108 Buddhist stotras · अध्याय 56
निरौपम्य नमस्तुभ्यं निःस्वभावार्थवादिने ।
यस्त्वं दृष्टिविपन्नस्य लोकस्यैव हितोद्यतः ॥
न च नाम त्वया किञ्चिद् दृष्टं बौद्धेन चक्षुषा ।
अनुत्तरा च ते नाथ दृष्टिस्तत्त्वार्थदर्शिनी ॥
न बोद्धा न च बोद्धव्यमस्तीह परमार्थतः ।
अहो परमदुर्बोधां धर्मतां बुद्धवानसि ॥
न त्वयोत्पादितः कश्चिद् धर्मो नापि निरोधितः ।
समतादर्शनेनैव प्राप्तं पदमनुत्तमम् ॥
न संसारात्प्रकर्षेण त्वया निर्वाणमीप्सितम् ।
शान्तिस्ते ऽधिगता नाथ संसारानपराधितः ॥
त्वं विवेदैकरसतां संक्लेशव्यवदानयोः ।
धर्मधात्वविनिर्भेदाद् विशुद्धश्चासि सर्वतः ॥
नोदाहृतं त्वया किञ्चिदेकमप्यक्षरं विभो ।
कृत्स्नश्च वैनेयजनो धर्मवर्षेण तर्पितः ॥
न ते ऽस्ति सक्तिः स्कन्धेषु न धात्वायतनेषु च ।
आकाशसमचित्तस्त्वं सर्वधर्मेषु निश्रितः ॥
सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते ।
दुःखार्तेषु च सत्त्वेषु त्वमतीव कृपात्मकः ॥
सुखदुःखात्मनैरात्म्यनित्यानित्यादिषु प्रभो ।
इति नानाविकल्पेषु बुद्धिस्तव न सज्जते ॥
न गतिर्नागतिः काचिद्धर्माणामिति ते मति ।
न क्वचिद्राशितः प्रोक्तो धर्मार्थपरमार्थवित् ॥
सर्वत्रानुगतश्चासि न च यातो ऽसि कुत्रचित् ।
जन्मधर्मशरीराभ्यामचिन्त्यस्त्वं महामुने ॥
एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् ।
संक्रान्तिनाशाय गतं बुद्धवान् त्वमनिन्दित ॥
शाश्वतोच्छेदरहितं लक्ष्यलक्षणवर्जितम् ।
संसारमवबुद्धस्त्वं स्वप्नमायादिवत् प्रभो ॥
वासनामूलपर्यन्तक्लेशनद्यो विनिर्जिताः ।
क्लेशप्रकृतितश्चैव त्वयामृतमुपार्जितम् ॥
अलक्षणं त्वया धीरं दृष्टं रूपमरूपवत् ।
लक्षणोज्ज्वलगात्रश्च दृश्यसे रूपगोचरे ॥
न च रूपेण दृष्टेन दृष्ट इत्यभिधीयसे ।
धर्मदृष्ट्या सुदृष्टो ऽसि धर्मता न च दृश्यते ॥
शौषीर्यो नास्ति ते कायो मांसास्थिरुधिरो न च ।
इन्द्रायुधमिव कायं विना दर्शितवानसि ॥
नामयो नाशुचिः काये क्षुत्तृष्णासम्भवो न च ।
त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया ॥
कर्मावरणदोषश्च सर्वथा ऽनघ नास्ति ते ।
त्वया लोकानुकम्पायै कर्मप्लोतिः प्रदर्शिता ॥
धर्मधातोरसंभेदाद् यानभेदो ऽस्ति न प्रभो ।
यानत्रितयमाख्यातं त्वया सत्त्वावतारतः ॥
नित्यो ध्रुवः शिवः कायस्तव धर्ममयो जिन ।
विनेयजनहेतोश्च दर्शिता निर्वृतिस्त्वया ॥
लोकधातुष्वसंख्येषु त्वद्भक्तैः पुनरीक्षसे ।
च्युतिजन्माभिसंबोधिचक्रनिर्वृतिलालसैः ॥
न ते ऽस्ति मन्यना नाथ न विकल्पो न चेञ्जना ।
अनाभोगेन ते लोके बुद्धकृत्यं प्रवर्तते ॥
इति सुगतमचिन्त्यमप्रमेयं गुणकुसुमैरवकीर्य मया प्राप्तम् ।
कुशलमिह भवन्तु तेन सत्त्वाः परमगभीरमुनीन्द्रधर्मभाजनाः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0