अभिधर्मदीप · श्लोक 241-260
हेतुतत्त्वफलोद्भूतं महत्त्वं शासितुस्त्रिधा ।
विमुक्तावपि तुल्यायां त्रयाणां बोधिलम्भनात्
बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः ।
सैकपुण्यशतोद्भूतमेकैकं लक्षणं मुनेः
यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते ।
दानं हि दीयते येन स्वपरार्थाद्यपेक्षया
कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः ।
प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत्
स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन ।
साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे
दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः ।
श्रद्धादिभिर्गुणैर्दाता दत्ते ऽतः सत्क्रियादिभिः
सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते ।
वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम्
गुणदुःखोपकाराख्यर्धर्मैः क्षेत्रं विशिष्यते ।
आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः
धर्मदात्रे ऽपि बालाय पित्रे मात्रे ऽथ रोगिणे ।
अमेयं बोधिसत्त्वाय दानमन्यभवाय च
बोधिसत्त्वस्य यद्दानमन्यस्यापि यदष्टमम् ।
विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतो ऽर्हते
संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम् ।
विगतप्रतिपक्षं च तत्कर्मोपचितं मतम्
स्वस्मात्त्यागगुणापेक्षाश्चैत्ताश्चैत्यार्चतादिषु ।
विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत्
धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः ।
अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत्
शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः ।
शास्त्रे तु तप्प्रधानत्वात्प्रोक्तं स्वर्गोपपत्तये
दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम् ।
तद्विपक्षशमाङ्गं च यत्तच्छद्वमिहोच्यते
पुण्यं समाहितं त्वत्र भावना चित्तभावनात् ।
प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना
पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा ।
शासने ऽस्मिन्समासेन शुभमूलं त्रिधेष्यते
लिपिमुद्राथ गणना कायवाक्कर्मलक्षणा ।
संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका
अकार्यप्रवणो लोको दुःखभागी च यद्वशात् ।
रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम्
स्वशक्तिजक्रियोद्भूतैर्विशेषैस्ते तु नामभिः ।
आत्तसामान्यसंज्ञाकाश्चोद्यन्ते ऽनुशयादिभिः
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0