भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 87

87.1

शङ्खेन्दुकुन्दहिमसन्निभचारुदेहां हंसस्थितां कमलपत्रसुरोचनीयाम् ।
दिव्याम्बराभरणभूषितसौम्यरूपां श्रीशारदां भगवतीं सततं नमामि ॥

87.2

संसारसागरमहोदधिमग्नसत्त्वसन्तारिणीं सुरनरार्चितपादपद्माम् ।
हारार्द्धहारमणिकुण्डलमण्डिताङ्गीं श्रीशारदां भगवतीं सततं नमामि ॥

87.3

या भारतीति कथिता जननी च लोके मोहान्धकारभरभग्नकृतां जनानाम् ।
संकीर्तिता मुनिभिरस्तसमस्तदोषैः श्रीशारदां भगवतीं सततं नमामि ॥

87.4

वीणानुवादनरतां स्फटिकाक्षमालासंधारिणीं कनकपुस्तकधारिणीं च ।
रत्नैः शुभैः सुरुचिरां कृतहस्तपद्मां श्रीशारदां भगवतीं सततं नमामि ॥

87.5

पूज्या सदैव जननी परिवन्दनीया देव्या गणा मनसि संपरिमोदनीयाः ।
जीवार्थिनः फलभृतो गुणवर्णना च श्रीशारदां भगवतीं सततं नमामि ॥

87.6

नत्वा भजेज्जगति यो जननीं प्रसिद्धां कुर्यात्सदा भगवती किलपञ्चसौख्यम् ।
सौन्दर्यरूपगुणवित्तसुभोगभाजं श्री शारदां भगवतीं सततं नमामि ॥

87.7

पूजोपहारवलिभिः परिपूजनीया देव्या गणादिकमनोज्ञसुवक्त्रपद्माः ।
यैः पूजिता भगवती किल जाड्यहन्त्री श्रीशारदां भगवतीं सततं नमामि ॥

87.8

यस्याः प्रसादमवगम्य सुखप्रदायास्त्रैलोक्यनाथौदितार्कसमप्रभः स्यात् ।
धर्मार्थकामफलदामथ मोक्षदां च श्रीशारदां भगवतीं सततं नमामि ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc