108 Buddhist stotras · अध्याय 68
विमलशून्यकृपार्द्रचित्तं मार्गज्ञताप्रथितदेशनयार्थवाचम् ।
सर्वज्ञतादिपरिपूर्णविशुद्धदेहं ज्ञानाधिकारललितं शिरसा नमामि ॥
वैनेयभेदवशतो बहुधावभासैरेको ऽपि पात्रगजलेषु शशीव यस्मात् ।
संलक्षसे परहितानुगतैव तस्माद् बुद्धिस्त्वहो परमविस्मयनीयरूपा ॥
संपूर्णचन्द्रवदने ललितो ललाटदेशाद्विनिर्गतमहेश्वरदेवपुत्रः ।
वैनेयशाम्भवजनप्रतिबोधनार्थं देवाधिदेवप्रतिमानुज ईश्वरस्त्वम् ॥
वैनेयकोमलभवप्रतिबोधनाय किं धाम संभृत महाशुभलक्षणं ते ।
निर्यात एव हि पितामहदेवपूजां लोकेश्वरेश्वरपरं शिरसा नमामि ॥
वैनेयवैष्णवजनप्रतिबोधनाय राजीवपाणिहृदयात् प्रतिनिःसृतो ऽसौ ।
नारायणो ऽपि भुवनेश्वर एव तस्मात् पुंसां त्वमेव परमोत्तम एव नान्यः ॥
चन्द्रार्कसादरबलाहितभक्तिभाजां संदर्शनार्थमिभनीलसुलोचनाभ्याम् ।
यन्निःसृतौ शशिरवी भुवि लोचनाभ्यां ध्वस्तान्तरालतमसं तमहं नमामि ॥
सारस्वतीविनययोजितभक्तिभाजां बोधाय वै भगवतीह सरस्वतीयम् ।
दृष्टाग्रतस्तव जिनात्मजपप्रसूता प्रज्ञाभिलाषिफलदं तमहं नमामि ॥
वैनेयवायुजनिताक्षरमार्गसिद्ध्यै यो लोकनाथ सुगतो ऽथ विनिःसृतो ऽसौ ।
देवः समीरणवरो भुवि जन्मभाजामीर्यापथार्थफलदं तमहं नमामि ॥
वैनेयवारुणशिवायनमीप्सितानां संबोधनार्थमुदरात्सुगतात्मजानाम् ।
यन्निःसृतो वरुणदेववरो ऽप्यकस्मादैश्वर्यसिद्धि फलदं तमहं नमामि ॥
वैनेयसंमतफलाद्यभिलाषिणो वै संसिद्धये प्रवरलक्षणपादपद्मे ।
यन्निःसृता भगवती धरणी प्रसिद्धा त्रैलोक्यनाथमसमं सततं नमामि ॥
संसारमुक्तमपि सुस्थितमेव तत्र कारुण्यतश्च भवचारिणि सत्त्ववर्गे ।
भूयात् स्थितिर्मम सदास्थिरसा भवन्तमेवं महाशयवरं परमं नमामि ॥
एकेन पादतलकेन भवत्स्वकेन चक्रान्तसंवरमनन्तरलोकधातौ ।
कल्पान्तदग्धभुवने ज्वलितोग्रवह्निर्निःश्वासवायुबलतस्तव निर्वृतः स्यात् ॥
स्वां तर्जनीं मुखधृतो ऽहिततर्जनेन संचालिताश्च बहुमेरुगणा नखस्य ।
कोषोद्धृतं जलधितोयमशेषतः स्यात् सामर्थ्यमीदृशमहो भवतः कुतो ऽन्यत् ॥
क्वेदं च शैशवपरं ननु चारुरुपं संदर्शनीयवरकोमलबालचन्द्रम् ।
दुर्वारमारमथनं च मयैकसह्यं विक्रान्तदुःसहपरं क्व च चेष्टितं ते ॥
एषा बताञ्जननिभोरुजनावली सा कौटिल्यचारुविकटा स्वशिरोरुहाग्रे ।
क्लेशेन्धने ज्वलितविस्फुरितत्ववह्नेर्धूमावलीव विमला ननु लक्ष्यते ते ॥
त्वत्कान्तिलेशविमला दशदिक्प्रतानैः पक्षासितक्षयकृशा सकला सुशोभा ।
पर्यन्त इष्टशशिनो भवनेषु यत्ते मन्ये विराजि निखिलं तव कान्तिलेशात् ॥
बन्धुर्हि को मार्गिकसंमतं मतं नरो नरी सा स च सत्पथं पथम् ।
परार्थसंपादितसंवरं वरं नमामि भूमीश्वरराजिनं जिनम् ॥
अनित्यनिर्वाणपदे स्थितं स्थितं प्रभास्वराधिष्ठितसंहितं हितम् ।
शमीकृताशेषजनं शिवं शिवं नमामि भूमीश्वरराजिनं जिनम् ॥
गभस्तिमालामितसंकुलं कुलं तत्र स्वपाणौ धृतपङ्कजं कजम् ।
रतानुगाशोभितसंरतं रतं नमामि भूमीश्वरराजिनं जिनम् ॥
स्वधर्मधातुं करुणापरं परं शुभादिसंभारसुसंभृतं भृतम् ।
विकल्पहीनं ध्वनिदेशकं शकं नमामि भूमीश्वराजिनं जिनम् ॥
तथतातथताद्वयशातशतं सदसत्परिपूरितधर्मकथम् ।
कथनीयविराजितसत्यपरं प्रणमे धरणीश्वरराजवरम् ॥
वरवारिजरूपि जगत्प्रसरं सरसीरुहलोचनचारुतरम् ।
तरसापि रसत्वविशुद्धिपरं प्रणमे धरणीश्चराजवरम् ॥
वरनिर्मितभोगपरार्थरतं रतशून्यनिरञ्जनधर्मधरम् ।
धरणीन्द्रविभूषितसिद्धिपरं प्रणमे धरणीश्वरराजवरम् ॥
वरसत्सहजोदधिचन्द्रमुखं सुखभाषितसत्त्वविमुक्तिपदम् ।
पदभूषणलक्षणतानुपरं प्रणमे धरणीश्वरराजवरम् ॥
लोकेश्वरेयं(मां) तव रत्नमालामचीकरच्छ्रीवनरत्नपादः ।
अवापि यत्तेन शुभप्रविष्टं तेनैव लोको ऽस्तु समन्तभद्रः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0