108 Buddhist stotras · अध्याय 86
एषो हि भवतस्तातो जन्ममृत्युजरान्तकः ।
सर्वार्थसिद्धनाम्नेति शाक्यसिंहो ऽधुना सुत ॥
यस्य छायामुपाश्रित्य दिव्यातिसुन्दरो भवेः ।
द्वात्रिंशल्लक्षणधरं पितरं दर्शयाधुना ॥
चतुरशीतिसाहस्रं स्त्रीणां विहाय निर्मदः ।
तपोवनमगाद् यो ऽसौ वन्दयैनं महर्द्धिकम् ॥
सप्तरत्नानि राज्यं च महैश्वर्यपदं वरम् ।
हित्वा प्रव्रजितो यो ऽसौ तं दर्शय जगद्गुरुम् ॥
मायाख्यायाः पितामह्या यो ऽजनद्दक्षकुक्षितः ।
लुम्बिन्यामुदयात् सूर्य इव तं पितरं नम ॥
अभयायाः कुलेश्वर्या येन पादाम्बुजे नतम् ।
त्रैधातुकाधिपं देवं पितरं त्वं सदा नम ॥
विश्वामित्रमुपाध्यायं यो ऽयोजयत् सुसंवरे ।
बालक्रीडाभिरक्तात्मा तातमेनं सदा नम ॥
जम्बूतरुसमासीनं पञ्चर्षयो हतत्विषः ।
निर्मानिनः प्राभजन् यमेनं तातं सदा नम ॥
पितरं बोधयित्वा यो ऽत्याजयत्तु षडंशकम् ।
दयाकरं जगद्वन्द्यं जनकं प्रणमात्मज ॥
यो ऽजयद्देवदत्तादीन् मानिनः सर्ववित् सुधीः ।
सर्वफलादिदं विज्ञं सुधियं जनकं भज ॥
यात्रायामातुरं जीर्णं मृतं दृष्टिविवर्जितम् ।
स्वयं विज्ञो ऽपि पप्रच्छ सदा तं जनकं भज ॥
कामाग्निर्नाहरद्यस्य चित्तं प्रमदवासिनः ।
निरञ्जनं निर्विकल्पं सुत तं जनकं भज ॥
कनकाश्वं समारुह्य छन्दकेन बहिर्ययौ ।
देशान्निशीथे त्रिदशैः स्तूयमानं मुदा भज ॥
हयं निवर्तयामास छन्दकं च तपोवनात् ।
सुकण्ठाभरणं दत्त्वा भणैनं वनचारिणम् ॥
नैरञ्जनामुपासृत्य प्राकरोद् यस्तपोव्रतम् ।
जगद्धितार्थं षड्वर्षमेनं भज तपःपरम् ॥
बोधिद्रुमसमासीनो जित्वा मारं सुदुःसहम् ।
प्रालभद्बोधिरत्नं यो दर्शयैनं तथागतम् ॥
मृगदावस्थितः काश्यां धर्मचर्क्र प्रवर्तयन् ।
ब्रह्मादिभिर्वृतो यो ऽसौ दर्शयैनं गुरुं सुत ॥
इति मात्रोदितं श्रुत्वा राहुलः सो ऽतिविस्मितः ।
प्रणम्य पितरं पश्यन् मुदमाप स्मिताननः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0