अभिधर्मदीप · श्लोक 101-120
त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि ।
बहुभिः ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः
अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिणः ।
त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः
सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः ।
त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः
प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः ।
अक्षैकादशकोपेता यदि वाष्टादशान्विताः
कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः ।
त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः
द्विर्ध्यान जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः ।
दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः
बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः ।
युक्ताः षोडशभिस्त्वेते सर्वभूरिभिन्द्रियैः
अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः ।
सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः
अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः ।
द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम्
सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः ।
कामेष्वेकाधिकः काये द्व्यधिकश्चक्षुरादिषु
एवं रूपे ऽपि विज्ञेयो हित्वा गन्धरसद्वयम् ।
चित्तं चैतसिकैः सार्धं संस्कृतं तु स्वलक्षणैः
दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः ।
छन्दः स्पर्शो ऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः
श्रद्धापेक्षाप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा ।
मूलवीर्यमहिंसा च शुभभूका दशस्मृताः
स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं मूढिरुद्धतिः ।
क्लिष्टे षट् अशुभे तु द्वे आह्रीक्यमनपत्रपा
मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः ।
सूक्ष्मोपनाहमात्सर्याण्यल्पक्लेशभुवो दश
पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः ।
तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा
भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा ।
तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम्
यथा संबन्धिसंबन्धाद्विकारो ऽम्भसि लक्ष्यते ।
तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम्
गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी ।
इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः
चित्तं प्रधानमेतेषां वस्तुमात्रग्रहादिभिः ।
बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0