108 Buddhist stotras · अध्याय 79
नमो ऽस्तु लोकाधिप शाक्यराज सद्धर्मपङ्केरुहभास्कराय ।
क्लेशारिवर्गाभिहताय तुभ्यं संबोधिदीपैर्हतमोहजाल ॥
ब्रह्मर्षिराजर्षिसुरर्षिसङ्घैः प्राप्तुं न यच्छक्यमनेकरत्नैः ।
प्राप्तं त्वया ज्ञानमनन्तधर्मं येनाकरिष्यः सकलस्य हैत्यम् ॥
प्रवर्तितं येन सुधर्मचक्रं यस्मिन् मही सोदधिशैलराजा ।
आनन्दितेव चलिता ह्यजस्रं नमो ऽस्तु तुभ्यं त्रिभवाधिपाय ॥
यस्मिंश्च वातास्त्रिगुणेन युक्ता ववुर्नभस्तो निपतन्ति वस्त्राः(र्षाः) ।
विचित्रपुष्पाणि सुगन्धि वारि नमो ऽस्तु तुभ्यं जगदेकनाथ ॥
अनन्यजेयो नमुचिर्वरिष्ठैः सैन्यैर्वृतः कोटिशतप्रमाणैः ।
जितं त्वयैकेन निरायुधेन नमो ऽस्तु तुभ्यं बलवर्तनाय ॥
येन त्रिलोकीं प्रतिपालितुं तन्मायासुकज्जाज्वलयन्(?) प्रजातम् ।
स्वभावतो जन्मजरान्तकारिणे नमो ऽस्तु तुभ्यं जगदेकनाथ ॥
त्रैधातुलोकेषु विकासितुं तां संबोधिचर्यामपवर्गसेतुम् ।
तुषितायुतो जन्म चकार मर्त्ये नमो ऽस्तु तुभ्यं वरबोधिराज ॥
सम्यक् प्रतिज्ञां प्रतिकृत्य येन संप्रेष्यते मोक्षपुरे जनौघः ।
तदर्थमायासि च मर्त्यलोके नमो ऽस्तु तुभ्यं सुमहत्प्रतिज्ञ ॥
यश्चाष्टकं ब्रह्मकृतं सुपुण्यं पठिष्यति शाक्यवराग्रतः स्थः ।
दुःखं महापापभयं च हित्वा श्रीश्रीघने यास्यति पत्तने मुदा ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0