अभिधर्मदीप · श्लोक 381-400
मात्सर्यं दौर्मनस्येन सौमनस्येन कस्यचित् ।
द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च
मदस्तु सुमनःस्कन्धसुखाभ्यां संप्रयुज्यते ।
आह्रीक्यमनपत्राप्यं स्त्यानौद्धत्ये च पञ्चभिः
आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः
समस्तालम्बिनान्त्येन तान्वेत्त्यध्रुवतादिभिः ।
क्लेशात्यन्तक्षयो ऽन्त्येन संभिन्नालम्बनेन वा
असंभिन्नार्थ विषयं त्रयमेतद् द्विधेष्यते ।
तस्यैवं पश्यतः साक्षादुदयव्ययदर्शनम्
स्कन्धेषु जायते पश्चाच्चक्रभ्रमरिकादिवत् ।
स प्रतीत्यसमुत्पादं स्कन्धानां प्रत्यवेक्षते
सत्येषु पातयित्वतं तदा कश्चित्परीक्षते ।
तदनित्यत्वदुःखत्वे समवेत्य ततः पुनः
अकर्तृकान्निरीहांश्च प्रत्ययाधीनसंभवान् ।
दृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवते
अनधिष्ठातृकत्वं च पारतन्त्र्यं च पश्यतः ।
सर्वधर्मेषु नैरात्म्ये स्थिरा बुद्धिः प्रवर्तते
स्वभावेनाविशून्यत्वाद् धर्ममुद्रा उदाहृता ।
तदुक्त्या च तदुक्तत्वाच्छून्याकारो न देशितः
गोत्रद्वारसमूहादीन् धात्वादीनां यथायथम् ।
स्वसाधारणचिह्नाभ्यां सदतोपपरीक्षते
प्रतिस्कन्धं ततस्तस्य स्वाभाव्यादिषु तत्त्वतः ।
क्रमेण जायते पश्चात्कौशलं स्थानसप्तके
निर्मथ्नतः क्रमेणास्य दुःखसत्यभवारणिम् ।
श्रद्धावीर्यसहायस्य तत्त्वज्ञानानलार्थिनः
आकारपतितं ज्ञानं ततः शमनियामकम् ।
भावनामयमूष्माख्यं जायते सानुवर्तकम्
ततस्तथैव मूर्धानो मिथ्यादृष्ट्युपघातिनः ।
ऊष्मभ्यो ऽधिकसामर्थ्याद्रत्नश्रद्धाविवर्धिनः
........नेत्वस्मिन्नुभयत्रापि पश्चिमा
भाव्यते स्कन्धदृक्त्वादौ न तन्निर्वाणदर्शिनः ।
आकारांस्तुल्यजातीयान् सर्वत्रात्र तु निर्दिशेत्
द्रष्टव्यान्यतरा ताभ्यः प्रत्युत्पन्ना विवर्धने ।
चतसृभ्यस्त्वन्यतमा प्रत्युत्पन्ना विवर्धने
अनागतास्तु भाव्यन्ते चतस्रो ऽप्यत्र निश्चयात् ।
मोक्षे ऽन्त्ये संमुखीभूताः समग्राः खल्वनागताः
आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः ।
गोत्रलाभे तु विज्ञेया सभागाकारभावना
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0