भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 89

89.1

स्तुतमपि सुरसङ्घैः सिद्धगन्धर्वयक्षैर् दिवि भुवि सुविचित्रैः स्तोत्रवाग्भिर्यतीशैः ।
अहमपि कृतशक्तिर्नौमि संबुद्धमार्यं नभसि गरुडयाते किं न यान्ति द्विरेफाः ॥

89.2

क्षपितदुरितपक्षः क्षीणनिःशेषदोषो द्रवितकनकवर्णः फुल्लपद्मायताक्षः ।
सुरुचिरपरिवेषः सुप्रभामण्डलश्रीः दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.3

मदनबलविजेतुः कापथोच्छेदकर्तुस् त्रिभुवनहितकर्तुः स्त्रीलताजालहर्तुः ।
समसुखफलदातुर्भेत्तुरज्ञानशैलं दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.4

असुरसुरनराणां यो ऽग्रजन्माग्रदेवः सकलभुवनधातौ लोकसृष्ट्यैकशब्दः ।
स्वपिति मनुजधाता अब्जयोनिः स्वयम्भूर् दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.5

उदयगिरितटस्थो विद्रुमच्छेदताम्रस् तिमिरनिकरहन्ता चक्षुरेकं प्रजानाम् ।
रविरपि मदलोलः सर्वथा सो ऽपि सुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.6

द्विरददशनपाण्डुः शीतरश्मिः शशाङ्कस् तिलक इव रजन्याः सर्वचूडामणिर्यः ।
अविगतमदरागः सर्वथा सो ऽपि सुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.7

प्रबलभुजचतुष्कः षोडशार्धार्धवक्त्रो जपनियमविधिज्ञः सामवेदप्रवक्ता ।
अमलकमलयोनिः सो ऽपि ब्रह्मा प्रसुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.8

हिमगिरिशिखरस्थः सर्पयज्ञोपवीती त्रिपुरदहनदक्षो व्याघ्रचर्मोत्तरीयः ।
सह गिरिवरपुत्र्या सो ऽपि सुप्तस्त्रिशूली दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.9

ज्वलितकुलिशपाणिर्दुर्जयो दानवानां सुरपतिरपि शच्या विभ्रमे मूढचेताः ।
अनिशिनिशिप्रसुप्तः कामपङ्के निमग्नो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.10

कुवलयदलनीलः पुण्डरीकायताक्षः सुररिपुबलहन्ता विश्वकृद्विश्वरूपी ।
हरिरपि चिरसुप्तो गर्भवासैरमुक्तो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.11

कपिलजटकलापो रक्तताम्रारुणाक्षः पशुपतिरतिकाले सङ्गभङ्गैकदक्षः ।
स्मरशरदलिताङ्गः सो ऽपि सुप्तो हुताशो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.12

हुमशशिकुमुदाभो मद्यपानारुणाक्षो दृढकठिनभुजाङ्गो लाङ्गली शक्तिहस्तः ।
बल इह शयितो ऽसौ रेवतीकण्ठलग्नो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.13

गजमुखदशनैकः सर्वतो विघ्नहन्ता विगलितमदवारिः षट्पदाकीर्णगण्डः ।
गणपतिरपि सुप्तो वारुणीपानमत्तो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.14

अतसिकुसुमनीलो यस्य शक्तिः कराग्रे नवकमलवपुष्मान् षण्मुखः क्रौञ्चहन्ता ।
त्रिनयनतनयो ऽसौ नित्यसुप्तः कुमारो दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.15

अशनवसनहीना भाव्यमाना विरूपा अलमखिलविघातैः प्रेतवद्दग्धदेहाः ।
उभयगतिविहीनास्ते ऽपि नग्नाः प्रसुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.16

ऋषय इह महान्तो वत्सभृग्वङ्गिराद्याः क्रतुपुलहवसिष्ठा व्यासवाल्मीकिगर्गाः ।
परयुवतिविलासैर्मोहितास्ते ऽपि सुप्ताः दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.17

यमवरुणकुबेरा यक्षदैत्योरगेन्द्राः दिवि भुवि गगने वा लोकपालास्तथान्ये ।
युवतिमदकटाक्षैर्वींक्षितास्ते ऽपि सुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.18

भवजलनिधिमग्ना मोहजालावृताङ्गा मनुकपिलकणादा भ्रामिता मूढचित्ताः ।
समसुखपरिहीना वालिशास्ते ऽपि सुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् ॥

89.19

अज्ञाननिद्ररजनीतमसि प्रसुप्ता तृष्णाविशालशयने विषयोपधाने ।
काले शुभाशुभफलं परिकीर्यमाणे जागर्ति यः सततमेव नमो ऽस्तु तस्मै ॥

89.20

तीर्थेषु गोकुलशतानि पिबन्ति तोयं तृप्तिं व्रजन्ति न च तत्क्षयमभ्युपैति ।
तद्वन्मुने कविशतैरपि संस्तुतस्य न क्षीयते गुणनिधिर्गुणसागरस्य ॥

89.21

सुप्रभातं तवैकस्य ज्ञानोन्मीलितचक्षुषः ।
अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः ॥

89.22

पुनः प्रभातं पुनरुत्थितो रविः पुनः शशाङ्कः पुनरेव शर्वरी ।
मृत्युर्जरा जन्म तथैव हे मुने गतागतं मूढजनो न बुद्ध्यते ॥

89.23

सुप्रभातं सुनक्षत्रं श्रिया प्रत्यभिनन्दितम् ।
बुद्धं धर्मं च सङ्घं व प्रणमामि दिने दिने ॥

89.24

स्तुत्वा लोकगुरुं महामुनिवरं सद्धर्मपुण्योद्गमं निर्द्वन्द्वं हतरागद्वेषतिमिरं शान्तेन्द्रियं निस्पृहम् ।
यत्पुण्यं समुपार्जितं खलु मया तेनैव लोको ऽखिलं प्रत्यूषस्तुतिहर्षितो दशबले श्रद्धां परां विन्दताम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc