भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 78

78.1

सत्त्वार्थमेव मयि तिष्ठति सत्त्वश्रद्धा नान्यत्र सा, ह्यहमहो ऽधिगृहीतसत्त्वः ।
चर्या ऽधमा करुणया रहिता भवेद् या संभाव्यते करुणयैव प्रहाणमस्याः ॥

78.2

सत्त्वेषु यस्य नितरां करुणाप्रवृत्तिराराधकः स मम शासनमर्मवेत्ता ।
शीलं श्रुतिश्च करुणा च सुधोश्च यस्य नित्यं स एव सुगतार्चनकृन्निगद्यते ॥

78.3

कल्याणकारमधिकृत्य गतो ऽस्मि सिद्धिं सत्त्वार्थमेव तनुमेष समुद्वहामि ।
नैवं क्रियेत यदि सत्त्वहितं मया चेद् व्यर्थं करोमि तनुपोषणमन्नपानैः ॥

78.4

सत्त्वान् हिनस्ति मनसापि हि यः स कस्मान्मामेव संश्रयति यो मयि निर्व्यपेक्षः ।
पूजा तु सा भवति सत्त्वहितेक्षणापि पूज्यस्य या मनसि तुष्टिमुपाददाति ॥

78.5

हिंसात्मिका परविहेठनसम्भवा वा पूजा न पूज्यमनुगच्छति संस्कृतापि ।
दाराः सुताश्च विभवश्च महत्त्व(च्च) राज्यं मांसं च शोणितवसे नयते शरीरम् ॥

78.6

येषां प्रियत्वमधिकृत्य मयोज्झितं यत् यस्तान् विहेठयति तेन विहेठितो ऽहम् ।
सत्त्वोपकारपरमा हि ममाग्रपूजा सत्त्वापकारपरया च पराभवः स्यात् ॥

78.7

सत्त्वान् प्राप्य मया कृतानि कुशलान्याराधितास्तायिनः प्राप्ताः पारमिताश्च सत्त्वसमितेरेवार्थमातिष्ठता ।
सत्त्वार्थेन समुद्यतेन मनसा मारस्य भग्नं बलं सत्त्वैरेव तथा तथा विरचितं येनास्मि बुद्धः कृतः ॥

78.8

कस्मिन् वस्तुनि सिद्ध्यतामिह कृपा मैत्री च क्वालम्बतां क्वोपेक्षामुदितादिवस्तुविषयः कस्मिन् विमोक्षादयः ।
कस्यार्थे करुणापरेण मनसः क्षान्तिश्चिरं भाविता न स्युर्जन्मनि जन्म(नि) प्रियविधौ मित्रं यदि प्राणिनः ॥

78.9

सत्त्वा एव गजादिभावगतयो दत्ता मया ऽनेकशः सत्त्वा एव च पात्रतामुपगतं देयं मया ग्राहिताः ।
सत्त्वैरेव विचित्रभावगमनादस्मत्कृपा वर्धिता सत्त्वानेव न पालयामि यदि चेत् कस्यार्थमर्थः कृतः ॥

78.10

संसारे व्यसनाभिघातबहुले न स्युर्यदि प्राणिनो जन्मावर्तविडम्बनेन यमलोकं प्राप्य सात्मीकृताः ।
संसारात्तरणं च सौगतमिदं महात्म्यमत्यद्भुतं कस्यार्थेन समीहितं यदि न मे सत्त्वा भवेयुः प्रियाः ॥

78.11

यावच्चेदं ज्वलति जगतः शासनं शासनं मे तावत् स्थेयं परहितपरैरात्मवद्भिर्भवद्भिः ।
श्रुत्वा श्रुत्वा मम विरचितं सत्त्वहेतोरखिन्नैः खेदः कार्यो न च तनुमिमं मुक्तसारं भवद्भिः ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc