108 Buddhist stotras · अध्याय 93
सरस्वतीं नमस्यामि चेतनां हृदि संस्थिताम् ।
कण्ठस्थां पद्मयोनिं च ह्रींकारसुप्रियां सदा ॥
मतिदां वरदां चैव सर्वकामप्रदायिनीम् ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥
ऐं ह्रीं मन्त्रप्रियां चैव कुमतिध्वंसकारिणीम् ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥
मोक्षप्रदां सुनित्यां सुवरदां शोधनप्रियाम् ।
आदित्यमण्डले लीनां प्रणमामि जिनप्रियाम् ॥
ज्ञानाकारां जगद्दीपां भक्तपाशविनाशिनीम् ।
इति सम्यक् स्तुता देवी वागीशेन महात्मना ॥
आत्मानं दर्शयामास शरदिन्दुसमप्रभा ।
सरस्वत्युवाच वरं वृणीष्व भदन्त यत्ते मनसि वर्तते ॥
बृहस्पतिरुवाच प्रसन्ना यदि मे देवी दिव्यं ज्ञानं प्रदीयताम् ।
सरस्वत्युवाच स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति सदा नराः ॥
लभन्ते परमं ज्ञानं मम तुल्यपराक्रमम् ।
कवित्वं मत्प्रसादेन तथा च विपुलं यशः ॥
त्रिसन्ध्यं प्रयतो भूत्वा यः स्तोत्रं पठते नरः ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0