108 Buddhist stotras · अध्याय 98
मोहवज्रस्वभावस्त्वं यमारिरतिभीषणः ।
सर्वबुद्धमयः शान्तः कायवज्र नमो ऽस्तु ते ॥
पिशुनवज्रस्वभावस्त्वं यमारिरतिभीषणः ।
चित्तवज्रप्रतीकाशो रत्नवज्र नमो ऽस्तु ते ॥
रागवज्रस्वभावस्त्वं यमारिरतिभीषणः ।
सर्वघोषवराग्राग्र्य वाग्वज्र नमो ऽस्तु ते ॥
ईर्ष्यावज्रस्वभावस्त्वं यमारिरतिभीषणः ।
कायवज्रप्रतीकाश सङ्गपाणे नमो ऽस्तु ते ॥
सर्वबुद्धस्वभावस्त्वं सर्वबुद्धैकसंग्रहः ।
सर्वबुद्धवराग्राग्र्य मण्डलेश नमो ऽस्तु ते ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0