भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 99

99.1

देवासुरनरवन्दितचरणे भवमग्नोद्धरणार्पितचरणे ।
त्वयि रोदिमि नुतिसव्यपदेशः किं पश्यसि पुनरनिशमशेषम् ॥

99.2

मातर्देवि किरसि कणमुष्टिं जनयद् यज्ञसुतः किमतुष्टिम् ।
वज्रवाराहि नराहिसुराणां त्वं शरणं तव नामपराणाम् ॥

99.3

हरिकर(रि)शिखिफणितस्करभीतिस्त्वत्परचित्ते नैव समेति ।
मातर्देवि निभालय मह्यं किं सहसे मम दुःखमसह्यम् ॥

99.4

तर्जनवज्रकरोट(वि)धारिणि दुष्टं तुष्टय मारनिवारिणि ।
अभिनवकोमलकरचरणाङ्गि त्रिवलिसमुच्छदसप्तविभङ्गि ॥

99.5

ग्राह्यग्राहकभावविशुद्धे पादकराङ्गुलिजालपिनद्धे ।
आयतपार्श्वाङ्गुलिकरचरणे ध्वस्तव्याधिजराजनिमरणे ॥

99.6

उद्गतरेणुरूर्ध्वगतरोमा वज्रयोगविवृतामृतधामा ।
बालमरीचिविलोकनरक्ते जगतां दुःखनिराकृतिशक्ते ॥

99.7

सुभ्रु तनूदरि मध्यकृशाङ्गि कर्णान्तायतलोचनभृङ्गि(भङ्गि) ।
डाकिन्ये (व हि) विश्वमशेषं लोको वेत्ति न ते बहुवेषम् ॥

99.8

यत्नमृते जगदर्थसमृद्धिश्चिन्तितमात्रजनेप्सितसिद्धिः ।
मूढो वेत्ति न दुष्कृतकर्म प्रावृषीव न शिलाङ्कुरजन्म ॥

99.9

अन्ध इवार्कशशाङ्कादर्शी पापजनो ह्यनुभावस्पर्शी ।
चिन्तामणिमज्ञा न विदन्ति प्रज्ञे त्वस्य फलानि फलन्ति ॥

99.10

चक्राङ्कितकरपादमनोज्ञे ज्ञानानलभस्मीकृतसङ्गे ।
कायवचनमनसा कृतदुरितं रागद्वेषमोहपरिकरि(लि)तम् ॥

99.11

तद्दिशामि तव देवि समक्षं यावद्यामि न दुर्गतिपक्षम् ।
मनः परमार्थं तनुस्तव वेदी स भवति नैव दुरितपरिखेदी ॥

99.12

लक्षणनिखिलालक्षितगात्रे सकलानुव्यञ्जनगतपात्रे ।
नवयौवनमदमन्थरपिण्डे चलकुण्डलयुगमण्डितगण्डे ॥

99.13

तुङ्गनितम्बघनस्तनभारे गलकालम्बिनिरंशुक(ङ्कुश)हारे ।
संवरमधुपविचुम्बिमुखाब्जे तद्भुजयुगपरिरब्धहृदब्जे ॥

99.14

निर्भरसुरतसुखाविकलाक्षि मुक्तशिरोरुहवसननिरपेक्षे ।
हेरुकराहुदष्टमुखचन्द्रे सस्मितरचित हूं हूं कृतमन्त्रे ॥

99.15

पतिमौलिस्थितविधुममृषन्ती किमु चन्द्रार्कौ वपु(र)मुषन्ती ।
मातस्ते जगदनुपमरूपं तद्विचारय परमार्थ स(स्व)रूपम् ॥

99.16

क्लेशदाहिं(ह)शमनामृतवचनं तद्विनेयजनशुद्धिविरचनम् ।
पद्मिनीति नलिनामलगन्धः करुणापरजगदर्थनिबन्धः ॥

99.17

दिव्यसुधाधर(गत)रसपानं तज्जगदद्वयबोधिनिधानम् ।
प्रत्यङ्गस्पर्शो ऽप्यनिमित्तं सहजाम्बुधिविप्लावितचित्तम् ॥

99.18

किं त्वं मातः करिष्यसि ताभिः षट्त्रिंशच्छतकोट्यबलाभिः ।
यद्यन्यां मनुते बहुतातस्तद्विहाय झगिति देहि नु मातः ॥

99.19

नाडीचक्रनिरोध महासुखसंवर ।
देवि त्वं शतभावविकल्पा शून्यसमाधिरपाकृततुल्या (तल्पा) ॥

99.20

शून्यकृपे सहजाद्वयमुक्तं वज्राय(ज्रया)नमिदमवधि(वि)भक्तम् ।
भावाभावसमस्ताकाशव्यापी भवति स तत्त्वविकाशः ॥

99.21

उद्भवन्ति तत एव विमोक्षा बोधिपक्षनिखिलप्रतिपक्षाः ।
बुद्धानामावेणिकधर्मः सत्त्वराशिपरिपाचितकर्मः ॥

99.22

यद्वा यानत्रयनिर्याणं धूमादिकमपि चापरिमाणम् ।
त्वद्भक्त्या यदलम्भि शुभं मे भवतु मनो भवतीपरमं मे ।
सकलकलुषरहितं गुणसिन्धुस्त्वत्परमं ह्यत एव न बन्धुः ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc