अभिधर्मदीप · श्लोक 221-240
द्वितीया तु विहीनेन ध्रुवपाकेन कर्मणा ।
तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते
अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम् ।
शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्चितः
बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः ।
बध्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम्
यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः ।
महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः
पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः ।
तदा देवमनुष्याणामभिव्यक्तिं निगच्छति
स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम् ।
प्रचिनोति तदाधारं कायं कल्पशतेन तु
द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम् ।
द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति
युगान्तवायुना मेरुः वह्निना वरुणालयः ।
वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः
कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम् ।
बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्नुते
सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम् ।
मरणे ऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते
वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम् ।
ऽसर्वासां तु क्षयज्ञाने परिपूरिर्विधीयतेऽ
त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः ।
तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम्
सप्तयोगास्त्रयःस्कन्धास्त्रिशिक्षाद्याश्च देशिताः ।
तथा पारमिताश्चापि चतस्रो विनयोदिताः
बोधिपक्ष्याश्च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा ।
हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः
तस्मान्न बोधिमार्गो ऽन्यः सूत्रादिपिटकत्रयात् ।
अतो ऽन्यमिह यो ब्रूयात्स भवेन्मारभाषितः
कल्पानां महतामेतदसंख्येयत्रयं मतम् ।
स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम्
अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः ।
द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्तिनाम्
नाधो ऽशीतिसहस्रायोस्तत्समुत्पत्तिरिष्यते ।
ते हेमरूप्यताम्रायश्चक्राः पुण्यप्रभावतः
तुल्ये ऽपि साधनोपाये तद्भेदो ऽक्षादिभेदतः ।
भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत्
करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा ।
परसंविद्गुरोस्तद्वत्तद्विशेषो विधीयते
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0