108 Buddhist stotras · अध्याय 92
ब्रह्मादिदेवमनुजासुरपूजिताङ्गं ज्ञानादिसर्वनिलयं गुणराजवन्तम् ।
ज्ञानाधिपं गुणमयं गुणवृद्धिमन्तं वागीश्वरं सुरगुरुं सततं नमामि ॥
वेदादिशास्त्ररचनाखिलमन्त्रविज्ञं स्तोत्रैः कथादिभिरशेषसुगीतशब्दम् ।
यं कीर्ययन्ति मुनयो नरवाण्यभिज्ञं वागीश्वरं सुरगुरुं सततं नमामि ॥
ज्ञानप्रधानकशरीरमचिन्त्यबुद्धिं वाचस्पतिं दिवि भुवि स्तुतकीर्तिदं तम् ।
ज्ञानेश्वरं त्रिभुवनेशचराचरं तं वागीश्वरं सुरगुरुं सततं नमामि ॥
रत्नादिशिल्पपरिकल्पनपूर्णज्ञेयं चित्रं विचित्रितगुणं जनमाननीयम् ।
सर्वज्ञकारकधराद् हृदि ब्रह्मपुञ्जं वागीश्वरं सुरगुरुं सततं नमामि ॥
चर्याविधौ रतिपतिं स्थिरधैर्यबोधिं ध्यानाधिपं विविधिना सुखरञ्जनीयम् ।
विद्याप्रतिष्ठितगुरुं भुवनेतिपूर्णं वागीश्वरं सुरगुरुं सततं नमामि ॥
वाणीपतिं भुजचतुष्टयबाणचापं पुस्तं कृपाणमनिशं क्रमशो दधानम् ।
सर्वेष्टदं जगति यच्चणारविन्दं वागीश्वरं सुरगुरुं सततं नमामि ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0