भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 82

82.1

प्रणमामि जिनं सुगतं सततं तपनीयहिरण्यशरीरच्छविम् ।
वरचक्रविभूषितपाणितलं ससुरासुरमानुषपापहरम् ॥

82.2

प्रणमामि मुनीन्द्रगुरुं ललितं सतताकुलनिर्जितमारबलम् ।
दशपारमिताप्रतिबोधकरं चतुर्रार्यविबोधकरं सुकरम् ॥

82.3

प्रणमामि हितङ्करदेवनरं सनरामरपूजितदेववरम् ।
अमरादिकषड्गतिहैत्यकरं सजराजनिमृत्युभयादिहरम् ॥

82.4

प्रणमामि सुखाकरबोधिभरं स्वसुखं प्रददौ करुणाशयतः ।
परदुःखमसह्य चकार जनुर्गतदोषनिराकुलशाक्यकुले ॥

82.5

प्रणमामि च लोकहिताय गृहं विजहौ पितरं रमणीसहितम् ।
हयकण्ठकछन्दकदेववृतो मुदितो ऽभ्यगमत् सुवने विजने ॥

82.6

प्रणमामि तपोवनसुभ्रमितं प्रचकार च यस्तु महर्षिगणान् ।
चतुरार्यकब्रह्मविहारपरान् सुगतस्मरणैकतपोव्रतिकान् ॥

82.7

प्रणमामि महाद्रुममूलवरे सुतृणासनसंश्रितवज्रधरम् ।
शतकोटिसुमारबलास्त्रहरं शतसंख्यतथागतपुत्रवृतम् ॥

82.8

प्रणमामि च मल्लिकपञ्चशता वणिजः प्रतिपालनमेव कृताः ।
वणिजार्पितपञ्चसुधानयकं शुभपायसभोजनभक्षकृतम् ॥

82.9

प्रणमामि सुवर्तितधर्मवरं मृगदाववने चतुरासनके ।
विधिशक्रसुरासुरलोकवृतं सुशरीरमहोज्ज्वलसर्वदिशम् ॥

82.10

गुरुनिर्मितकं सुगतस्तवकं पठनं कुरुते किल यो मनुजः ।
ग्रहरोगभयं नहि तस्य सदा स तु यास्यति मोक्षपुरे सुपुरे ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc