भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 67

67.1

मया कृतानि पापानि कायवाकचित्तसंचयैः ।
तत्सर्वं हर मे नाथ रक्ष मां लोकनायक ॥

67.2

नेपाले द्वादशाब्देषु अनावृष्टिर्महाभयम् ।
नरेन्द्रदेवं संस्थाप्य रक्ष मां लोकनायक ॥

67.3

मर्त्यभूमौ च पाताले दुःखिनो बहुलौकिकाः ।
सुखवृद्धिकरस्तेषां रक्ष मां लोकनायक ॥

67.4

यत्र यत्र गतस्तत्र सर्वसत्त्वानुकम्पया ।
समुद्धरसि पापेभ्यो रक्ष मां लोकनायक ॥

67.5

संसारे व्यापितो ऽहं तु कथं पारं प्रयास्यते ।
त्वमेव शरणं तत्र रक्ष मां लोकनायक ॥

67.6

सर्वदेवमयस्त्वं हि सर्वबुद्धमयस्तथा ।
सर्वसिद्धिमयश्चैव रक्ष मां लोकनायक ॥

67.7

सदा कृपामयस्त्वं हि सदा रक्षामयो ऽसि च ।
सदा प्रज्ञामयस्त्वं हि रक्ष मां लोकनायक ॥

67.8

येन येन कृतं कर्म तेन तेनैव धारितम् ।
यद्यदिच्छां प्रदातासि रक्ष मां लोकनायक ॥

67.9

सुखावतीं न संप्राप्तं यावद्धि सर्वसत्त्वकम् ।
तावत्संसारगर्ते ऽस्मिन् रक्ष मां लोकनायक ॥

67.10

ज्ञानिनां ज्ञानरूपो ऽसि दुःखिनां दुःखहारकः ।
कामिनां कामरूपो ऽसि रक्ष मां लोकनायक ॥

67.11

पूजनीयो ऽसि लोकेश प्रणवस्य स्वरूपधृक् ।
वन्दनीयः सदा त्वं हि रक्ष मां लोकनायक ॥

67.12

भर्ति वा भर्तिको वापि मित्रं वा शत्रुको ऽपि वा ।
सर्वत्र च दयायुक्तो रक्ष मां लोकनायक ॥

67.13

लोकनाथ जगत्स्वामिन् सुभक्तिकृतचेतसा ।
त्वां नमामि पुनर्भूयो रक्ष मां लोकनायक ॥

67.14

अनेकदुःखभागस्मि भीष्मैर्वै कष्टसंकटैः ।
दयस्व चावलोकेश मोचयस्व च मां क्षणात् ॥

67.15

सर्वदेक्षासुसम्पातं वर्तयन् कुरु मे ऽक्षयम् ।
अस्तु ते करुणा मह्यं भक्तिं चैवाचलां कुरु ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc