108 Buddhist stotras · अध्याय 90
नमस्ते विश्वरूपाय ज्योतीरूपाय ते नमः ।
नमः स्वयंभवे नित्यं जगदुद्धारहेतवे ॥
त्वं बुद्धस्त्वं च धर्मो दशबलतनयस्त्वं तथा बोधिसत्त्व स्त्वं भिक्षुः श्रावकस्त्वं कुलिशवरधरस्त्वं तथा धर्मधातुः ।
त्वं ब्रह्मा त्वं च विष्णुः प्रमथगणपतिस्त्वं महेन्द्रो यमस्त्वं त्वं पाशी त्वं धनेशस्त्वमनलपवनौ नैरृतस्त्वं महेशः ॥
भूताः प्रेताश्चतिर्यक् त्वममरमदितिमार्नवास्त्वं वयं च चातुर्योनिस्त्वमेव त्रिगुणवरतनुः पञ्चज्ञानैकमूर्तिः ।
वर्णास्त्वं कालमासा दिनमपि रजनी पञ्चभूतास्त्वमेव अन्नं रत्नं च सर्वं मतिरति महती नः सदा त्वां नताः स्मः ॥
पञ्चज्ञानेन बुद्धान् सृजसि स्वयमथो बोधिसत्त्वांश्च पञ्च भूतानेतान् गुणांस्त्रीनजहरिगिरिशान् स्थावराञ्जङ्गमांश्च ।
सर्वेषां चेतसि स्थो नटयसि सकलं सर्वतो रक्षको ऽसि त्वं बीजं चाङ्कुरस्त्वं फलमपि विटपी सर्वदा त्वां नताः स्मः ॥
श्रेष्ठं क्षत्रं त्वमस्मिन् प्रभवसि भगवान् सर्वतः सर्वदेवान् ग्रामांस्तीर्थानि देशान् नृपसहितनरान् नैगमांश्चापि सर्वान् ।
द्वीपेष्वन्येष्वपि त्वं विभजसि सकलं ज्योतिषां संविभागम् बीजीभूतैकदीपो ऽस्यखिलमपि जगद्वयापकस्त्वां नताः स्मः ॥
ज्योतिस्त्वदीयं परितो विसारि सितारुणश्यामकपीतरक्तं ।
दृष्टं ततः सर्वमिदं भवन्तं मन्यामहे त्वां प्रणताः स्म नित्यम् ॥
नुतिं महाराजकृतां ये पठिष्यन्ति मानवाः ।
चक्रवर्तिपदं प्राप्य ते हि मुक्तिमवाप्नुयुः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0