भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 100

100.1

रविविकस्वरभास्वरसुन्दरीप्रबलकेशरसंवरकर्णिकात् ।
उदयमस्तकशृङ्गसमुल्लसन्नवसुपूर्णशशाङ्ककराङ्किताम् ॥

100.2

विविधपुष्परसासववेद्यपि द्रुतविलम्बितमध्यनदद्ध्वनिः ।
अलिरुपेत्य निशार्धमहोत्सवे धयति तद्गतधीरिति विस्मयः ॥

100.3

उदयते ऽस्तमुपैति निशाकरः पुनरतो ऽप्युदयाचलमौलिताम् ।
उभयकोटिकलापिनिरीक्षणे न च शशी न विभाति दिवाकरः ॥

100.4

रविरुदेति सरोजदलान्तरे शिखरतो ऽपि विधुः प्रविलीयते ।
व्रजति चोर्ध्वमसौ वडवानलो गिलति राहुरधः शशिभास्करौ ॥

100.5

कमलिनीकमलासनलोचनप्रकटगोचरगोचरमीलनम् ।
प्रथममङ्गमिदं कुलिशाम्बुजद्वयनिमीलनमत्र ततो ऽपरम् ॥

100.6

सपदि साधकबीजनिघर्षणात् त्रितयमम्बरमेति चतुर्थकम् ।
सहजमक्षयधामकलावलीकलितकालविलापनलेलिहम् ॥

100.7

यदि सुशिक्षितवज्रविलासिनीगुरुमुखाधिगमो ऽधिगतो भवेत् ।
भवति यस्य तदोत्तममध्यमाधमविनिश्चयमेति स तत्त्वदृक् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc