भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 77

77.1

श्रीसंवरं महावीरं वाराहीं चापि योगिनीम् ।
नमामि सर्वभावेन योगिनीजालनायकम् ॥

77.2

डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम् ।
चतुरो ऽमृतभाण्डांश्च बोधिचित्तेन पूरितान् ॥

77.3

पुल्लीरमलयोद्भूतं खण्डकपालसंवरम् ।
प्रचण्डालिङ्गणं वीरं नमामि शिरसि स्थितम् ॥

77.4

जालन्धरात्समुत्पन्नं महाकंकालसंवरम् ।
चण्डाल्यालिङ्गणं वीरं शिखादेशे स्थितं नमे ॥

77.5

ओडियानात्समुद्भूतं कंकालनाम संवरम् ।
प्रभावतीसमापन्नं सव्यकर्णस्थितं नमे ॥

77.6

अर्बुदपीठमध्यस्थं संवरं विकटदंष्ट्रिणम् ।
महानासासमापन्नं पृष्ठदेशे स्थितं नमे ॥

77.7

गोदावरीसमुद्भूतं सुरावीरिणसंवरम् ।
संपुटं वीरमत्याख्या वामकर्णस्थितं नमे ॥

77.8

रामेश्वरोद्भवं वीरं अमिताभाख्यसंवरम् ।
खर्वरोसंपुटं नाथं भ्रुवोर्मध्यस्थितं नमे ॥

77.9

देवीकोटोद्भवं नाथं वज्रप्रभाख्यसंवरम् ।
लङ्केश्वरीसमापन्नं नमामि नेत्रकोणगम् ॥

77.10

मारवाख्यात्समुत्पन्नं वज्रदेहाख्यसंवरम् ।
द्रुमच्छायासमापन्नं नमामि स्कन्धदेशगम् ॥

77.11

कामरूपोद्भवं वीरं अङ्गुलिकाख्यसंवरम् ।
ऐरावतीसमापन्नं नमामि कक्षदेशगम् ॥

77.12

ओकारस्थानसंजातं वज्रजटिलसंवरम् ।
भैरवालिङ्गणं वीरं तनुयुगोद्भवं नमे ॥

77.13

त्रिशकुन्यद्भवं नाथं महावीराख्यसंवरम् ।
वायुवेगासमापन्नं नाभिदेशस्थितं नमे ॥

77.14

कौशलायां समुद्भूतं वज्रहूंकारसंवरम् ।
सुराभक्षीसमापन्नं नमामि नासिकाग्रजम् ॥

77.15

कलिङ्गपीठसंजातं सुप्रभानाम संवरम् ।
श्यामादेवी समापन्नं नमामि मुखभागजम् ॥

77.16

लम्पाकस्थानसंभूतं वज्रप्रभाख्यसंवरम् ।
सुभद्रालिङ्गणं वीरं कण्ठदेशोद्भवं नमे ॥

77.17

काञ्च्याख्यपीठसंजातं महाभैरवसंवरम् ।
हयकर्णासमापन्नं नमामि हृदिमध्यगम् ॥

77.18

हिमालयोद्भवं वीरं विरूपाक्षाख्यसंवरम् ।
खगाननासमापन्नं मेढ्रस्थानगतं नमे ॥

77.19

प्रेतपुर्यां समुद्भूतं महाबलाख्यसंवरम् ।
चक्रवेगासमापन्नं लिङ्गस्थानगतं नमे ॥

77.20

गुहदेशात्समुद्भूतं रत्नवज्राख्यसंवरम् ।
खण्डरोहासमापन्नं नमामि गुदमध्यगम् ॥

77.21

सौराष्ट्रदेशसंभूतं हयग्रीवाख्यसंवरम् ।
शौण्डिन्यालिङ्गणं वीरं नमामि उरुमध्यगम् ॥

77.22

सुवर्णद्वीपसंजातम् आकाशगर्भसंवरम् ।
चक्रवर्मिणीसमापन्नं जङ्घामध्यगतं नमे ॥

77.23

नगरपीठमध्यस्थं श्रीहेरुकाख्यसंवरम् ।
सुवीरालिङ्गणं वीरं नमाम्यङ्गुलिवर्तिनम् ॥

77.24

सिन्धुदेशसमुद्भूतं पद्मनृत्याख्यसंवरम् ।
महाबलासमापन्नं पादपृष्ठगतं नमे ॥

77.25

मरुतीपीठसंजातं वैरोचनाख्यसंवरम् ।
चक्रवर्तिनीसमापन्नं नमाम्यङ्गुष्ठमध्यगम् ॥

77.26

कुलतायाः समुद्भूतं वज्रसत्त्वाख्यसंवरम् ।
महावीर्यासमापन्नं जानुद्वयगत नमे ॥

77.27

पूर्वद्वारे स्थितं वीरं वज्रचण्डाख्यसंवरम् ।
काकास्यालिङ्गणं वीरं नमामि सुरनायकम् ॥

77.28

उत्तरद्वारमध्यस्थं वज्रानलाख्यसंवरम् ।
उलूकास्यासमापन्नं नमामि यक्षनायकम् ॥

77.29

पश्चिमद्वारमध्यस्थं वज्रोष्णीषाख्यसंवरम् ।
श्वानास्यासम्पुटं वीरं नमामि पन्नगाधिपम् ॥

77.30

दक्षिणद्वारमध्यस्थं वज्रकुण्डलिसंवरम् ।
शूकरास्यासमापन्नं नमामि यमनायकम् ॥

77.31

आग्नेयदिग्विमात्रस्थं वज्रयक्षाख्यसंवरम् ।
यमदाढीसमापन्नं नमामि वह्निनायकम् ॥

77.32

नैरृत्यदिग्विभाषस्थं वज्रकीलाख्यसंवरम् ।
यमदूतीसमापन्नं नमामि राक्षसाधिपम् ॥

77.33

वायव्यदिग्विभागस्थं वज्रमहाबलाह्वयम् ।
यमदंष्ट्रीसमापन्नं नमामि पवनाधिपम् ॥

77.34

ईशानदिग्विभागस्थं वज्रभीषणसंवरम् ।
यममथनीसमापन्नं नमामि भूतनायकम् ॥

77.35

एतान्देवान् नमस्यामि दिग्विदिक्षु सुसंस्थितान् ।
वीरान् वीरेश्वरीः सर्वा हेरुकं परमेश्वरम् ॥

77.36

सहजानन्दात्मकं देवं विशुद्धं ताण्डवान्वितम् ।
डाकिनीजालमध्यस्थं प्रत्यात्मवेद्यगोचरम् ॥

77.37

स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम् ।
तेन पुण्येन लोको ऽस्तु वज्रडाकपरायणः ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc