भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 95

95.1

हां हां हांकारनादैः किलिकिलितरवैः भूतवेतालवृन्दैर् हु हुंकारैः समन्तान्नरपिशितमुखै रक्तमालाकुलाङ्गैः ।
खट्वाङ्गस्कन्नपाणिर्नरकरकधरः कामरूपी विरूपी पिङ्गाक्षः पिङ्गकेशः शवगणनलकः क्षेत्रपालो ऽवताद्वः ॥

95.2

फें फें फेंकारनादैः प्रतिजनितबृहद्वह्निगर्भाङ्गवक्त्रे मालां कण्ठे निधाय प्रकटभयवपुर्भूषिताङ्गोपशोभः ।
ईषद्रक्ताधरोष्ठो ऽसृकसकलवृतामालिना मुक्तपाणिः क्लीं डां क्लीं डां निनादैर्वरदहनभुवि क्षेत्रपः पातु युष्मान् ॥

95.3

क्षं क्षं क्षं क्षान्तिमूर्तिः कलकलकलकृत् क्षान्तिवृद्धिं प्रकुर्वन् । क्रान्ताक्रान्तैकविश्वः कहकहकथनो नीलजीमूतवर्णः ।
ह्रीं श्रीं क्लीं मन्त्रदेहः पच पच दहनैर्जातमन्त्रः समन्ताद् विघ्नानुत्सार्यमाणः शमयतु नियतं शात्रवान् क्षेत्रपालः ॥

95.4

हा हा हा हाट्टहासैरतिशयभयकृत् सर्वदा ऽसत्पशूनां पापानाम्, विघ्नहन्ता प्रतिदिवसमसौ प्राप्तसंबोधिलाभः ।
हुं फट् हुंफटनिनादैस्त्रिभुवनकुहरं पूरयन् पूर्णशक्तिः पायाच्छ्रीक्षेत्रपालः कपिलतरजटाजूटक्लेशाङ्गभारः ॥

95.5

खं खं खं खङ्गपाणिर्ललललललितो रूपतो रक्तपाणिः रं रं रं रक्तनेत्रो रु रु रुधिरकरश्चर्चितश्चण्डवेगः ।
क्रुं क्रुं क्रुं क्रोधदृष्टिः कुह कुह कुटिलः कुञ्चिताशेषदुष्टः डं डं डं डामराङ्गो डमरुकसहितो रक्षतात् क्षेत्रपालः ॥

95.6

यं यं यं याति विश्वं यमनियमयुतो यामिनो ऽयामिनो वा वं वं वं वातवेगो झटिति करकधृत् प्राप्तलोकोपचारः ।
भ्रूं भ्रूं भ्रूं भीषणाङ्गो भृकुटिकृतभयो मुक्तिवान् साधकानां क्षं क्षं क्षं क्षेमकारी क्षपयतु दुरितं रक्षतात् क्षेत्रपालः ॥

95.7

क्लां क्लां क्लां क्रान्तिमूर्तिस्त्रिभुवनमनिशं क्लेदयन् सर्वदा यः पं पं पं पाशहस्तः परशुधृतकरः पालयन् पालनीयान् ।
मुद्राणां मन्त्रमूर्तिस्त्वमभिमतफलदो मन्त्रिणां मन्त्रतुल्यः क्षेत्राणां पालको ऽसौ सकलजिततनुः पातु युष्मांश्चिरायुः ॥

95.8

क्लीं क्लीं क्लीं कृत्तिवासा कृतरिपुनियमः क्लेशितानां सदेशः कं कं कं कपालमाली कलिकलुषहरः कालवृन्दाभकायः ।
चं चं चं चण्डवेगः प्रचरितसमयाः कालभूतैकलोकः सं सं सं संयतात्मा समयशुभफलं लक्ष्यतां पातु युष्मान् ॥

95.9

मन्त्राणां मन्रकायो नियतयमद्युतिः सत्पथे शूद्धतीरे आचार्यः साधको वा जपति च नियतं पुण्यवान् जायते ऽसौ ।
आयुः श्रीः कीर्तिलक्ष्मीर्धृतिबलमतुलं शान्तिपुष्टी प्रभा च सर्वज्ञत्वं च नित्यं दिननिशमतुलं नश्यते विघ्नजातम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc