भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 85

85.

नमे श्रीघन त्वां सदाभावभक्तो भवाम्भोधिसेतुं लसन्मोक्षहेतुम् ।
त्रिधातुं विधातुं सुरक्षां विरक्षां सुदक्षं सुकक्षां सुजातं सुदान्तम् ॥

85.2

नमे दानशीलक्षमाध्यानवीर्यं महज्ज्ञानपारंगतं सौगतत्वम् ।
चतुर्ब्रह्मवैहारलोकोद्धरन्तं चतुःसत्यधर्मोपदेशं सुवेशम् ॥

85.3

नमे बोधिराजं सुगम्ये विराजंसुरम्ये वने देवराजादिगम्यम् ।
चतुर्थासनस्थं हितार्थं दिशन्तं कृतानेकसुस्थं जगद्रक्षणस्थम् ॥

85.4

चतुर्मारलोकं महद्वीर्यवन्तं जयन्तं हसन्तं त्रिजालं च कालम् ।
क्षमानद्धदेहं नमे मुक्तगेहं त्रिलोक्यैकनाथं तथा शाक्यनाथम् ॥

85.5

नमे मारसैन्यं जितं येन सर्वं निरस्त्रेण साहाय्यमुक्तेन नूनम् ।
क्षमावर्म मैत्रीधनुर्धारिणा च जगत्पालितुं बोधिवृक्षस्थितेन ॥

85.6

नमे शीतव्यञ्जैर्लसद्देहगेहं जने स्नेहवन्तं वने गेहवन्तम् ।
युतं द्वाधिकैस्त्रिंशकैर्लक्षणाख्यैर्महादुर्लभं त्रैभवे लोकपूज्यम् ॥

85.7

नमे धर्ममेघास्थितं सुप्रतिष्ठं कलौ नाथहीने भवेयं सनाथः ।
तथा पालितुं स्वां प्रतिज्ञां चकार जनिं शाक्यवंशे महीपावतंसे ॥

85.8

नमे भाग्यतो लभ्यते दर्शनं ते तथा भाग्यभाजो स्वयमेति बुद्धिः ।
स्थितो धर्ममेघे कथं दर्शनं स्याद् विहीना न तत्राभिगन्तुं प्रशक्ताः ॥

85.9

इदानीं भवत्पादपद्मोत्थितेन रजःपुञ्जकेन त्रिलोकं पवित्रम् ।
तथास्माच्छिरांसि पवित्राणि सत्यं चरिष्यामि बोधिं भवच्छासनेन ॥

85.10

भुजङ्गप्रयातं कृतं माधवेन पठेद् यो जिनस्याग्रतस्थो हि नित्यम् ।
सदा मङ्गलं तस्य गेहे सुदेहे प्रसन्नाश्च रक्षां करिष्यन्ति बुद्धाः ॥

85.11

त्रिजालं च छित्वा सुखानि प्रभुक्त्वा तथा दानशीलादिपारंगताश्च ।
महाबोधिलब्धा जगत्पालक्षोदं गमिष्यन्ति चान्ते सुखावत्युपाख्याम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc