो पुरेभक्ति भविष्यति । पश्चाद्भक्तं । कहिं भविष्यति ।
उपस्थानशालायाम् वा प्रहाणशालायाम् वा मण्डलमाडे वा ।
उच्छेदनके वा निषद्याय वा त्ति यहिम् भवति । तहिं आरोचयितव्यं ।
आयुष्मन् अद्य संघस्य पोषधो चातुर्द्दशिको वा पाञ्चदशिको वा ।

अथ दानि संघस्थविरो न प्रतिबलो भव(2ब्6)ति । द्वितीयस्थविरेण
प्रकृत्येव पोषधस्थानं सिञ्चापयितव्यं । सन्मार्जयितव्यं ।
गोमयकार्षी दातव्या आसनप्रज्ञप्तिः कर्त्तव्या विभवो भवति शलाका
गन्धोदकेन धोवयितव्या।यो पुष्पेहि ओकिरितव्यायो संघस्थविरो न
प्रतिबलो भवति । द्वितीयस्थविरेण जानितव्यं को शलाकां चारयिष्यति । को
शलाकां प्रतिच्छिष्यति । को प्रातिमोक्षसूत्रम् उद्दिशिष्य(2ब्7)ति । को
भाषिष्यति । को दक्षिणां आदिशिष्यति । को परिकथां करिष्यति । यो प्रतिबलो
भविष्यति । सो अध्येषितव्यो । त्वं शलाकां चारयिष्यसि । त्वं प्रतिच्छेष्यसि
याव त्वं परिकथां कारयसीति । ततो शलाकां चारन्तेन न (ज्.7) क्षमति
ओगुण्ठिकाकृतेन वा उपानहारूढेन वा हस्तेहि वा अनिर्म्मादितेहि
शलाकां चारयितुं । अथ खलु हस्तान् निर्म्मादियानं उपानहां
ओमुञ्चिय (3अ1) एकांसकृतेन शलाका चारयितव्या शलाकां पि
प्रतिच्छन्तेन न क्षमति ओगुण्ठिकाकृतेन वा उपानहारूढेन वा
(इ.प्.47) हस्तेहि वा अनिर्म्मादितेहि शलाकां प्रतिच्छितुं । अथ खलु हस्तान्
निर्म्मादियाण उपानहां ओमुञ्चियाण एकांसकृतेन शलाका
प्रतिच्छितव्या । यदा शलाका चारिता भवन्ति भिक्षू गणिता भवन्ति
सामग्री आरोचिता भवति । ततो दायकदानपती पृच्छि(3अ2)तव्याः किम्
वसिष्यथ उत गमिष्यथ यदि ताव जल्पन्ति । गच्छाम ततो
देयधर्म्मं प्रतिष्ठापयितव्या देयधर्म्मो अनुमोदापयितव्यो
परिकथा कर्त्तव्या धार्म्या कथया संदर्शिय समादापिय समुत्तेजिय
सम्प्रहर्षयित्वा उद्योजयितव्या । अथ दानि जल्पन्ति वसिष्याम न्ति(त्ति)
वक्तव्यं । मुहूर्त्तन् ताव बाह्यतो आगमेथ संघो ताव पोषधं
करिष्यति । यदा काले दायकदानपति (3अ3) निर्द्धाविता भवन्ति ततो
सूत्रोद्देशकेन जानितव्यं ।
यदि ताव अतिसीतम् वा अति-उष्णम् वा भवति । भिक्षू वा जरादुर्ब्बला वा
व्याधिदुर्ब्बला वा भवन्ति दूरदूरे वा परिवेणा भवन्ति सिंहभयम्
वा व्याघ्रभयम् वा चोरभयम् वा भवति । भिक्षू वा न विस्तरेण
श्रोतुकामा भवन्ति । संक्षिप्तेन (ज्.8) चत्वारि पाराजिका उद्दिशितव्यं ।
शिष्टकं अभीक्ष्णश्रुतिकाये गा(3अ4)थायो च । ततो यथासुखं
कर्त्तव्यं । अथ दानि नात्यातिशीतं न चात्याति-उष्णं न दूरदूरे
परिवेणा भवन्ति । भिक्षू च सुखोपविष्टा भवन्ति विस्तरेण श्रोतुकामा
ततो विस्तरेण प्रातिमोक्षसूत्रं उस्सारयितव्यं । ततो यथासुखङ्
कर्त्तव्यं ।
अथ दानि सर्व्वरात्रिका भवति । संघस्थविरो न प्रतिबलो भवति
द्वितीयस्थविरेण अध्येषितव्यं । त्व(3अ5)या भाषितव्यं त्वया भाषितव्यं
यथाध्येष्टेहि भाषणाय सर्व्वरात्रिं धर्म्मवृष्टिये वीतिनामिय ।
(या)न दायकदानपति धार्म्म्य(या) कथया सन्दर्शिय समादापिय
समुत्तेजिय संप्रहर्षयित्वा उद्योजयितव्या । ततो यथासुखं कर्त्तव्यं ।
अभिप्रमोदयंतु आयुष्मन्तो अभिप्रमोदयंतु आयुष्मन्तो अप्रमादेन
संपादयितव्यं । एवं द्वितीयस्थवि(3अ6)रेण पोषधे प्रतिपद्यितव्यं । न

प्रतिपद्येति अभिसमाचारिकां धर्म्मान् अतिक्रमति ॥ *॥
(इ.प्.48) इ.3 म्स्.3अ6 (ज्. 8.14); छ्.499च्14
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मान् नन्दनो
संघस्थविरो उपनन्दनो द्वितीयस्थविरो आगतो भिक्षू ओसरन्तिकाये न
आगच्छन्ति दायकदानपति पृच्छन्ति आर्य समग्रो भिक्षुसंघो भिक्षू
आहं,(3अ7)सु । नोहीदं दीर्घायु को खु नागच्छति । भिक्षू आहंसु ।
(ज्.9) एते हि भिक्षू ओसरन्तिकाये न आगच्छन्ति । ते दानि ओज्झायन्ति । वयं
येच(व) कर्म्मान्तां च्छोरिय च्छोरिय आगता आगच्छाम । समग्रस्य
पादां वन्दिष्याम । देयधर्म्मञ् च प्रतिष्ठापयिष्यामः । इमे पि
आर्यमिश्रा ओसरतिकाये नागच्छन्ति । संघस्थविरो च द्वितीयस्थविरो च
ओध्यायन्ति । अस्माकं भगवां दण्डकर्म्मन् देति । एषां, (3ब्1)
मोन्ति(त्ति)को भिक्षू एता(त)म् प्रकरणं आरोचयन्ति भगवान् आह ।
शब्दापयथ भिक्षून ते दानि शब्दापिताः । भगवान् आह । सत्यं
भिक्षवो एवं दानि संघस्य पोषधो ति । तद् एव सर्व्वं भगवान्
विस्तरेण प्रत्यारोचयति । याव संघस्थविरो च द्वितीयस्थविरो च
ओध्यायन्ति । अस्माकं भगवान् दण्डकर्म्मन् देति । इमेषां मोन्ति(त्ति)का
आहंसुः । आम भगवन्
भगवान् आह । तेन हि सर्व्वेहि एवं (3ब्2) पोषधे प्रतिपद्यितव्यं । किन्
ति दानि । एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यं । सर्व्वेहि जानितव्यं । किं
खल्व् अद्य पक्षस्य प्रतिपदा द्वितीया यावत् पञ्चदशी यदि दानि कोचि
पृच्छति । भन्ते कतमाद्य न दानि वक्तव्यं । कतमा पुन हि यो
भूषीति । अवश्यं वंसविदलिकाहि वा नलविदलिकाहि वा लिखित्वा सूत्रेण
आब्र(बु)णित्वा द्वारकोष्ठके वा प्रासादे वा कल्पियकुटिकायां वा
बन्धितव्यं (3ब्3) कीलकानि खनेत्वा द्वारे (ज्.10) स्था(त)व्यं । यो दानि
भवति मासचारिको वा पक्षचारिको तेन एकम् एकं संसारयितव्यं
देवसिकं यथाज्ञापेत कतिम् आद्य सर्व्वेहि जानितव्यं । एषो दानि
संघस्य पोषधो भवति । संघस्थविरो न प्रतिबलो भवति ।
द्वितीयस्थविरो न प्रतिबलो भवति । यो तत्र प्रतिबलो भवति तेन
जानितव्यं । किं अद्य संघस्य (3ब्4) पोषधो चातुर्द्दशिको वा
पाञ्चदशिको वा सन्धिपोषधो वा दिवारात्रौ वा (इ.प्.49) पोषधे
पुरोभक्तं वा पश्चाद्भक्तम् वा कति पौरुषाहि च्छायाहि कहिं
भविष्यति । प्रहाणशालायाम् वा उपस्थानशालायाम् वा मण्डलमाडे वा
ओच्छेदके चंक्रमे वा निषद्याय न्ति(त्ति) यहिं भवति तहिं
आरोचयितव्यं । अभिक्रमन्तु आयुष्मन्तो ति नायं (क्षमति) आरोचितं
म(3ब्5)या ति पा(य)त्रोल्लग्गिकाये आसितुं ।
अथ खलु यदि ताव संघस्थविरो न प्रति(बलो) भवति । द्वितीयस्थविरो
न प्रतिबलो भवति । यो तत्र प्रतिबलो भवति । तेन प्रकृत्येव
पोषधस्थानं गन्तव्यं पोषधस्थानं सिञ्चितव्यं । सन्मार्जितव्यं ।
गोमयकार्षी दातव्या आसनप्रज्ञप्तिः कर्त्तव्या । विभवो भवति शलाका

गन्धोदकेन धोवितव्या । पुष्पे(3ब्6)हि ओकिरितव्या । संघस्थविरो न
प्रतिबलो भवति । द्वितीयस्थविरो न प्रतिबलो भवति । यो तत्र प्रतिबलो
भवति । तेन जानितव्यं । को शलाकां चारयिष्यति । को शलाकां
प्रतिच्छिष्यति । को प्रातिमोक्षसूत्रम् उद्दिशिष्यति । को दक्षिणां
आदिशिष्यति । को परिकथां करिष्यति । यदि तावत् प्रतिबलो भवति आत्मना
सर्व्वं कर्त्तव्यं । अथ दानि न प्रतिबलो भवति । यो तत्र प्रति(3ब्7)बलो
भवति । सो अध्येषितव्यो त्वं शलाकां (ज्.11) चारयेसि त्वं शलाकां
प्रतिच्छेसि त्वं प्रातिमोक्षं उद्दिशेसि त्वं भाषेसि त्वं दक्षिणां आदिशेषि
त्वं परिकथां कारयेसि । शलाकां पि च चारयन्तेन न क्षमति ।
अनिर्म्मादितकेहि हस्तेहि उपानहारूढेन ओगुण्ठि(काकृ)तेन वा शलाकां
चारयितुं ।
अथ खलु हस्तां निर्म्मादिय उपानहां ओमुञ्चिय एकांशकृतेन शलाका
चारयितव्या (4अ1) शलाकां पि दानि प्रतिच्छन्तेन न क्षमति ।
अनिर्म्मादितकेहि हस्तेहि उपानहारूढेन वा ओगुण्ठिकाकृतेन वा
शलाकां प्रतिच्छितुं ॥ अथ खलु हस्तां निर्म्मादियाण उपानहां
मुञ्चिय एकंशकृतेन शलाका प्रतिच्छितव्या । यं कालं शलाका चारिता
भवन्ति । भिक्षू गणिता भवन्ति । सामग्री आरोचिता भवति ।
दायकदानपति पृच्छितव्याः ः । किम् वशिष्यथ अथ (4अ2) गच्छथ । यदि
ताव जल्पन्ति । गच्छाम न्ति(त्ति) देयधर्म्म प्रतिष्ठापयितव्यो ।
देयधर्म्मम् अनुमोदापयितव्यो । धार्म्या कथया संदर्शिय
समादापिय समुत्तेजिय संप्रहर्षयित्वा उद्योजयितव्या ।
(इ.प्.50) अथेदानिं जल्पन्ति वसिष्याम न्ति(त्ति) । वक्तव्यं । बाह्यतो ताव
यूयं मुहूर्त्तम् आगमेथ संघो ताव पोषधं करिष्यति । यं कालं
दायकदानपति निर्द्धाविता भवन्ति । ततो सूत्रोद्देश(4अ3)केन
जानितव्यं । यदि ताव नातिशीतं भवति नात्यूष्णम् वा चोरभयम् वा न
भवति सिंहभयं वा व्याघ्रभयं वा न (ज्.12) भवति । न दूरदूरे
वा परिवेणा भवन्ति भिक्षू वा न जरादुर्ब्बला वा व्याधिदुर्ब्बला
भवन्ति । सुखोपविष्टा भवन्ति विस्तरेण श्रोतुकामा भवन्ति । ततो
विस्तरेण प्रातिमोक्षसूत्रं उद्दिशितव्यं । अथ दानि सर्व्वरात्रिका भवति ।
भाषणका (4अ4) अध्येषितव्याः । त्वया भाषितव्यं त्वया भाषितव्यन् ति ॥
यथाध्येष्टेहि । भाषियाणं सर्व्वरात्रि धर्म्मवृष्टियेर्
व्वीतिनामियान दायकदानपति धर्म्या कथया संदर्शयितव्या याव
उद्योजयितव्या । ततो यथासुखं कर्त्तव्यं । अभिप्रमोदतु आयुष्मन्तो
अप्रमादेन संपादयितव्यं । एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यं न
प्रतिपद्यन्ति विनयातिक्रमम् आ(4अ5)सादयन्ति* ॥॥
इ.4 म्स्.4अ5 (ज्.12.11); छ्.499च्28
भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तं आयुष्मान्
नन्दनो संघस्थविरो द्वितीयस्थविरो उपनन्दनो आगतो भिक्षू आगताः ।
संघस्थविरो नागच्छाति । ओदनो शीतलो भवति । सूपो शीतलो भवति ।

घृतं थीयति मांसं थीयति व्यञ्जनानि शीतली(4अ6)भवन्ति ।
दायकदानपति पृच्छन्ति । आर्य किं समग्रो भिक्षुसंघो आहंसु
नोहेदं दीर्घायु को खु नागच्छति । आहंसु संघस्थविरो नागच्छति ।
ते दानि ओज्झायन्ति । वयं येच(व) ताव कर्म्मान्तां च्छोरिय
आगतागच्छागच्छाम समग्रं भिक्षुसंघं परिविशिष्यामः ।
संघस्थविरो पि नागच्छति । (ज्.13) सो दानि पश्चाद् आगच्छियाण
भुंजियाण संक्षिप्तेन दक्षिणाम् आदिशिय न परिकथां (4अ7) करोति ।
नापि दायकदानपतिं धर्म्या कथया (इ.प्.51) संदर्शयति
समादापयति । समुत्तेजयति । संप्रहर्षयति । उत्थिहि(य) गतो नवका
भिक्षू पृच्छन्ति । आगतो संघस्थविरो आहंसु आगतो च गतो च ते दानि
ओध्यायति नैव संघस्थविरस्य आगतिर् (न) ग्गतिः प्रज्ञायति । एतं
प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान् अह । शब्दापयथ
नन्दनं । सो (4ब्1) दानि शब्दावितो भगवान् आह । सत्यं नन्दन एवन्
नाम संघस्य बाहिरकं भक्तं (नन्दनो) संघस्थविरो उपनन्दनो
द्वितीयस्थविरो ति तद् एव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति । याव
नवका भिक्षू ओध्यायन्ति । याव संघस्थविरस्यागतिर् न्न गति
प्रज्ञायते । आह । आम भगवन्
भगवान् आह । तेन हि संघस्थविरेण एवं भक्ताग्रे प्रतिपद्यितव्यं ।
किन् ति दानि संघस्थविरे(4ब्2)ण एवं भक्ताग्रे प्रतिपद्यितव्यं ।
संघस्थविरेण जानितव्यं । कस्याद्य भक्तं उभयतो सांघिकं
सर्व्वं सांघिकं परिवेणिकं । पाटियभक्तं ग्रामे विहारे एषो दानि
कोचि संघं भक्तेन शुवेतनाय निमन्त्रेति । न दानि संघस्थविरेण
गतागतस्य अधिवासयितव्यं । अथ खलु संघस्थविरेण जानितव्यं को
यं निमन्त्रेति । आगन्तुको गमिको गृहस्थो प्रव्रजितो स्त्री पुरुषो
दा(4ब्3)रको दारिका पृच्छितव्यं । किन् नामको सि (ज्.14) किङ् गोत्रको सि । किं
कर्म्मिका ते मातापितरौ कतमं देशं गृहं कतमायां रथ्यायां
कुतो मुखं गृहस्य वा साकारं सोद्देशं पृच्छियाणं ततो
धिवासयितव्यं । नापि दानि अधिवासित(ं) मयेति । यत्रोल्लग्नाये आसितव्यं ।
अथ खलु प्रकृत्येव मासचारिको पक्षचारिको वा प्रेषयितव्यो गच्छ
जाना(4ब्4)हि किं सज्जियतीति । अनेकाय तहि जातकं भवेयं मृतकम् वा
भवेय सन्धि वा च्छिन्नो अग्निदाहो वा राजकुलातो वा उपद्रवो ढोस्सा वा
विटा वा वातपुत्रो वा विहेठनाभिप्राया निमन्त्रयेंसु तेन गच्छिय
पृच्छितव्यं । कोचि इमंहि इत्थन्नामो नाम उपासको यदि ताव आहंसु
नास्ति अस्माकं कोचि एवं नाम उपासको वक्तव्यं [भि]क्षु(4ब्5)संघो तेन
निमन्त्रितो किं सिध्यति वा पच्यति वा । यदि ताव आहंसु कस्य भक्तं
कस्य सिध्यति कस्य पच्यतीति जानितव्यं । विप्रलब्धो भिक्षुसंघो ति
(इ.प्.52) आगच्छिय यदि ताव अनुग्रहो भवति अनुग्रहो साधयितव्यो ।
अनुग्रहो न भवति भक्तानि भवन्ति । भक्तानि उद्दिशितव्यानि । भक्तानि
न भवन्ति रणरणा(य) गण्डि आहणिय वक्तव्यं । आयु(4ब्6)ष्मन्
विप्रलब्धो भिक्षुसंघो स्वकस्वकां वृत्तिं पर्येषथ । सर्व्वेहि

पटिपाटिकाय पिण्डाय प्रविशितव्यं । अथ दानि ते जल्पन्ति । भन्ते एतं
सिध्यति प्रविशति(तु) भिक्षुसंघो ति ततो रणरणाय गण्डी आहणिय यदि
ताव हेमन्तो भवति अनुकालं (ज्.15) प्रविशितव्यं । मा कालो
तिक्रयि(मि)ष्यतीति । अथ दानि ग्रीष्मो कालो भवति शीतलकसंगेन
अनुकाल्यं प्रविशितव्यं ॥
अथ (4ब्7) दानि वर्षारात्रो कालो भवति देवान्तरायेन अनुकाल्यं
प्रविशितव्यं । मा कालो अतिक्रमिष्यतीति । यदि ताव (न) संज्ञ(ज्ज)म्
भवति । महन्तो च कालो भवति कहिञ्चि च गन्तुकामो भवति । कस्यचित
भिक्षुस्य जल्पितव्यं । अमुकं कुलं उपसंक्रमिष्यथ यदा सज्जं
भवेय । ततो मा पटिसरेसि । न दानि तेन आमन्त्रितं मया ति
भद्रपालकृत्येहि हण्ठितव्यं । अथ खलु प्रति(5अ1)कृत्येव आगन्तव्यं
प्रविशतेहि जानितव्यं । कथं आसना प्रज्ञप्ताः । अतिदक्षिणम् अनुवामां
कदाचि मङ्गलकरणीये अतिदक्षिणं प्रज्ञप्तं भवति । तथा येव
उपवेष्टव्यं । अथ दानि प्रेतकरणीये अनुवामं प्रज्ञप्तं भवति ।
तथा येव उपवेष्टव्यं नापि दानि क्षमति । प्रविशन्तेहि भण्डं
लंघंतेहि कांसभाजनं लंघंतेहि दारकदारिकां लंघंतेहि
गन्तुं । अथ खलु भण्डं प(5अ2)रिवर्जन्तेहि कांसभाजनं
परिवर्जन्तेहि दारकदारिकांस परिवर्जन्तेहि प्रविशितव्यं । नापि दानि
क्षमति गतागतस्य उपविशन्त(तु)ं । अथ खलु हस्तेन आसनं
प्रत्यवेक्षितव्यं । अनैकायो तत्र गर्भरूपाणि सोपायितकानि भवेंसुः ।
कांसभाजनानि वा थपितकानि भवेंसुः । अथ खलु हस्तेन
परांमृशियाण जानितव्यं । ओहेष्य(य्य)कानां (ज्.16) ग्लानकानां
प्रतिकृत्ये(5अ3)व दापितव्यं । अथ दानि सो मनुष्यो अनाचीर्ण्णदानो वा
भवति । तित्तिनो वा भवति न दानि अध्युपेक्षितव्यं । वक्तव्यं दीर्घायु
अवश्यन् तेषां दातव्यं पिण्डपातं (इ.प्.53) । अथ दानि दायकदानपति
जल्पन्ति पटिपाटिकाय गृह्नथ न्ति(त्ति) हेमन्तो च कालो भवति वक्तव्यं
नहि न्ति(त्ति) । भगवता अनेकपर्यायेण ग्लानो परित्तो किम् वा अम्भेहि
विहारशू(5अ4)न्यं शक्यं कर्त्तुं ति लघु कालो अतिक्रमति । देथ यूयन् ति
अथ दानि ग्रीष्मो वा वर्षा वा रात्रो वा कालो भवति चिरेहि कालो
अतिक्रमति । पटिपाटिकाय गृह्नितव्यं । ततो संघस्थविरेण जानितव्यं ।
किं आरभ्य देति तथा येच(व) निमन्त्रणापेतव्यं भोजनं दीयति
महन्तो पिण्डो परिगृहीतो भवति । संघस्थविरेण वक्तव्यं । सर्व्वेषां
एत्त(5अ5)क-एत्तकं भविष्यति । आह । नहि आर्यस्य एतं एवं दीयति
वक्तव्यं । तथा देहि । यथा सर्व्वेषां समं भवति । अथ दान् आह
भविष्यतीति प्रतीच्छितव्यं । अथ दानि सो थोकिना अर्थिको भवति
वक्तव्यं मम थोकं देहि हेष्ठा बहुं एवं ॥ पे ॥ सूपस्य घृतस्य
मांसस्य ओलंकानां दधिस्य ततो नापि क्षमति संघस्थविरेण लब्धो
पिण्डो (5अ6) द्वारं पश्यिय लप्यल(प्)याये भुंजियाण उत्थिहिय गन्तुं ।
अथ खलु ओदनसम्पत्तिर् व्वा आगमंतेन भुंजितव्यं ।
व्यञ्जनसम्पत्तिर् व्वा आगमंतेन भुञ्जितव्यं न भुञ्जित्वा हस्तं

निक्षिपिय आसितव्यं । मा हेव ओत्रपेंसु । अथ खलु अनुजानेतव्यं । यदा
नवकाः सन्तर्पिता भवन्ति । उपग्रायन्ति पानीयं वा पिबन्ति । हस्ताम् वा
उक्कढ्ढिय आसन्ति । न दानि संघस्थविरेण भुञ्ज(5अ7)न्तकेनैव
उत्थाय आसनातो गन्तव्यं । लब्धो पिण्डो द्वारं पश्यिय । अथ खलु
संघस्थविरेण आगमेतव्यं । दीर्घोदकं दापेतव्यं । परिकथा
कर्त्तव्या । दक्षिणा आदिसितव्या । जानितव्यं । किम् आलम्बनं भक्तं
जातकं मृतकम् वा चे(वे)वाहिकम् वा गृहप्रवेशकम् वा आगन्तुकस्य
गमिकस्य गृहस्थस्य प्रव्रजितस्येति ।
यदि ताव जान(त)कंभवति । नायं दक्षिणा आदि(शि)त(5ब्1)व्या ।
अयं कुमारो शिवपथिकाय च्छन्दितो
अङ्गुष्ठस्नेहेन यापये सप्तरात्रं
शुनखा शृगाला च नं लंघयन्तु ।
(इ.प्.54) काका च अक्षिमलं हरन्ता
(ज्.18) नायं एवं दक्षिणा आदिशितव्या ।
अथ खलु दक्षिणा आदिशितव्या ।
अयं कुमारो शरणं उपेतु
बुद्धं विपश्यिञ् च शिखि(ञ्) च विश्वभुं
क्रकुच्छन्द कोनाकमुनिञ् च काश्यपं
महायशं शाक्यमुनिञ् च गौतमं ।
एतेहि बुद्धेहि महर्द्धिकेहि
(5ब्2)ये देवता सन्ति अभिप्रसन्ना
ता नं रक्षंतु ता च नं पालयन्तु
यथा नं इच्छति माता यथा नं इच्छति पिता
अतो श्रेयतरो भोतु कुमारो कुलवर्द्धनो ।
एवं दक्षिणा आदिशितव्या ।
अथ दानि मृतकं भवति । नायं क्षमति । एवं दक्षिणा आदिशितुं
अद्य ते सुदिवसं सुमहाबलं
भद्रकाक्षण मुहूर्त्तं प्रस्थिता
अद्य ते सुविहिते सुविहितेहि ।
दक्षिणा अग्रभाजनग(5ब्3)गता विरोचति ।
(ज्.19) नायं एवं दक्षिणा आदिशितव्या ।
अथ खलु दक्षिणा आदिशितव्या ।
सर्व्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितं ।
यथाकर्म्म गमिष्यन्ति पुण्यपापफलोपगाः ॥
निरयं पापकर्म्माणो कृतपुण्या च स्वर्ग्गतिं ।
अपरे मार्ग्गम् भावयित्वा परिनिर्व्वान्ति अनाश्रवा इति ॥
(इ.प्.55) एवं दक्षिणा आदिशितव्या ॥
अथ दानि वेदा(वा)हिकं भवति । ना(5ब्4)यं दक्षिणा आदिशितव्या ।
नग्ना नदी अनोदिका नग्नं राष्ट्रं अराजकं ।
इस्त्री पि विधवा नग्ना सचेस्या दश भ्रातरो

(ज्.20) नायं एवं दक्षिणा आदिशितव्या ।
अथ खलु दक्षिणा आदिशितव्या ।
इस्त्रि पि पेशला भवतु श्राद्धा भवतु पतिव्रतानुगा
शीलवती यो(त्या)गसम्पन्ना सम्यग्दृष्टि च या इह ।
पुरुषो पि पेशला भवतु श्राद्धो भवतु व्रता(5ब्5)नुगो ।
शीलवां त्यागसम्पन्नो सम्यग्दृष्टि च यो इह ॥
उभौ श्रद्धाय सम्पन्ना उभौ शीलो(ले)हि संवृता ।
उभौ पुण्यानि कृत्वान समशीलव्रता उभौ ॥
विधिना देवलोकस् तु मोदन्तु कामकामिनो ।
ताम् एव भार्यां चरेया यो अस्या सीलेहि संवृता ॥
असतिं परिवर्जेया मार्ग्गं प्रतिभयं यथा ।
एवं दक्षिणा आदिशितव्या ॥
अथ दा(5ब्6)नि घरप्रवेशनिकं भवति । नायं दक्षिणा आदिशितव्या ।
(ज्.21) आदीप्तस्मिं आगरे यो निहरति भण्डकं तं
खु तस्य स्वकं भवति । न खलु यो तत्र दह्यति ।
एवम् आदीपिते लोके मृत्युना च जरया च
यो नीहरति । दानेन दिन्नं तं आहुति हुतं ।
नायं एवं दक्षिणा आदिशितव्या ॥
अथ खलु दक्षिणा आदिशितव्या
विभक्तभागं रुचिरं मनोरमं
(इ.प्.56) प्रशस्तम् आर्ये[ह्]इ नवं निवे(5ब्7)शनं ।
प्रविश्य वृद्धिये वराये भूरीये
शिरीये लक्ष्मीपरिग्रहेण च ।
इमस्मि आगारे निवसन्तु देवताः ।
महाभिषङ्क न च अनुकम्पिका
यं विभवधनधान्येन सम्भवो
भूर् इमे च सा यस्मिं प्रदेशे
मेधावी वा संकल्पेति पण्डितो
शीलवातन्त्र(न् तत्र) भोजेया संयतां ब्रह्मचारिणो ।
(ज्.22) या तत्र देवता अस्या तासां दक्षिणाम् आदिशेहि ।
ताये वस्तुमालानां चिररात्राय क(6अ1)ल्पते ॥
भोजनावस्तुपाला सत्कृता प्रतिमानिता ।
ग्रामे वा यदि वारण्ये निम्ने वा यदि वा स्थले
दिवा वा यदि वा रात्रौ देवा रक्षन्तु दायकान् ॥
देवानुकम्पितो पोषो सदा भद्राणि पश्यति ॥
एवं दक्षिणा आदिशितव्या ।
अथ दानि गमिकं भक्तं भवति । नायं दक्षिना आदिशितव्या ।
सर्व्वा दिशासु भया समाकुला
स-उत्तरा सपुरस्तिमा [दक्षि]णा पश्चिमा च
स(6अ2)सर्व्वो च लोको संकुलजातो

मा प्रमज्जि जिनशासने ॥
नायं एवं दक्षिणा आदिशितव्या ॥
अथ खलु दिशा सौवस्तिका दक्षिणा विस्तरेण दक्षिणा आदिशितव्या ।
यथा पात्रप्रतिसंयुक्ते एवं दक्षिणा आदिशितव्या ।
अथ दानि प्रव्रजितस्य भवति । नायं दक्षिणा आदिशितव्या
(ज्.23)पुत्रम् वा पशुम् वा आरभ्य धनधान्यप्रियाणि वा
(इ.प्.57) देवभावं वा मनुष्यम् वा पञ्चधो (6अ3) मनसि प्रीयन्ति ।
न एवं दक्षिणा आदिशितव्या ॥
अथ खलु दक्षिणा आदिशितव्या ।
सुदुष्करं प्रव्रजितस्य दानं पात्रेण भैक्षं अभिसाहरित्वा ।
कुलात् कुलं चरिय पिण्डपातं क्रुद्धप्रसन्नानां मुखं
उदीक्षियं ॥
सो यं श्रेष्ठायतने प्रतिष्ठितो पात्रसंहृतो लाभो प्रीतिं जनेहि
सुविहिता तथा हि दिन्नं इमं दानन् ति ।
एवं दक्षिणां । (6अ4) आदिशिय गन्तव्यं ।
एवं संघस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं । न प्रतिपद्यति ॥
अभिसमाचारिकां धर्म्मान् अतिक्रमति ॥ * ॥
इ.5 म्स्.6अ4 (ज्.23.12); छ्.499च्28
भगवान् श्रावस्त्याम् विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च ।
विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तं । आयुष्मान्
नन्दनो संघस्थविरो उपनन्दनो द्वितीयस्थविरो संघस्थविरो
आग(6अ5)तो द्वितीयस्थविरो नागच्छति । दायकदानपति पृच्छन्ति । आर्य किं
समग्रो भिक्षुसंघो भिक्षू आहंसु । नोहेति दीर्घायु को दानि
नागच्छति (ज्.24) आहंसु द्वितीयस्थविरो नागच्छति । ते दानि ओध्यायन्ति ।
पश्यथ भणे वयं येव भा(ता)व कर्म्मान्तां च्छोरिय आगच्छाम
समग्रं भिक्षुसंघं परिविशिष्याम । आर्यमिश्राणाञ् च पादां
वन्दिष्यामः (6अ6) द्वितीयस्थविरो नागच्छति । संघस्थविरो पि
ओध्यायति । अस्माकं भगवां दण्डकर्म्मन् देति । द्वितीयस्थविरस्य
मुन्ति(त्ति)का ॥ एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान्
आह । शब्दापयथ उपनन्दनं सो दानि शब्दापितो भगवान् आह । सत्यं
उपनन्दन एवं नाम संघस्य बाहिरकं भक्तं नन्दनो
संघस्थविरो त्वं द्वितीयस्थविरो संघस्थविरो आगतो भि(6अ7)क्षू
आगताः । त्वं नागच्छसि । दायकदानपति पृच्छति । आर्य किं समग्रो
भिक्षुसंघो भिक्षू आहंसु । नहि को खलु नागच्छति द्वितीयस्थविरो
नागच्छति । ते दानि ओध्यायन्ति । वयं (इ.प्.58) येव ताव कर्म्मान्तं ।
च्छोरिय आगता गच्छामः । समग्रं भिक्षुसंघं परिविशिष्यामः ।
आर्यमिश्राणां च पादां वन्दिष्यामः । द्वितीयस्थविरो नागच्छति ।
संघस्थविरो पि ओध्यायति । अ(6ब्1)स्माकं भगवान् दण्डकर्म्म देति ।
द्वितीयस्थविरस्य मुत्तिका । आह । आम भगवन्
भगवान् आह । तेन हि एवं द्वितीयस्थविरेण भक्ताग्रे

प्रतिपद्यितव्यं । किन् ति दानि द्वितीयस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं ।
एषो दानि कोचि भिक्षुसंघं भक्तेन निमन्त्रयति । संघस्थविरो (ज्.25)
न प्रतिबलो भवति । द्वितीयस्थविरेण जानितव्यं । को निमन्त्रेति ।
भिक्षुभिक्षुनी उपासकोपासिका आग(6ब्2)न्तुको गमिको वाणिजको
सार्थवाहो किन् नामको किं जातिको किं कर्म्मिका से मातापितरौ
कतमस्मिन् देशे गृहं कतमायां रथ्यायां कुतो मुखं गृहस्य
द्वारं । साकारं सोद्देशं पृच्छिय ततो धिवासयितव्यं । नायं
अधिवासितं मयेति । यत्रोल्लग्नाये आसितव्यं ।
यदि ताव संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरेण
अपरेज्जुकाये च मासचा(6ब्3)रिको वा पक्षचारिको । प्रेषयितव्यो वक्तव्यं
गच्छ जानाहि । असुके देशे असुकायां रथ्यायां इत्थंनामो नाम
उपासको तेन भिक्षुसंघो निमन्त्रितो जानाहि किं सिध्यति किं पच्यति ।
तेन प्रविसियाणं तहिं पृच्छितव्यं । आरोग्यं दीर्घायु कोचि इमंहि
इत्थंनामो नाम उपासको आह भन्ते किं करिष्यसि । वक्तव्यं । तेन
भिक्षुसं,(6ब्4)घो भक्तेन निमन्त्रितो किं सिध्यति वा किं पच्यति वा ति ।
यदि तावद् आह । भन्ते किस्य उपासको कहिं उपासको ति नामास्माकं कोचि
उपासको न सिध्यति । न पच्यति त्ति जानितव्यं विप्रलब्धो भिक्षुसंघो ति ।
आगच्छियाणं यदि ताव अनुग्रहो भवति । अनुग्रहो साधितव्यो अनुग्रहो
न भवति । भक्तकानि भवन्ति । भक्तका उद्दिशितव्यानि । (6ब्5) (ज्.26)
भक्तकानि न भवन्ति । रणरणाय गण्डिं आहणियाणं आरोचितव्यं
वक्तव्यं । आयुष्म(न्)तो विप्रलब्धो भिक्षुसंघो स्वकस्वकां वृत्तिं
पर्येषथेति । सर्व्वेहि पटिपाटिकाय पिण्डाय चरितव्यं । अथ दानि आह
भन्ते एतं सिध्यति एतं पच्यति । प्रविशन्तु आर्यमिश्राः रणरणाय
गण्डिं आहणियाणं प्रविशितव्यं, ।
(इ.प्.59) यदि ताव हेमन्तकालो भव(6ब्6)ति अनुकल्लतरकम्
प्रविशितव्यम् । ब(ल)हुं कालो अतिक्रमति । अथ दानि ग्रीष्मकालो भवति ।
उष्णसन्तापेन अनुकर्ण्ण(ल्ल)तरकं, प्रविशितव्यं । अथ दानि
वर्षारात्रकालो भवति । देवान्तरेण प्रविशितव्यं, । ततो नापि क्षमति
भण्डं लंघंयन्तेहि प्रविशितुं । अथ खलु भण्डं परिवर्जयन्तेहि ।
याव दारकदारिकां परिवर्जयन्तेहि । प्रविशितव्यं ततो न क्षमति ।
गतागतस्य (6ब्7) उपविशितुं, । अनेकाये तहिं आसनेहि दारकदारिका वा
सोवापिता भवेंसु । अथ खलु हस्तेहि प्रत्यवेक्षियाणं अनन्तरिकाणां
आसनानि वर्जयन्तेहि ॥ उपविशितव्यं । यदि ताव हेमन्तकालो भवति ।
लघु कालो अतिक्रमति । ओहेय्यग्लानकानां पिण्डपातो दापयितव्यो । अथ
दानि दायकदानपति जल्पन्ति । भन्ते पटिपाटिकाय गृह्नथ न्ति(त्ति) ।
वक्तव्यं । नहि । भगव(7अ1)तानेकपर्यायेण ग्लानो परीत्तो किम्
अस्माभिः विहारको शून्यको कर्त्तव्यो । लघु कालो ति(ज्.27)क्रमति । देथ
यूयं ति अथ ग्रीष्मकालो वर्षारात्रो वा भवति । चिरेण कालो अतिक्रमति ।
ओहेय्यग्लानकानां पटिपाटिकाये पिण्डपातो गृह्नितव्यो । संघस्थविरो न
प्रतिबलो भवति । द्वितीयस्थविरो प्रतिबलो भवति न क्षमति ।

द्वितीयस्थविरेण हन्तहन्ताये भुञ्जियाणं लब्धो पि(7अ2)ण्डो द्वारं
पश्यिय उत्थिय गन्तुं ।
अथ दानि संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरो प्रतिबलो
भवति । द्वितीयस्थविरेण ओदनसम्पत्ति आगमयन्तेन भुञ्जितव्यं ।
व्यञ्जनसम्पत्तिम् वा । आगमयन्तेन भुञ्जितव्यं । यं कालं नवका
भिक्षू उ(प)ग्रायन्ति वा पानीयम् वा पिबन्ति हस्तानि ओकढिय आसन्ति ततो
यदि ताव संघस्थविरो न प्रतिबलो भवति । द्वितीयस्थविरेण
जानित(7अ3)व्यं किमारंबणं । एव(त)ं भक्तं जातकं मृतकं
वेवाहिकं घरप्रवेशकं आगन्तुकस्य गमिकस्य गृहस्थस्य
प्रव्रजितस्येति । यथा भवति । तथा दक्षिणा आदिशितव्या । यथा
प्रथमके शिक्षापदे एवं द्वितीयस्थविरेण भक्ताग्रे
प्रतिपदि(द्यि)तव्यं । तथा येच(व) दक्षिणा आदिशितव्या । या(यो) ततो
आगन्तव्यं । एवं द्विती-यस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं, । (7अ4) न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
(इ.प्.60)
इ.6 म्स्.7अ4 (ज्.28.1); छ्.501च्4
(ज्.28) भगवान् श्रावस्त्याम् विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तं । आयुष्मन्
नन्दनो संघस्थविरो आयुष्मान् उपनन्दनो द्वितीयस्थविरो
संघस्थविरो आगतो द्वितीयस्थविरो आगतो भिक्षू ओसरन्तिकाये
आगच्छन्ति । दायकदा(7अ5)नपति पृच्छन्ति । आर्य किं समग्रो
भिक्षुसंघो भिक्षु आहंसु । नोहेतं दीर्घायु को दानि नागच्छति
भिक्षू आहंसु । ओसरन्तिकाये आगच्छन्ति । ते दानि ओध्यायन्ति । वयम् एव
ताव कर्म्मान्तां च्छोरय आगता गच्छामः समग्रं भिक्षुसंघं
परिविशिष्यामः । आर्यमिश्राणां च पादां वन्दिष्याम न्ति(त्ति) । इमे पि
आर्यमिश्रा ओसरन्तिकाये आगच्छन्ति । संघस्थ(7अ6)विरो च द्वितीयस्थविरो
च ओध्यायन्ति । अस्माकं भगवान् दण्डकर्म्मन् देति ॥ इमेषां
मुक्तिका । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान् आह ॥
शब्दापयथ भिक्षून् । ते दानि शब्दापिताः । भगवान् आह ॥ सत्यं
भिक्षवो एवं नाम संघस्थविरस्य बाहिरकं भक्तं नन्दनो
संघस्थविरो उपनन्दनो द्वितीयस्थविरो आगतो यूयं ओसरन्तिकाये
आगच्छथ दायक(7अ7)दानपति पृच्छन्ति । आर्य किं समग्रो भिक्षुसंघो
न्ति(त्ति) । भिक्षू आहंसु नोहीदं दीर्घायु को दानि न(ना)गच्छति भिक्षू
ओसरन्तिकाये आगच्छन्ति । ते दानि ओध्यायन्ति वयम् एव ताव कर्म्मान्ता
च्छोरिय आगता गच्छाम । समग्रं भिक्षुसंघं परिविशिष्याम न्ति(त्ति) ।
आर्यमिश्राणाञ् च पादम् वन्दिष्याम न्ति(त्ति) । इमे पि आर्यमिश्रा (ज्.29)
ओसरन्तिकाये आगच्छन्ति । संघस्थविरो च । द्वितीयस्थविरो च
ओध्या(7ब्1)यन्ति । अस्माकं भगवान् दण्डकर्म्मन् देति । इमेषां
मोत्तिका आहंसु । आम भगवन्
भगवान् आह । तेन हि सर्व्वेहि एवं भक्ताग्रे प्रतिपद्यितव्यं । किन् ति

दानि एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यं । एषो दानि कोचि संघं
भक्त(क्तेन) निमन्त्रेति । संघस्थविरो न प्रतिबलो भवति
द्वितीयस्थविरो न प्रतिबलो भवति । यो तत्र प्रतिबलो भवति । तेन
जानितव्यं । को यं नि(7ब्2)मन्त्रेति भिक्षुभिक्षुणी उपासक-उपासिका
गृहस्थो प्रव्रजितो वाणिजको सार्थवाहो आगन्तुको गमिको नापि क्षमति ।
गतागतस्य अधिवासितुं ॥ अथ खलु पृच्छितव्यं । किन् नामको सि किं
गोत्रको सि किं कर्म्मिका ते (इ.प्.61) मातापितरौ । कतमे देशे गृहं कुतो
मुखं कतमाये रथ्याये कुतो मुखं गृहस्य द्वरं साकारं
सोद्देशं पृच्छियाणं । ततो धिवासयितव्यं नापि दा(7ब्3)नि क्षमति ।
अधिवासितं मयेति । तत्रोल्लगिकाये आसितुं ।
अथ खलु यदि ताव संघस्थविरो न प्रतिबलो भवति । द्वितीयस्थविरो
न प्रतिबलो भवति यो प्रतिबलस् तेन प्रकृत्येव मासचारिको वा
पक्षचारिको वा प्रेषयितव्यो । अनेकाये तहिं जातकं मृतकम् वा भवेय
राजभयं वा चोरभयम् वा ढोस्सभयम् वा वातपुत्रभयम् वा
विहेठना(7ब्4)भिप्राया निमन्त्रयेंसु ॥ तेन गच्छियाण तहिं गृहं
पृच्छितव्यं । कोचि इम(ं)हि एवन्नामको उपासको दानपती वा वाणिजका
(ज्.30) वा ति किम् वा एतत् ति वक्तव्यं भिक्षुसंघो तेन भक्तेन निमन्त्रितो
यदि ताव आहंसु नास्ति कोचि इमंहि एवंनामको किःस उपासको । कस्य
भक्तं कथं भक्तं ति जानितव्यं । विप्रलब्धो भिक्षुसंघो त्ति ततो
आगच्छिय यदि ताव (7ब्5) अनुग्रहो भवति साधयितव्यो अनुग्रहो न
भवति । भक्तकानि भवन्ति भक्तकानि उद्दिशितव्यानि । अथ दानि
भक्तकानि न भवन्ति । रणरणाय गण्डिं आहणिय याव सर्व्वेहि
पटिपाटिकाये पात्राणि गृह्निय प्रविशितव्यं पिण्डपातं । अथ दानि ते
जल्पन्ति भन्ते एव(त)ं सिध्यति । एतं पच्यति । यावत् पात्राणि गृह्निय
प्रविशितव्यं । यदि ताव हेमन्तकालो भवति । अ(7ब्6)नुकर्ण्ण(ल्ल)ं
प्रविशितव्यं । लघुं कालो अतिक्रामति ॥
अथ दानि ग्रीष्मकालो भवति अनुकालं उष्णंशंकेन प्रविशितव्यं ।
वर्षारात्रो भवति देवान्तरेण अनुकर्ण्ण(ल्ल)अं प्रविशितव्यं । ततो न
क्षमति । भण्डम् वा लंघयतेन प्रविशितुं भाजनम् वा
लंघयन्तेहि । प्रविशितुं दारकदारिका लंघयन्तेहि प्रविशितुं । अथ
खलु भण्डं परिहरन्तेहि दारकदारिकां परिहरन्तेहि प्रविशितव्यं
त(7ब्7)तो नापि क्षमति । प्रविष्टेहि गतागतस्य उपविशितुं । अनेकाये तहिं
आसनेहि गर्भरूपा सोवापितानि भवेंसु ॥ भाजनकानि वा थपितकानि
भवेंसुः । अथ खलु हस्तेन प्रत्यवेक्षियाण आनन्तरियाणां आसनानि
वर्जयन्तेहि । यथावृद्धिकाये उपविशितव्यं ।
ततो यदि ताव हेमन्तकालो भवति । (ज्.31) लघु कालो अतिक्रमति । (इ.प्.62)
ओहेय्यग्लानकानां पिण्डपा[तो] ++[प]यितव्यो । अ(8अ1)थ दानि
दायकदानपति जल्पन्ति । भन्ते ओहेय्यग्लानकानां पटिपाटिकायो
पिण्डपातं गृह्नथेति वक्तव्यं । नहीति । लघु कालो अतिक्रमति ।
भगवता च अनेकपर्यायेण ग्लाणो परिन्दितो किं अम्भेहि शक्यम्

विहारको शून्यको कर्तुन् ति । अथ दानि ग्रीष्मो वा वर्षारात्रो वा कालो
भवति । न लहुं कालो अतिक्रमति । ओहेय्यग्लानकानां पटिपाटिकाये
पिण्डपातो [गृह्नितव्यो] न क्षमति ल(8अ2)ब्धालब्धं हन्तहन्ताये
भुञ्जिय लब्धो पिण्डो द्वारं पश्यिय उत्थिय गन्तुं । अथ खलु यदि ताव
संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरो न प्रतिबलो भवति । यो
तत्र प्रतिबलो भवति । तेन ओदनसंपत्ती वा आगमेतव्यं
व्यञ्जनसम्पत्ती वा आगमंतेन भुञ्जितव्यं । तेन दक्षिणा आदिशितव्या ।
जानितव्यं किम् आलम्बनं । एतं भक्तं जातकं मृतकं [वेवा]हिकं वा
घरप्र(8अ3)वेशिकं वा आगन्तुकस्य गमिकस्य गृहस्थस्य प्रव्रजितस्येति ।
ततो यदि ताव जातकं भवति नायं दक्षिणा आदिशितव्या ।
(ज्.32) (अयं) कुमारो सि।वपसि(थि)का(य) च्छो(च्छ)(न्दि)तो
अङ्गुष्ठस्नेह(हे)न यापयति । सप्तरात्रं
शुनखा शृगा(ला) चे(च) नं लंघयन्तं ।
काको च से अक्षिमलं हरन्तं ति
नायं एवं दक्षिणा आदिशितव्या ।
अथ खलु दक्षिणा आदिशितव्या ।
अयं कुमारो शरणं उपेतु (8अ4)
बुद्धं विपश्यिञ् च शिखिञ् च विश्वभुव ।
क्रकुच्छन्दो च कनकमुनिञ् च काश्यपं
महामुनिं शाक्यमुनिं च गोतमं ॥
एतेहि बुद्धेहि महर्द्धिकेहि
ये देवता सन्ति अभिप्रसन्नाः ।
(इ.प्.63) ता नं रक्षन्तु (ता च नं पालयन्तु)
यथा इच्छति से माता । यथा इच्छति से मा(पि)ता
अतो श्रेयतरो भवंतु कुमारो कुलवर्द्धनो
(ज्.33) एवं दक्षिणा आदिशितव्या ।
तथा येव दक्षिणायो विस्तरेण कर्त्तव्यायो यथा (8अ5) संघस्थविरस्य
भक्ताग्रे एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यं । न प्रतिपद्यंति ॥
असि(भिस)माचारिकां धर्म्मां अतिक्रामति ॥ * ॥
इ.7 म्स्.8अ5 (ज्. 33.5); छ्.501च्14
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा । ते दानि आयुष्मन्तो नन्दनोपनन्दना
षड्वर्ग्गिकाश् च उपसंपादेन्ति । ते दानि उपसंपादिय न ओवदन्ति । न
अनुशासन्ति । ते दानि इन्द्र(8अ6)गवा विय वर्द्धयन्ति । शिवच्छगला
धिप(विय) वर्चति(द्धयन्ति) । अनाकल्पसम्पन्नाः ।
अनीर्यापथसम्पन्नाः । न जानन्ति । कथम् उपाध्याये
प्रतिपद्यितव्यं, । कथम् आचार्ये प्रतिपद्यितव्यं । कथं वृद्धतरके
प्रतिपद्यितव्यं । कथं संघमध्ये प्रतिपद्यितव्यं । कथं ग्रामे
प्रतिपत्तव्यं । कथं आरण्ये प्रतिपत्तव्यं । कथं निवासयितव्यं ।
कथं प्रावरितव्यं । कथं संघाटीपात्रचीवरधारणे

प्रतिपद्यितव्यं ॥ (8अ7) एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु
भगवान् आह । शब्दापयथ नन्दनोपनन्दनां । षड्वर्ग्गिकांश् च । ते
दानि शब्दापिता । भगवान् आह ॥ एवं नाम यूयं उपसंपादेथ ।
उपसंपादिय न ओवदथ न अनुशासयथ न्ति(त्ति) । तद् एवं सर्व्वं
भगवान् विस्तरेण प्रत्यारोचयति । याव (ज्.34) कथं
संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं । आहंसु । आम भगवन्
भगवान् आह । एवं (8ब्1) दाणि यूयं उपसंपादिय नैवोवदथ
नानुशासथ तेन हि एवं उपाध्यायेन श्रा(सार्)द्धविहारेस्मिं
प्रतिपद्यितव्यं । किन् ति दानि उपाध्यायेन श्र(सार्)द्धेविहारेस्मिं
प्रतिपद्यितव्यं । उपाध्यायेन ताव श्रा(सार्)द्धेविहारिं
उपसंपादेतुकेनैव उभयतो विनयो ग्राहयितव्यो उभयतो विनयं न
पारयति एकतो विनयो (इ.प्.64) ग्राहयितव्यो । एकतो विनयं न पारयति ।
पञ्चसूत्राणि विस्त(8ब्2)रेण ग्राहयितव्यो पञ्चसूत्राणि न पारयति चत्वारि
धा(वा) त्रीणि दुवे एकं सूत्रं विस्तरेण ग्राहयितव्यो । एकं सूत्रं न
पारेति त्रिंशतो पि ग्राहयितव्यो । शिष्टकं अभीक्ष्ण(श्रुति)कायो गाथायो च
त्रिंशतो पि न पारेति द्वे अनियतां ग्राहयितव्यो । शिष्टकं
अभीक्ष्णश्रुतिकायो गाथायो च द्वे अनियता न पारेन्ति । अन्तमसतो चत्वारि
पाराजिकां ग्राहयितव्यो शिष्टकं अभीक्ष्णंश्रुतिकायो गा(8ब्3)थायो च
शेखयितव्यो । अनुशासयितव्यो काल्यं मध्यन्तिकं सायं सायं
अभिधर्म्मेण वा अभिविनयेन वा अभिधर्म्मो नाम नवविधो
सूत्रान्तो सूत्रं गेयं व्याकरणं गाथा उदानं इतिवृत्तकं जातकं
वैपुल्याद्भुताधर्म्मा । अभिविनयो नाम प्रातिमोक्षो
संक्षिप्तविस्तरप्रभेदेन । अथ दानि न प्रतिबलो भवति । उद्दिशितुं, ।
आपत्तिकौशल्यं शि(8ब्4)क्षितव्यो । सूत्रकौशल्यं स्कन्धकौशल्यं
आयतन(ज्.35)कौशल्यं प्रतीत्यसमुत्पादकौशल्यं ।
स्थानास्थानकौशल्यं आचारं शेखयितव्यो । अनाचारतो चा(वा)रयितव्यो ।
अथ दानि ओवदति । सो एव तस्य ओवादो एवं स्वाध्यायति । अरण्ये वसति ।
प्रहाणे उपविशति । सो एवास्य ओवादो उपाध्यायो श्र(सार्)द्धेविहारि
उपसंपादिय न ओव(8ब्5)दति । न अनुशासति । न उद्दिशति । न
स्वाध्यायति । न अरण्ये वसति । न प्रहाणे उपविशति । अन्तमसतो
वक्तव्यो । अप्रमादेन संपादेहीति । न ओवदति विनयाति(क्र)मं
आसादयति । एवम् उपाध्यायेन श्र(सार्)द्धेविहारिस्मिं प्रतिपद्यितव्यं ।
न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान् अतिक्रमति ॥ * ॥
इ.8 म्स्.8ब्5 (ज्.35. 9); छ्.502अ2
भगवान् श्रावस्त्याम् विहरति । शास्ता देवा(8ब्6)नाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा ते दानि भिक्षू उपसंपादेन्ति । ते दानि
उपसंपादिताः । उपाध्यायस्य न अल्लिम्य(य्य)ंति । ते दानि भिक्षू
ओध्यायन्ति । अस्माकं भगवान् दण्डकर्म्मन् देति । इमेषां मुक्तिका ।
कथं अम्भेहि ओववदितव्याः । अनुशासितव्याः । ये इमे अस्माकं न
अव(नैव अ)ल्लीयंति । न प्रत्यालीयंति । एतं प्रकरणं भिक्षू भगवतो

आरोच[येंसु ।]
भगवान् आह । ते(8ब्7)न हि एवं सार्द्धेविहारिणा उपाध्याये
प्रतिपद्यितव्यं ॥ किन् ति दानि एवं सार्द्धेविहारिणा उपाध्याये
प्रतिपद्यितव्यं । सावे(र्द्धे)विहारिणा ना(ता)व कल्यत एव (ज्.36)
उत्थंतेन उपाध्यायस्य (इ.प्.65) विहारस्य द्वारं आकोटयितव्यं यं
कालं अभ्यनुज्ञा दिन्ना भवति । ततो द्वारं सुखाकं अपदुरियाण ततो
प्रथमं दक्षिणो पादो प्रवेशितव्यो पश्चा वामो प्रवेशय वन्दित्वा
सुखशयितं । पृच्छितव्यो उ(9अ1)द्दिशित्वा प्रतिपृच्छित्वा
खे(ट)कट(टा)हको निक्कालयितव्यो प्रस्रावकुम्भिका निक्कालयितव्या
पीठिका प्रज्ञपयितव्या । हेमन्तकालो भवति मन्दमुखि
प्रज्वालयितव्या । मुखोदकं दापयितव्यं । दन्तकाष्ठं धोविय
उपनामयितव्यं । सु(मु)खोदकम् आसिञ्चितव्यं । हस्तां निर्म्मादिय
हस्तनिर्म्मादनं दातव्यं । पेया उक्कढितव्या । पेया पेयिंता
पे(य)पात्रं शोधितव्यं । शो[धित्वा] भ[क्तु]द्देशातो (9अ2) भक्तकं
ग्रहेतव्यं । भक्तविसर्ग्गो कर्त्तव्यो पात्रं निर्म्मापयितव्यं । पात्रं
प्रतिशामयितव्यं ।
गोचरं प्रविशन्तस्य ग्रामप्रवेशनिकानि चीवराणि उपनामयितव्यानि ।
विहारचरणकानि चीवराणि प्रतिशामयितव्यानि । आत्मनो चीवरकं
गृह्निय पृष्ठतो नुगन्तव्यं । नापि दानि खुराखुरं । अथ खलु
नात्यासन्ने (ज्.37) नातिदूरे तेन दानि गोचरातो निर्ग्गतस्य उपाध्यायस्य
चीवराणि प्रस्फो(9अ3)टिय साहरिय प्रतिसामयितव्यानि । आत्मनो स्कन्धे
दपि(यि)य शीर्षं ओनामिय पुरतो गन्तव्यं । विहारं आगच्छियाण
पीठिका प्रज्ञपयितव्या ग्रामप्रवेशनिकानि चीवराणि एकान्ते
स्थपेतव्यानि । विहारचरणकानि चीवराणि उपनामयितव्यानि । पादोदकं
उपनामयितव्यं । पादतट्ठकं उपनामयितव्यं । पादा
धोपयितव्या । उष्णं भवति स्नापेतव्यो (9अ4) शीतं भवति ।
मन्दमुखी प्रज्वालयितव्या ।
यदि पिण्डचारो अण्ठितो भवति । उपनामयितव्यो । नानानावर्ण्णितं
भवति पृच्छितव्यो सुविहित कुतो इदं लब्धं असुकातो वेशिककुलातो वडं
विधवाये स्थूलकुमारीये पण्डकस्य असुकाये भिक्षुणीये
उश्शकियपरिशङ्कियाणि कुलानि व्यपदिशति । वारेतव्यो वक्तव्यो मा तहिं
गच्छ । अथ दान् आह । असु(9अ5)केस्मि कुले बुद्धवचनं जल्पितं । ततो
लब्धं । वक्तव्यं कारेहि धूमं मा च पुनो आमिषचक्षु देशेसि हस्तान्
निर्म्मादिय (इ.प्.66) हस्तनिर्म्मादनं दातव्यं । पिण्डपातो उक्कढितव्यो
पिण्डपात उपनामयितव्यो भुञ्जन्तस्य पानीयं चारितव्यं । वीजनवातो
दातव्यो भक्तविसर्ग्गो व(क)र्त्तव्यो भुक्ताविश्य पात्रं अपकर्षितव्यं ।
अपक्का च भाजनं भक्तोपधानं श(9अ6)य्यासनं (ज्.38)
प्रतिशामेतव्यं । चीवराणि पात्रं शोधेतव्यं । पात्रं प्रतिसामेतव्यं ।
विहारको सिञ्चितव्यो सन्मार्जितव्यो कालेन कालं गोमयकार्षी दातव्या ।
शय्याशनं प्रस्फोटयितव्यं । चीवराणि धोवेतव्यानि । सिञ्चितव्यानि ।

रंजितव्यानि पात्रं दहितव्यं । रञ्जितव्यं । दिवाविहारं गच्छन्तस्य
पीठिका नयितव्या निषीदनं नयितव्यं । पुस्तको नयितव्यो कुण्डिका
नयितव्या । उद्दे(9अ7)शं गृह्निय एकमन्ते स्वाध्यायतेन आसितव्यं । अथ
दानि दिवाविहारं गन्तुकामो भवति आपृच्छिआ(य) गन्तव्यं । यदि दानि
तहिं केनचि सह स्वाध्यायतुकामो भवति । आपृच्छितव्यं । वक्तव्यं ।
करोमि अमुकेन सह स्वाध्यायन् ति । तेन दानि जानितव्यं । यदि सो
भवति शैथलिको वा बाहुलिको वा । आवड्ढको वा असिक्षाकामो
वक्तव्यं । माश्रयो उत्पद्येया । अथ दानि भद्रको भव(9ब्1)ति ।
गुणवां शिक्षाकामो वक्तव्यं । करोहि दिवाविहारतो आगच्छन्तस्य
पीठिका आनयितव्या । निषीदनं आनयितव्यं । प्र(पु)स्तको आनयितव्यो ।
कुण्डिका आनयितव्या । आगतस्य समानस्य हस्तनिर्मादनं दातव्यं
पुष्पाणि दातव्यानि चेतिप(य)ं च(व)न्दन्तस्य पृष्ठतो नुगन्तव्यं ।
पीठिका प्रज्ञपयितव्या । हेमन्तकालो भवति । मन्दमुखी
प्रज्वालयितव्या । पादा धोवयितव्या । पादा म्रक्षेतव्यो । शय्या
प्रज्ञापयित।(9ब्2)व्या । यदि महाजनिको भवति । अन्तमसतो हस्तेन
समवधानं धातव्यं । दीपो प्रज्वालयितव्यो । खेटकटाहकं (ज्.39)
उपनामयितव्यं । प्रस्रावकुम्भम् उपनामयितव्यं । सुखं
प्रतिक्रमापयितव्यं । उद्दिशित्वा वा परिपृच्छित्वा वा यदि विहारो
प्रापुणति । आपृच्छितव्यं । अमुकं विहारं गृह्नामि । अथ दानि
द्वितीयेन सह प्रापुणति विहारं उपाध्यायेन जानितव्यं । यदि सो भवति
शैथिलिको (9ब्3) वा बाहुलिको वा अ(आ)वड्ढको वा (अ)शिक्षाकामो
वक्तव्यं । मा गृह्न (इ.प्.67) मा संसर्ग्गदोषो भविष्यतीति ।
अथ दानि भवति । भद्रको गुणवान् शिक्षाकामो वक्तव्यो गृह्न यावन्
न उत्थापीयति सा एव मे आपृच्छनिका अथ दानि उत्थापीयति प(य)त्तिकां
वारां आपृच्छितव्यं । यदि दानि तहिं केनचित् सह स्वाध्यायतुकामो
भवति । आपृच्छितव्यं । करोमि अमुकेन सार्द्धं स्वाध्या(9ब्4)यं ।
उपाध्यायेन जानितव्यं । एवं श्र(सार्)द्धेविहारिणा उपाध्याये
प्रतिपद्यितव्यं । न प्रतिपद्यते(ति) । अभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥
इ.9 म्स्.9ब्4 (ज्.39.13); छ्.502ब्13
भगवान् श्रावस्त्याम् विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा ते दानि आयुष्मन्तो नन्द्(अन्)ओपनन्दनो
षड्वर्ग्गिका च निश्रयं दपि(यि)य नैव अन्तेवासि ओवदन्ति । न
अनुशासन्ति । ते दानि इन्द्रगवा विय (9ब्5) वर्द्धन्ति शिवच्छगला विय
वर्द्धन्ति । अनाकल्पसम्पन्नाः अनीर्यापथसंपन्नाः । न जानन्ति
कथम् उपाध्याये प्रतिपद्यितव्यं । कथं आचार्ये प्रतिपद्यितव्यं ।
कथं वृद्धतरकेषु प्रतिपद्यितव्यं । (ज्.40) कथं संघमध्ये
प्रतिपद्यितव्यं । कथं ग्रामे प्रतिपद्यितव्यं, । कथं अरण्ये
प्रतिपद्यितव्यं । कथं निवासयितव्यं । कथं प्रावरितव्यं । कथं
संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं ॥ (9ब्6) एतं प्रकरणं

भिक्षू भगवतो आरोचयेंसु । भगवान् आह ॥ शब्दापयथ
नन्द्(अन्)ओपनन्दनां षड्वर्ग्गिकानां च ते दानि शब्दापिता ।
भगवान् आह । सत्यं भिक्षवो नन्द्(अन्)ओपनन्दना षड्वर्ग्गिकाश् च
एवन् नाम यूयं निश्रयं देथ निश्रयं ददियाण अन्तेवासिकां न
ओवदथ नानुशासथ तद् एव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति ।
याव कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं । आहं(9ब्7)सु ।
आम भगवन् भगवान् आह । एवं च यूयं निश्रयं ददियं
अन्तेवासिकां नैव ओवदथ नानुशासथ । तेन हि एवं आचार्येण
अन्तेवासिकस्मिं प्रतिपद्यितव्यं । किन् ति दानि आचार्येण अन्तेवासिकस्मिं
प्रतिपद्यितव्यं । आचार्येण ताव निश्रयं देन्तेन अन्तेवासि उभयतो
विनयं ग्राहयितव्यो । उभयतो पि विनयं न पारेति । एकतो विनयतो
ग्राहयितव्यो । एकतो विनयं (इ.प्.68) न पारे(10अ1)ति पञ्चसूत्राणि विस्तरेण
ग्राहयितव्यो । पञ्चसूत्राणि न पारेति चत्वारि त्रीणि द्वे एकं सूत्रं
विस्तरेण ग्राहयितव्यो । एकं सूत्रं न पारेति । द्वानवतीतो ग्राहयितव्यो
द्वानवतीतो न शक्नोति त्रिंशतितो ग्राहयितव्यो शिष्टकं
अभीक्ष्णश्रुतिकायो गाथायो च त्रिंशतितो न पारेति द्वे अनियतां
ग्राहयितव्यो शिष्टकं अभीक्ष्णश्रुतिकाये गाथायो च । द्वे अनियता न
पारेति । अन्त(10अ2)मसतो चत्वारि पाराजिकां ग्राहयितव्यो शिष्टकं
अभीक्ष्णश्रुतिकाये गाथायो व(च) शेखयितव्यो । धातुकौशल्यं (ज्.41)
स्कन्धकौशल्यं आयतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यं आचारं
शेखयितव्यो । अनाचारतो धा(वा)रयितव्यो । एषो आचार्यो निश्रयं ददिय
अन्तेवासि नैव ओवदति । नानुशासति । विनयातिक्रमम् आसादयति । एवम्
आचार्येण अन्तेवासिस्मिं प्रतिप(10अ3)द्यितव्यं । न प्रतिपद्यति ।
अभिसमाचारिकान् धर्म्मान् आतिक्रमति ॥ * ॥
इ.10 म्स्.10अ3 (ज्.41:6); छ्.502ब्16
भगवान् श्रावस्त्याम् विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा ते दानि भिक्षू निश्रयन् देंति ते अन्तेवासिका
आचारिकस्य निश्रयं गृह्निय नैव अल्लीयन्ति । न प्रत्यल्लीयन्ति ते दानि
भिक्षू ओध्यायन्ति । अस्माकं भगवा(न्) दण्डकर्म्मन् देति । इमेषां
मुक्तिका या (10अ4) दानि अस्माकं (नैव) अल्लीयन्ति न प्रत्यलीयन्ति । कथं
इमे अम्भेहि ओवदितव्याः । अनुशासितव्याः । एतं प्रकरणं भिक्षू
भगवतो आरोचयेंसु । भगवान् आह । शब्दापयथ भिक्षून ते दानि
शब्दापिताः ।
भगवान् आह । तेन हि एवं अन्तेवासिना आचार्ये प्रतिपद्यितव्यं ।
अन्तेवासिना ताव कल्प(य)तो येव उत्थत्त(न्त)केन एवं आचार्यस्य विहारस्य
द्वा(10अ5)रं आकोटयितव्यं । यं कालं अभ्यनुज्ञा दिन्ना भवति ।
द्वारं सुखाकं अपदुरियाणं प्रथमं दक्षिणो पादो प्रवेशयितव्यो ।
पश्चाद् वामं पादं प्रवेशयाण आचार्यस्य सुखरात्रि
(इ.प्.69) पृच्छितव्या । खेटकटाहं (ज्.42) निष्काशयितव्यां(व्यं । ) यावत्
पादोदकं दापयितव्यं । पादोदकं उपनामयितव्यं । पादतट्ठकं

उपनामयितव्यं । पादा धोवयितव्या । पादा म्र(10अ6)क्षयितव्या ।
खेटकटाहकं प्रवेशयितव्यं । प्रस्रावकुम्भिका प्रवेशयितव्या ।
दीपको प्रज्वालयितव्यो । शय्या प्रज्ञपयितव्या । एवं अपरं दिवसं
प्रस्रावकुम्भिका निष्काशयितव्या । तद् एव सर्व्वं नवकपरिचर्या
कर्त्तव्या । विस्तरेण यथा श्र(सार्)द्धेविहारिस्य याव दीपं आदीपिय
शय्यां प्रज्ञपिय सुखं प्रतिक्रामयितव्यो । एवं अन्तेवासिना आचार्ये
प्रतिपद्यित(10अ7)व्यं । न प्रतिपद्यति अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥
उद्दानं ॥
एवं संघस्थविरेण पोषधे प्रतिपद्यितव्यं, ।
एवं द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यं ।
एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यं ।
एवं संघस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं ।
एवं द्वितीयस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं ।
एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यं ।
एवं उपाध्याये(10ब्1)न श्र(सार्)द्धेविहारिस्मिं प्रतिपद्यितव्यं ।
(ज्.43) एवं श्र(सार्)द्धेविहारिणा उपाध्याये प्रतिपद्यितव्यं ।
एवं आचार्येण अन्तेवासिस्मिं प्रतिपद्यितव्यं ।
एवं अन्तेवासिना आचार्ये प्रतिपद्यितव्यं ॥ * ॥
(इ.प्.70) इइ.1 म्स्.10ब्1 (ज्. 44.1); छ्.502ब्25
भगवान् श्रावस्त्याम् विहरति । शास्ता देवानाञ् च मनुष्याणाञ् च
विस्तरेण निदानं कृत्वा पञ्चार्थवशां संपश्यमानास् तथागता
अर्हन्तः सम्यक्सम्बुद्धाः । पञ्चाहिकां विहा(10ब्2)रचारिकाम्
अनुचंक्रमन्ति । अनुविचरन्ति । कतमां पञ्च कच्चिम् मे श्रावकाः न
कर्म्मारामा न कर्म्मरताः । न कर्म्मारामतानुयोगम् अनुयुक्ता
विहरन्ति । न भाष्यारामाः न भाष्यरताः । न भाष्यारामतानुयोगम्
अनुयुक्ता विहरन्ति । न निद्रारामाः न निद्रारताः । न
निद्रारामतानुयोगम् अनुयुक्ता विहरन्ति । ग्लानकानाञ् च भिक्षूणां
अनुकम्पार्थं ये ते (10ब्3) श्राद्धाः कुलपुत्राः (तथागतम् एवोद्दिश्य)
श्रद्धयाद् आगाराद् अनगारिकां प्रव्रजिताः । ते च तथागतं दृष्ट्वा
अतीव उदाराणि प्रीतिप्रामोद्यानि प्रतिलभिष्यन्ति । इमा(ं प)ञ्चार्थवशान
संपश्यमानास् तथागता अर्हन्तः सम्यक्संबुद्धाः पंचाहिकां
विहारचारिकाम् अनुचंक्रमन्ति । अनुविचरन्ति । अद्राक्षीद् भगवां
पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो अनुवि(10ब्4)चरन्तो शय्यासनं
उज्झितप्रकीर्ण्णं उत्पादकं (ज्.45) उ(दु)त्थितकं वातातपेन विनाशियन्तं
वर्षेण ओवर्षियन्तं प्राणकेहि खज्जन्तं पक्षिहि ओहयियन्तं
ओमयिलमयिलं पाटितविपाटितं । आतपे दिन्नं भगवां जानन्तो य्येव
भिक्षूं पृच्छति कस्येमं भिक्षवो शय्यासनं उज्झितप्रकीर्ण्णं
पेयालं ॥ याव ओमयिलमयिलं पाटितविपाटितं । आतपे दिन्नं आहंसु ।
एतं (10ब्5) भगवं सांघिकं ।

मूल पाठ: Abhisamācārikadharma · Data entry Abhisamacarika-Dharma Study Group, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc