भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 94

94.1

डाकी या सर्वबुद्धा सकलभयहरा व्यापिनी विश्वमाता एकास्या रक्तवर्णा त्रिनयनमुदिता खेचरी श्रेष्ठशोभा ।
प्रज्वाली दिव्यदेहा गगणकृतपदा द्विभुजा मुक्तकेशा खट्वाङ्गं वामपाणौ दहिनकरतिकाधारिणी स्वर्गरुपा ॥

94.2

नग्नाङ्गा ग्रीवमाल्या नरशिरसहिता भूषणं पञ्चमुद्र् सत्त्वानां मार्गमोक्षा ऽनुत्तरवरदा ज्ञानसिद्धिप्रदाता (त्री) ।
श्रीदेवी प्राणिरक्षाकृतजगतहिता योगिनी वज्रदीप्ति स्त्वत्पादौ पद्मरूपौ प्रणमितशिरसा नौमि विद्याधरीशे ॥

94.3

भगवती महादेवी भवत्याः शरणं वज्रे ।
वन्दे पादाम्बुजे नित्यं भजामि त्वां प्रसीद मे ॥

94.4

जननी सर्वबुद्धानां त्वमेव बोधिदायिनी ।
सर्वेषां बोधिसत्त्वानां माता हितानुपालिनी ॥

94.5

सर्वहितार्थसंभर्त्री सर्वपापविशोधिनी ।
दुष्टमारगणान् क्षोभ्य महानन्दसुखप्रदा ॥

94.6

सद्धर्मसाधनोत्साहे बलवीर्यगुणप्रदा ।
निःक्लेशस्तिमितध्यानसमाधिसुखदायिनी ॥

94.7

प्रज्ञागुणमहारत्नश्रीसमृद्धिप्रदायिनी ।
भगवत्याः पदाम्भोजे शरणस्थो भजाम्यहम् ॥

94.8

नमामि वज्रवाराहीं सर्वपापप्रमोचनीम् ।
मारविध्वंसिनीं देवीं बुद्धत्वफलदायिनीम् ॥

94.9

नौमि श्रीवज्रवाराहीं मन्त्रमूर्तिं जिनेश्वरीम् ।
अत्यन्तवरदां देवीं ऋद्धिसिद्धिवरप्रदाम् ॥

94.10

वैरोचनकुलोद्भूतां मुक्तकेशीं त्रिलोचनाम् ।
सन्ध्यासिन्दूरवर्णाभां वन्दे त्वां कुलिशेश्वरीम् ॥

94.11

पञ्चमुद्रशिरःशोभां स्कन्धे खट्वाङ्गधारिणीम् ।
करे वज्रकरोटस्थां वन्दे वज्रविलासिनीम् ॥

94.12

मुद्रापञ्चधरां देहे मुण्डमालाविभूषिताम् ।
लीलाहास्यमुखाम्भोजां वन्दे त्रैलोक्यसुन्दरीम् ॥

94.13

भैरवाद्यां त्रिमुखीं च विक्रान्तिकण्ठचर्चिकाम् ।
विद्वेषघनघोरां च वन्दे भीमभयङ्करीम् ॥

94.14

रागविरागयोर्मध्ये भावाभावविखण्डिताम् ।
समुद्भूतां सदा देवीं वन्दे तां ज्ञानडाकिनीम् ॥

94.15

पञ्चामृतसुरापानपञ्चशालिसुभोजिनीम् ।
गीतवाद्यरतां नित्यं वन्दे त्वां सुरवन्दिताम् ॥

94.16

सदैव सहजानन्दां नित्यभूतां सर्वालयाम् ।
रणच्चरणनूपुर्यां वन्दे नृत्यपरायणाम् ॥

94.17

त्वां देवीं सिद्धिदात्रीं च योगाचारसदारताम् ।
बुद्धनिर्वाणदात्रीं त्वां वन्दे बुद्धस्य मातरम् ॥

94.18

रक्ताङ्गीं वज्रवाराहीं दिव्यरूपस्वरूपिणीम् ।
क्रान्तिमूर्तिदयादेवीं नमामि वज्रयोगिनीम् ॥

94.19

बन्धूकपुष्पसङ्काशां शान्तरूपां जिनेश्वरीम् ।
ऋद्धिसिद्धिप्रदां देवीं नमामि वज्रयोगिनीम् ॥

94.20

द्वादशवर्षसम्पन्नां नवनृत्यस्वरूपिणीम् ।
त्रैलोक्यव्यापिनीं देवीं नमामि वज्रयोगिनीम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc