108 Buddhist stotras · अध्याय 80
नमामि तं भिक्षुगणैरूपेतं तथागतैर्वृक्षतले निषण्णम् ।
अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥
शाक्येन्द्रवंशाललितावतंसमंशाधिकाभं कनकाधिकाभम् ।
नमामि बुद्धं ह्युपजातिसिद्धं सर्वार्थसिद्धाख्यकुमारवर्यम् ॥
नमामि नित्यं निरवद्यवृत्तं निरंजनं निर्मलदेहरूपम् ।
निःशेषसत्त्वोद्धरणैकचित्तं चन्द्राननं शुभ्रपदारविन्दम् ॥
शौद्धोदनिं गौतमिपालनीयं मायासुतं मारजितं महान्तम् ।
महेश्वराद्यैर्महनीयमूर्तिममेयमाहात्म्यममेयधर्मम् ॥
भवोदधेस्तीर्णमनन्तपुण्यं भवादिदेवैरभिवन्द्यपादम् ।
अनन्तभव्याकृतिभावनीयं तं नौमि भव्योज्ज्वलभूषिताङ्गम् ॥
बभाण वंशस्थविरो नृपाधिपो जनान् प्रतीत्याह्वयतात्मजं मम ।
कृतारिभङ्गं जिनराजमीश्वरं गतं षडब्दं च वियोगभावयोः ॥
भजस्व वंशस्थविरं मुनीश्वरं महावने वृक्षतले शुचिस्थले ।
जगद्धितं यज्जनन जरान्तकं जगज्जनन्या वरदक्षपार्श्वजम् ॥
शाक्येन्द्रवंशोदधिचन्द्रमुद्गतं श्रीशाक्यसिंहं चतुराननैः स्तुवन् ।
प्राशिष्ट ब्रह्मा चतुराननं स्वकं चतुर्गुणं पुण्यमवाप्तमित्यहो ॥
दैत्येन्द्रवंशाग्निरसौ जनार्दनो द्वाभ्यां विधायाञ्जलिमम्बुजासनम् ।
दोष्णाममंसच्चतुरश्चतुर्भुजाद् द्वैगुण्यमाप्तं सुकृतं मयेति ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0