अभिधर्मदीप · श्लोक 201-220
शुभैस्तु दशभिर्यावत्सार्धं नैकाष्टपञ्चभिः ।
विलापद्वेषपारुष्याण्युषन्ति नरके द्विधा
तद्वदेव मताभिध्या मिथ्यादृष्टिस्तथैव च ।
अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा
अशुभास्तु दशान्यत्र सर्वत्र कुशलास्त्रयः ।
आरूप्यार्यासंज्ञिनां च रूपिणः सप्त लाभतः
कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा ।
सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश
दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात् ।
तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम्
आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः ।
चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम्
ततो ऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा ।
फलं शुभस्य चत्वारि द्वे त्रीणि च शुभादयः
शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् ।
अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः
सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः ।
मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः
चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः ।
शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः
एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्चिमस्य तु ।
द्वे द्वे पञ्च यथासंख्यं दृग्घेयस्य तु कर्मणः
त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः ।
ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः
क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः ।
एकेनाक्षिप्यतेजन्म भूरिभिः परिपूर्यते
कुशलं वाथवा पापं यदतीतं ददत्फलम् ।
स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता
संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शनात् ।
कर्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु
स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका ।
प्रथमा तत्फलस्थस्य विहानात्तस्य कर्मणः
द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात् ।
तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु
स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति ।
तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले
द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते ।
तृतीया द्वयसद्भावा चतुर्थी तूभयं विना
स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम् ।
आद्या दत्तविपाकेन निरुद्धानागतादिना
मूल पाठ: Abhidharmadīpa · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0