भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 72

72.1

उत्पन्नो वन्धुमत्यां नृपतिवरकुले यो विपश्यीतिनाम्ना यस्याशीतिसहस्राण्यमरनरगुरोरायुरासीद् गतानाम् ।
येन प्राप्तं जिनत्वं दशबलबलिना पोतलावृक्षमूले तं वन्दे ज्ञानवारि प्रणमितसकलं क्लेशवह्निं जिनेन्द्रम् ॥

72.2

वंशे पृथ्वीश्वराणां महति पुरवरे यः प्रजातो ऽरूणाक्षो वर्षाणामायुरासीत् सकलगुणनिधेर्यस्य सप्तायुतानाम् ।
संप्राप्ता येन बोधिः परहितपटुना पुण्डरीकस्य मूले तं वन्दे ज्ञानराशिं शिखिनमृषिवरं प्राप्तसंसारपारम् ॥

72.3

यो जातो नोपमायां सुप्रथितयशसामन्वये पार्थिवाना मायुः षष्टिसहस्रादभवदुरुमतेर्यस्य संवत्सराणाम् ।
जित्वा क्लेशानशेषानमृतमधिगतं येन शालस्य मूले तं वन्दे धर्मराजं भुवनहितकरं विश्वभूनामधेयम् ॥

72.4

क्षेमावत्यां प्रजातो मनुजपतिसमे यो वशी विप्रवंशे आयुर्वर्षायुतानि प्रवरगुणनिधेरष्टचत्वारि चैव ।
जैनेन्द्रं येन लब्धं त्रिभववधकरं ज्ञानखड्गेश्वरेण वन्दे ऽहं सिंहकायं सुगतमनुपमं ककुप्छन्दं मुनीन्द्रम् ॥

72.5

शोभावत्यां द्विजानां नरपतिमहिते यो ऽन्वये संप्रसूतस् तस्यामायुः सहस्राण्यतिशयवपुषस्त्रिंशदेवं बभूव ।
बुद्धत्वं येन रत्नाचलवरगुरुणौदुम्बरे प्राप्तमासीद् तं वन्दे शासितारं कनकमुनिमृषिं ध्वस्तमोहान्धकारम् ॥

72.6

वाराणस्यां कृषीशक्षितिपतिमहिते विप्रवंशे ऽभिजातो यस्यामायुः सहस्राण्यतिशयमहितं विंशतिर्वत्सराणाम् ।
येन न्यग्रोधमूले त्रिभवजलनिधिः पोषितो दिव्यगत्या तं वन्दे वन्दनीयं मुनिवरमनघं काश्यपं लोकनाथम् ॥

72.7

यो जातः श्रीविशाले कपिलपुरवरे शाक्यराजेन्द्रवंशे यस्यासीदायुरेकंशतमिह शरदां सर्वलोकैकबन्धोः ।
निर्गत्याश्वत्थमूले नमुचिमपि सता ऽनुत्तरा येन बोधिस् तं वन्दे शाक्यसिंहं सुरनरनमितं बुद्धमादित्यबन्धुम् ॥

72.8

जातिं विप्रेतिवंशे नृपवरमहिते केतुमत्यां गृहीत्वा बुद्धत्वं येन लब्धमतिगुणनिधिना नागवृक्षस्य मूले ।
अष्टावब्दायुतानि क्षपितभगवतो भावि यस्याग्रमायुर् वन्दे मैत्रेयनाथं तुषितपुरवरे भाविनं लोकनाथम् ॥

72.9

स्तुत्वा वै सप्तबुद्धान् सकलमुपगतान् सप्तसप्तार्कभासो मैत्रेयं च स्तुवन् वै तुषितपुरगतं भाविनं लोकनाथम् ।
यत्पुण्यं संप्रसूतं शुभगतिफलदं देहिनामेव सर्वं छित्वा संक्लेशपाशान् मुनय इव चरन् निर्वृतिं स प्रयातु ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc