108 Buddhist stotras · अध्याय 66
अमरौघैः पूजितां त्वां नतो ऽस्मि प्रतिपदजनरक्षाकारिणीं सर्वकालम् ।
भृगुदहनसमुद्रापातदुःखे सुरक्षां रिपुविषभयहत्रीं राज्यभोगादिकर्त्रीम् ॥
परिवृतनिजवर्गान् भक्तदत्तापवर्गान् कलितदुरितवर्गान् मोक्षलाभैकमार्गान् ।
कृतनरसुरसर्गान् कारितानङ्गभङ्गान् स्तुतिकृतमुनिगर्गान् सर्वरक्षैकसङ्गान् ॥
प्रहृतसकलविघ्ने सर्वलोकैकमान्ये दशबलकृतधन्ये पञ्चदेवीवरेण्ये ।
विषमपदशरण्ये सर्वदा त्वां नमस्ये वसित इव अरण्ये दावदग्धे विरस्ये ॥
सकलजनसुवाञ्छापूरणे कामधेनुमभिलषितफलाप्त्यै कल्पवृक्षाग्रवल्लीम् ।
असुरसुरनराद्यैर्वन्दिताङ्घ्र्यब्जयुग्मामुरसि ललितानानारत्नमालादियुक्ताम् ॥
उडुपतिशतदीप्तां शङ्खकुन्दावदातां ग्रहभयपरिशान्तां वज्रसत्त्वात्मिकां ताम् ।
श्रवणललितलोले कुण्डले संवहन्तीं मुकुटमणिशिखाभिः काशितां तां नमामि ॥
जननि सकलदुःखात्तारणी त्वं प्रसीद सपदि विगतरक्षां रक्ष मे मातरं च ।
सकरुणरुदितं मां त्वद्दयास्वस्थभूतं कृतसरसिनिपातां त्वं गतिस्त्वं गतिर्नौ ॥
पठति प्रतिसरायाः स्तोत्रमेतत्सदा यो ज्वलनजलविषाणां चोरशार्दूलकानाम् ।
सगदनिधनकानां भीतया नाशयन्ती प्रतिपदमलभग्नं कामुना धैर्यलाभम् ॥
निजजनपरियुक्ता धर्मकामार्थवृद्धा रिपुगणपरिमुक्ता सौख्यमेव प्रभुक्ता ।
ददति विपुलभोग्यं कामदा सर्वदा ऽसौ निहतसकलपापं मोक्षमायान्ति चान्ते ॥
विगलितनयनाम्बुः साञ्जलिः संविलापी स्तुतिमिति प्रचकार त्रैभवानां जनन्याः ।
भवतु मम तु संपत् सर्वभावा कृशानो तनु कुशलसुरक्षा इत्थमेवं सुचित्तः ॥
विपचतु मयि सर्वं मादृशं कर्म भोग्यं ससुरनरचयानां भ्रातृमातृद्रुहाणाम् ।
कुरुत कुरुत धैर्यं येन मोक्षं सुलभ्यं जठरनिलयवासं मास्तु पापं कदाचित् ॥
उदरनरकवासं ये तदा सावतारं सततशुभसुचेताः साधयिष्यामि बोधिम् ।
कृतजगति सुरक्षां येन कैवल्यप्राप्तिः इति मुदितसुचेताः कर्मणा दिग्धचित्तः ॥
प्रतिसर अवतार्यां साम्बिकां मा विलम्ब अनिशमितिवदन् सो निन्दयन् वै स्वकर्म ।
प्रतिभयविषदिग्धस्तस्थिवानर्भकः सन् मुहुरिह हि शरण्यां तां स्मरन् सर्वरक्षाम् ॥
अहो सुधन्या जगदेकमाता प्रक्रान्तदैवा रिपुवर्गभीता ।
यस्याः प्रभावाद्विहितात्यपापात् प्रयाति वह्निर्जलशीतलत्वम् ॥
प्रभावताहो पुनरेव तस्याः वह्निं जलं चापि गिरिं स्थलं वै ।
यस्याः स्मृतेनैव सविस्मतीयान् वैश्वानरः प्राप द्विधाकृतिं ताम् ॥
गोपाशरीरं ह्रदपातशीतं शैतं त्वनाशार्थमिवाधिकोष्णाम् ।
दैवादिदत्ताभिजने समन्तान्नितान्तदूरादतिपापदत्ताम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0