108 Buddhist stotras · अध्याय 55
दारिद्रयपङ्कसंमग्नं संसाराख्यमहोदधौ ।
प्रतिज्ञातं समुत्पादे त्राहि मां हि तथागत ॥
तिमिरागारसंविष्टमनर्थदुःखवेदिनम् ।
बन्धुवर्गैः परित्यक्तं त्राहि मां हि तथागत ॥
मातापितृभगिन्यादि पुत्रदारसुहृज्जनाः ।
इन्द्रजालसमा दृष्टास्त्राहि मां हि तथागत ॥
मया अरिजनस्यार्थे सुकृतं कर्म दुष्कृतम् ।
एकाकी तं हि भोक्ष्यामि त्राहि मां हि तथागत ॥
जीर्णकूपे महाघोरे अनवगाहसागरे ।
अन्धीभूतो ऽस्म्यहं नाथ त्राहि मां हि तथागत ॥
जीर्णनौइकासमारूढो महासागरलंघने ।
दुर्लङ्घ्यं च मया दृष्टं त्राहि मां हि तथागत ॥
धर्माधर्म न विज्ञातं गम्यागम्यं न वेदितम् ।
अचेतनो ऽस्म्यहं नाथ त्राहि मां हि तथागत ॥
मातृघातादिकं पञ्चानन्तर्यं वा मया कृतम् ।
पच्यामि नरके घोरे त्राहि मां हि तथागत ॥
कृतं मया स्तूपभेदं संघकार्यं विनाशितम् ।
कृता मया सत्त्वहिंसा त्राहि मां हि तथागत ॥
इहलोके सुखैर्हीनं परलोके न वेदनम् ।
वेष्टितं कर्मसूत्रेण त्राहि मां हि तथागत ॥
काशपुष्पं यथाकाशे भ्रमते वायुना हतम् ।
ईदृशं जीवितं लोके त्राहि मां हि तथागत ॥
अटवी कंटकाच्छन्ना बहुवृक्षसमाकुला ।
पन्थानं नात्र पश्यामि त्राहि मां हि तथागत ॥
अनपराधाः कुपितेन मया ऽकाण्डे हता मृगाः ।
राजहत्यां तदा मन्ये त्राहि मां हि तथागत ॥
नरके पच्यमानस्य कश्चित् त्राता भविष्यति ।
गच्छामि शरणं कस्य त्राहि मां हि तथागत ॥
वैद्यानां वैद्यराजस्त्वं सर्वव्याधिचिकित्सकः ।
लोकनाथ भवत्राता त्रैलोक्ये सचराचरे ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0