भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 84

84.1

नौभि श्रीशाक्यसिंहं सकलहितकरं धर्मराजं महेशं सर्वज्ञं ज्ञानकायं त्रिमलविरहितं सौगतं बोधिराजम् ।
धर्माधारं मुनीन्द्रं दशबलबलिनं श्रीघनं विश्वरूपं संबुद्धं लोकनाथं सकलभयहरं संस्थितं मर्त्यलोके ॥

84.2

यस्त्वं धर्माधिमेशं(पेशः) सकलजिनसुतैः संश्रितः श्वेतकेतु रित्याख्यां बोधिहेतुस्तदनु च तुषिता चागता बोधिराज ।
मैत्रेयं स्थापयित्वा प्रमुदितमनसं स्वासने चाभिषिञ्च्य मायागर्भे पवित्रे ऽशुचिमलरहिते रत्नव्यूहे निवेश ॥

84.3

गर्भे स्थित्वा ऽपि यस्त्वं सकलहितकरीं धर्मव्याख्यां करोषि काले मातुः सुकक्षात्सकलनिजकरैः काशयत् संप्रजातः ।
लोकाचारं च कृत्वा विहितदशविधिं वै विवाहादि तत्तत् त्यक्त्वा सर्वांश्च राज्यं सकलजनहिते निर्गतं त्वां नमे ऽहम् ॥

84.4

ऊर्णाकोशाच्च यस्य प्रतिदिनमसकृत् दक्षिणावर्तरोचिः प्रोद्यद्देदीप्यमानत्रिभुवनकुहरध्वस्तमोहान्धकारम् ।
चत्वारिंशत्सुदन्तोद्गलितकरचयैर्भापयन्नारकीयान् प्रोद्धृत्वा स्वर्गलोके सुरतरुकलिते स्थापिता येन वन्दे ॥

84.5

यत्पाणी चक्रचिह्नावभिमतफलदौ दानपारंगतत्वो द्यत्कान्ता भूमिदेवी स्वगणपरिवृता भेदयित्वा ऽवनिं ताम् ।
स्थित्वाग्रे पूजयित्वा नमुचिमभिगतं भर्त्सयित्वा द्विषन्तं साक्षीभूता निलीना प्रणमितशिरसा त्वां नमे ऽहं जिनेन्द्रम् ॥

84.6

यस्योद्ग्रीवस्य चाग्रे विधिहरमधुहृल्लोकसंस्थैः प्रवीणैर् द्रष्टुं नैवाभिशक्त्या किमु मनुजपुरे वासितैर्मादृशैश्च ।
ब्रह्माण्डं लङ्घयित्वा तरणिशशधरौ द्यौश्च नक्षत्रलोकं ऊर्ध्वं लोकोत्तराख्ये निजभुवनवरे भासितं त्वां नमे ऽहम् ॥

84.7

यद्वक्त्रं पङ्कजाभं सुरदनवसनाकर्णिकाकेसराढ्यं ब्रह्माण्डं जूम्भते ऽस्मिन् भुवनगणवृत्तं संश्रितं कर्णिकावत् ।
दृष्ट्वा संमूर्च्छितो ऽभून्नमुचिरनुचरैस्त्रासि सर्वज्ञनाथ कृत्वा केचित्प्रयाताः शरणमभिमतं श्रीघनं त्वां नमे ऽहम् ॥

84.8

संख्याज्ञानप्रवीणास्त्रिभुवनसदने पण्डिता ये वसन्ति तैः सर्वैर्मीलयित्वा यदि तव महिमा वर्ण्यते कल्पकालम् ।
पारं गन्तुं समर्था नहि निखिलगुणक्षीरसिन्धोः कथञ्चिद् एकाकी किं समर्थास्तदपि मम मनो बोधनार्थं नमे त्वाम् ॥

84.9

पठ्यन्ते स्तोत्रमेतत्सुरपतिरचितं स्रग्धरावृत्तसंज्ञं शक्राद्या लोकपालाः प्रतिपदनुचराः संकरिष्यन्ति रक्षाम् ।
सौख्यं भुक्त्वेह लोके तदनु सुरपतेः कल्पवृक्षाभिकीर्णे स्थित्वा गच्छन्ति चान्ते सुगतसुतमहीं सर्वलौकैकगम्याम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc