भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 69

69.1

सर्वभूतमणिकम्पित तुभ्यं क्षान्तिमेव चरितं तव रूपम् ।
सर्वरूपवरदिव्यसुरूपं तं नमामि दशबलवररूपम् ॥

69.2

भृङ्गराजशिखिमूर्ध्नि सुकेशं कोकिलाभशिखिदिव्यसुकेशम् ।
स्निग्धनीलमृदुकुञ्चितकेशं तं नमामि दशबलवरकेशम् ॥

69.3

शङ्खकुन्दकुमुदं विमरोमं जन्मदुःखविगतं विमरोमम् ।
रोगशोकविमते विमरोमं तं नमामि दशबलवररोमम् ॥

69.4

पूर्णचन्द्रद्युतिशोभितवक्त्रं तुङ्गनासमणिभाशुभवक्त्रम् ।
बुद्धपङ्कजिनभामरवक्त्रं तं नमामि दशबलवरवक्त्रम् ॥

69.5

रश्मिसहस्रविचित्रसुमूर्ध्नि पुष्पवर्षशतपूजितमूर्ध्नि ।
रत्नवर्षशतपूजितमूर्ध्नि तं नमामि दशबलवरमूर्ध्नि ॥

69.6

नेत्रपताकविलम्बितशीर्षं काञ्चनछत्रवरोपितशीर्षम् ।
नेत्रवितानसुशोभितशीर्षं तं नमामि दशबलवरशीर्षम् ॥

69.7

दिव्याम्बरमुकुटं मणिमुकुटं चन्द्रप्रभामुकुटामणिमुकुटम् ।
आगतशीर्षमखण्डितमुकुटं तं नमामि दशबलवरमुकुटम् ॥

69.8

चारुदलायतपङ्कजनेत्रं दिव्यज्ञानविपुलायतनेत्रम् ।
ध्यानमोक्षशुभसंस्कृतनेत्रं तं नमामि दशबलवरनेत्रम् ॥

69.9

शुद्धकर्णशुभशुद्धसुकर्णं शुद्धप्रज्ञवरशोभितकर्णम् ।
शुद्धज्ञानवरशुद्धसुकर्णं तं नमामि दशबलवरकर्णम् ॥

69.10

शुभ्रकुन्दशशिपङ्कजदन्तं तीक्ष्णसुलक्षणनिर्मलदन्तम् ।
विश्वपञ्चदशपञ्चसुदन्तं तं नमामि दशबलवरदन्तम् ॥

69.11

उच्चवाक्यससुरासुरजिह्वां धर्मज्ञानकृतपापदजिह्वाम् ।
गन्धधूपससुरासुरजिह्वां तं नमामि दशबलवरजिह्वाम् ॥

69.12

मेघसुदुन्दुभिनादितघोषं सत्यधर्मनयसुविदितघोषम् ।
दिव्यवादिपरवादितघोषं तं नमामि दशबलवरघोषम् ॥

69.13

ग्रीवग्रीवदशग्रीवसुग्रीवं क्षान्तिवीर्यं तव ग्रीवसुग्रीवम् ।
हेमवर्णमणिग्रीवसुग्रीवं तं नमामि दशबलवरग्रीवम् ॥

69.14

सिंहकायहिमकुन्दसुकायं ध्यानकायगुणसागरकायम् ।
अष्टसुलक्षणनिर्मलकायं तं नमामि दशबलवरकायम् ॥

69.15

श्वेतरक्तशुभशोभितवस्त्रं नीलपीतहरितायितवस्त्रम् ।
हारधवलशुभशोभितवस्त्रं तं नमामि दशबलवरवस्त्रम् ॥

69.16

हेमनागकरसंस्कृतबाहू पुष्पदानकृतशोभितबाहू ।
धीरवीर्यसुमनोहरबाहू तं (तौ) नमामि दशबलवरबाहू ॥

69.17

चामरचक्रसुशोभितहस्तं विमलसुकोमलपङ्कजहस्तम् ।
भूतप्रेतशरणागतहस्तं तं नमामि दशबलवरहस्तम् ॥

69.18

रागद्वेषतनुवर्जितचित्तं कल्पकोटिसमभावितचित्तम् ।
शीलज्ञानसमभावितचित्तं तं नमामि दशबलवरचित्तम् ॥

69.19

पद्मनाभशुभशोभितनाभं पद्मयोनिशुभशोभितनाभम् ।
ब्रह्मज्योतिसुशोभितनाभं तं नमामि दशबलवरनाभम् ॥

69.20

चक्रसुलक्षणभूषितपादं अङ्कुशशक्तिविराजितपादम् ।
नागयक्षगणवन्दितपादं तं नमामि दशबलवरपादम् ॥

69.21

भास्करद्युतिराजितपादं देवदानवगणवन्दितपादम् ।
सर्वदेवगणवन्दितपादं तं नमामि दशबलवरपादम् ॥

69.22

सर्वदेवगणपूजितशीर्षं सूर्यकोटिसमभावितशीर्षम् ।
दिव्यज्वालज्वलितार्पितशीर्षं तं नमामि दशबलवरशीर्षम् ॥

69.23

पुष्पधूपशतपूजितशीर्षं दीपगन्धशतपूजितशीर्षम् ।
माल्यवस्त्रशतपूजितशीर्षं तं नमामि दशबलवरशीर्षम् ॥

69.24

त्रिभुवनधर्मकलाभ्युष्णीषरत्नछत्रमुकुटादिपूजितम् ।
ये पठन्ति सुगतस्तवमेनं ते लभन्ति शुभमोक्षपथाधिगमम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc