108 Buddhist stotras · अध्याय 81
नमस्ते शाक्यसिंहाय धर्मचक्रप्रवर्तक ।
त्रैधातुकं जगत्सर्वं शोधयेत् सर्वदुर्गतिम् ॥
नमस्ते वज्रोष्णीषाय धर्मधातुस्वभावक ।
सर्वसत्त्वहितार्थाय आत्मतत्त्वप्रदेशक ॥
नमस्ते रत्नोष्णीषाय समन्तात्तत्त्वभावनैः ।
त्रैधातुकं स्थितं सर्वमभिषेकप्रदायक ॥
नमस्ते पद्मोष्णीषाय स्वभावप्रत्यभाषक ।
आश्वासयन्यः सत्त्वेषु धर्मामृतं प्रवर्तयेत् ॥
नमस्ते विश्वोष्णीषाय स्वभावकृतमनुस्थित ।
विश्वकर्मकरो ह्येष सत्त्वानां दुःखशान्तये ॥
नमस्ते तेजोष्णीषाय त्रैधातुकमभाषक ।
सर्वसत्त्व उपायेषु सत्त्वदृष्टं करिष्यते ॥
नमस्ते ध्वजोष्णीषाय चिन्तामणिध्वजाधर ।
दानेन सर्वसत्त्वानां सर्वाशापरिपूरक ॥
नमस्ते तृष्णोष्णीषाय क्लेशोपक्लेशछेदन ।
चतुर्मारबलं भग्नं सत्त्वानां बोधिप्राप्तये ॥
नमस्ते छत्रोष्णीषाय आतपत्रं सुशोभनम् ।
त्रैधातुक जगत्सर्वं धर्मराजत्वप्रापकम् ॥
लास्या माला तथा गीता नृत्या देवीचतुष्टयम् ।
पुष्पा धूपा च दीपा च गन्धादेवी नमो ऽस्तु ते ॥
द्वारमध्यस्थिता ये च अंकुशपाशफोटकाः ।
श्रद्धाभावविनिर्ज्ञातं द्वारपाल नमो ऽस्तु ते ॥
वेदिकादौ स्थिता ये च चतस्रो द्वारपालिकाः ।
मुदितादौ दश स्थित्वा बोधिसत्त्व नमोस्तु ते ॥
ब्रह्मेन्द्ररुद्रचन्द्रार्का लोकपालाश्चतुर्दिशम् ।
अग्नी राक्षसवायुश्च भूताधिपते नमोस्तु ते ॥
अनेन स्तोत्रराजेन संस्थितो मण्डलाग्रतः ।
वज्रघण्टाघरो मन्त्री इदं स्तोत्रमुदाहरेत् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0