भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 51

51.1

श्रीमञ्जुनाथकमलासनरत्नमौलिर्विद्याधिपो भुवनमण्डलचक्रवर्ती ।
ध्यानाधिपोचितविराजितसौम्यरूपो वन्दामहे सुरनरासुरवन्दितार्यम् ॥

51.2

बालाकृतिः कुवलयोज्ज्वललोलहस्तः केयूरहारमणिकुण्डलघृष्टगण्डः ।
खादंश्च षोडशरदं सुकुमाररूपं वन्दामहे सुरवरार्चितमञ्जुघोषम् ॥

51.3

रोमाग्रकूपविवरे परिवर्तमानं विश्वप्रपञ्चकरणं सुगतात्मजस्य ।
त्रैविद्यमन्त्र तव नाथ गुणार्णवेण सूक्ष्माय बुद्धतनयाय नमो ऽस्तु तस्मै ॥

51.4

गम्भीरधर्मनयमार्गसुखप्रतिष्ठं ज्ञानोदधिं निखिलसत्त्वकृतार्थकारम् ।
प्रज्ञानिधानगुणसागरमप्रमेयं मञ्जुश्रियं जिनसुतं सततं नमामि ॥

51.5

विदितसकलतत्त्वः क्षिप्तसन्तापसत्त्वस्त्रिभुवन उपकारी सर्वदुःखापहारी ।
मदनमथनवीरश्चारुरूपः सुचीरस्त्रिभुवनजनतोषः पातु मां मञ्जुघोषः ॥

51.6

बालेन्दुरुचिराभासं वराभरणभूषितम् ।
प्रज्ञाब्जामलपत्राक्षं वन्दे मञ्जुश्रियं सदा ॥

51.7

पात्रं वामकरे यस्य भ्रमन्नञ्जलिसंनिभम् ।
नाम्ना ते सर्वतो लक्ष्मीर्मञ्जुघोषं नमाम्यहम् ॥

51.8

खड्गपुस्तकहस्ताय चन्द्रमण्डलवर्तिने ।
अज्ञानध्वान्तसूर्याय मञ्जुघोषाय ते नमः ॥

51.9

ज्ञानोत्तरप्रभाकेतुं प्रणिधानमतिं तथा ।
शान्तेन्द्रियं मञ्जुघोषं भक्तितः प्रणमाम्यहम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc