भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 83

83.1

नमामि सौगतं जिनं लसद्वितानभासुरं सहस्रसूर्यरोचिषं शशाङ्ककोटिनिर्मलम् ।
सरोमकूपमण्डलाद् गलत्सुसूक्ष्मतेजसं सहस्रनेमिचक्रिताङघ्रिपद्मपाणिशोभितम् ॥

83.2

भजामि लोकनायकं सशोकरोगनाशकं जराविपद्भयान्तकं भवार्णवप्रतारकम् ।
प्रबुद्धपङ्कजासनं विबुद्धबोधिकाननं त्रिलोकलोकभावनं जगत्त्रयैकपावनम् ॥

83.3

नमो ऽस्तु पालभुं जगच्चकार जन्म मानवं विशुद्धशाक्यसागरे पयोनिधौ शशी यथा ।
कथासुधामयो ऽधुना विनोदयिष्यते भवान् त्रिजालमोहतामसं विनाशयिष्यसे ज्वलन् ॥

83.4

स्थिताय बोधिमण्डपे हिताय लोकसंचय जिताय मारसैन्यकं श्रिताय सत्तृणासनम् ।
सुजातशाक्यभूपतेर्युताय पारमार्थकै र्वृताय बोधिसंवरैर्नमो ऽस्तु धर्मराज ते ॥

83.5

भजामि भव्यभावुकं भवस्य भावभेदकं सुबोधिवैभवोद्भवं सुभाद्रिकं शुभांशिकम् ।
भवौघभारभेदितुं बभार बोधिभारकं सुभद्रभानुभास्वरं सुभावितं शुभावहम् ॥

83.6

जिनेन्द्रमूलमण्डपे लसद्वितानविस्तृते सहस्रकल्पपादपे प्रपूर्णवत्प्रशोभिते ।
हिरण्यरत्नवेदिकाकुशासनस्थितं विभुं नमामि शाक्यसौगतं तथागतं वरं सदा ॥

83.7

पठन्ति ये जिनाग्रतो विनिर्मितं हरेण तत् सुपञ्चपञ्चचामरं त्रिकालमेव मङ्गलम् ।
सुकीर्तिधर्मसंयुतं लसन्ति सप्त वृद्धयो व्रजन्ति ते सुखावतीं सुखेन सत्सुखावतीम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc