108 Buddhist stotras · अध्याय 57
नमो बुद्धाय न जातो न मृतश्चैव न रूपो नापि रूपवान् ।
न संसारे न निर्वाणे न कारस्तेन सूच्यते ॥
मोहध्वंसकरो नित्यं मोक्षसौख्यप्रदायकः ।
मोहनं सर्वमाराणां मोकारस्तेन सूच्यते ॥
बुद्धानामुदितं ध्यानं बुद्धानां जनमेलकम् ।
बुद्धनिःक्लेश संबुद्ध बुकारस्तेन सूच्यते ॥
धार्यते बोधिसत्त्वैः स धर्मधातुगतिः सदा ।
धर्माणां परमो धर्मः धकारस्तेन सूच्यते ॥
यथा नास्ति तथा नास्ति यथा नास्ति तथास्ति यः ।
यथावादी तथाकार्ः यकारस्तेन सूच्यते ॥
पञ्चाक्षरमिदं पुण्यं पवित्रं पापनाशनम् ।
ये पठन्ति दिवारात्रौ ते यान्ति परमां गतिम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0