108 Buddhist stotras · अध्याय 73
जगद्गुरुं सुरनरलोकपूजितं कृपापटुं परहितमोक्षदेशकम् ।
विपश्यिनं त्रिभवमहौघसारगं नमामि तं सुगतगतिं तथागतम् ॥
अनन्तपारे भवसागरे ऽस्मिन् निमज्यमानं प्रसमीक्ष्य लोकम् ।
प्रकाशितो येन हिताय धर्मो नमो ऽस्तु तस्मै शिखिने जिनाय ॥
वन्दे विश्वभुवं बुद्धं चन्द्रार्काधिकतेजसम् ।
सागरौघमिवागाघं ज्ञानेन विनयेन च ॥
यस्येन्दुरश्मिप्रतिमैर्यशोभिरलंकृता भाति वसुन्धरेयम् ।
औदुम्बरं पुष्पमिवाद्भुतं तं वन्दे ककुप्छन्दमहामुनीन्द्रम् ॥
विसारिणा विगतमलेन चेतसा विरागिणा सततहितानुकारिणा ।
हतं तमो विगतमलेन येन तं सुरार्चितं कनकमुनिं नमाम्यहम् ॥
प्रतप्तचामीकररश्मिगौरं सहस्रसूर्याधिकदीप्ततेजसम् ।
लोकोत्तमं सर्वजनाभिवन्द्यं वन्दाम्यहं काश्यपनामधेयम् ॥
वाक्यांशुजालैः प्रतिबोध्य लोकं सूर्याशुजालैरिव पद्मषण्डम् ।
यो निर्वृतः शाक्यमुनिप्रदीपस्तस्मैः नमः परमकारुणिकाय शास्त्रे ॥
मैत्रेयनामा तुषितालयस्थो यस्यैकजन्मान्तरिता हि बोधिः ।
उत्पत्स्यते यः सुगतः पृथिव्यां सर्वात्मना ऽहं प्रणतो ऽस्मि तस्मै ॥
स्तुत्वा मया सप्तजिनानतीताननागतं चाष्टमबोधिसत्त्वम् ।
यत्पुण्यमासादितप्रमेयं निरामयास्तेन भवन्तु सत्त्वाः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0