108 Buddhist stotras · अध्याय 88
वन्दे ऽहं तत्त्वरूपं ततविततभवं भव्यहव्यस्वभावं बुद्धानामादिबुद्धं कृतविविधहितं तेजसां सन्निधानम् ।
सम्यक्संबोधिमूर्ति त्रिगुणविलसितं पञ्चज्ञानैकहेतुं नैराकारं निरञ्जं गगनवदनिशं निर्मलं चित्तचैत्यम् ॥
ज्योतीरूपे त्वदीये विनिलयतपसा दानशीलक्षमासु वीर्यध्यानाख्यप्रज्ञोदधिकृततरणो माणिवृन्दे सुजातौ ।
बोधिं प्राप्तो ऽस्मि चास्मिन् सकलपूरवरे चाकनिष्ठे महिम्नि वन्दे त्वां विश्वरूपं स्फटिकमणिरिवोपात्तनानाप्रभेदम् ॥
नाना वैध्यं सुपूज्योपकरणमनिशं ढौकितं सर्वलोकै किं चाहं ढौकयिष्ये त्वदनुनयमनास्त्यक्तराज्यादिद्रव्यः ।
जातौ जातौ च जातौ कृतसुकृतचयं कायवाङ्मानसैस्तै स्तत्सर्वं ढौकयिष्ये निजतनुसहितं संगृहाण सुबुद्धे ॥
एकं युग्मं तृतीयं युगलयुगमथो पञ्चमं षष्ठसंज्ञं सप्ताष्टौ वै नवाख्यं दशममथ तथैकादशं द्वादशाख्यम् ।
त्रायोदश्यं चतुर्दश्यमथ शरकमठं चैकतः संप्रसूतम् आनन्त्यं स्वं तदैवं जगदखिलमभूत् त्वां नमे चैकरूपम् ॥
एको वैरोचनाख्यस्तदपरजिनो बुद्ध अक्षोभ्यसंज्ञः रत्नाद्यः संभवो ऽसौ त्रितय अमृतरुक्संज्ञकस्तुर्यसंख्यः ।
पञ्चाख्यो ऽमोघसिद्धिस्तदनु च जगति ख्यातसंख्याद्यसंख्या देवा दैत्याश्च मर्त्या भवदवयवजाः सर्वदा ऽहं नतो ऽस्मि ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0