भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 50

50.1

मञ्जुश्रीर्लोकनाथो जिनवरमकुटो जम्भलो वज्रसत्त्व मैत्रेयो वज्रपाणिः सुखकरकमलो राहुलो भद्रपालः ।
बुद्धो वैरोचनाद्यस्त्रिभुवननमितः क्षीणनिःशेषदोष स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥

50.2

हृष्टो हूंकारवज्रः पशुपतिदमको वज्रघण्टा च हृष्ट् पीतो हालाहलास्यो रिपुगणमथनो टक्किराजो महात्मा ।
अक्षोभ्यो रत्नकेतुः प्रतिदिनमचलो गण्डहस्तिर्यमारि स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥

50.3

संघस्त्रैलोक्यबन्धुर्गुणगणनिलयो बोधिचित्तः सुचित्तः बोधिश्चानन्दसिद्धो विजितकलिमलो हेरुको नीलदण्डः ।
बुद्धः सारङ्गराजो विजितजिनगुणो सर्वसत्त्वानुकम्पी तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥

50.4

प्रज्ञा चन्द्रावतारा तदनुजभृकुटी ज्ञानसंभारभार् मारीची मारमारा सकलभयहरा पीतवर्णा त्रिवक्त्रा ।
मायूरी मामकी च क्षपितरिपुगणा पाण्डरा रोचनाद्या स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥

50.5

गान्धारी जाङ्गुली च भुजगहृतफणा खड्गपाशाङ्कुशोग्रा वाराही वज्रहस्ता असिपरशुधरा धर्मधात्वीश्वरी च ।
केयूरी ज्ञानसारा ध्वजनिहितकरा षट्करा शाबरी च तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥

50.6

वैण्या माल्या सुगीता प्रथितजिनवरे शाबरी धूपवज्रा वैताली गन्धवज्रा प्रहसितवदना स्वर्गतिरार्यतारा ।
लक्ष्मीर्बुद्धस्य बोधिः सकलभयहरा शारदा दीपवज्रा तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥

50.7

वैशाल्यां धर्मचक्रे प्रथितनिजबले पर्वते गृध्रकूटे श्रावस्त्यां लुम्बिनीके क्षितिनिहितकरा कोंकणे बोधिवृक्षा ।
श्रीवत्साश्वत्थपत्रं सुरवरनमितं श्रीफलं शङ्खचक्रं तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥

50.8

छत्रं दूर्वा च पद्मं ध्वजमपि निहितं लो(रो)चना मत्स्यकूर्म वाराहः पूर्णकुम्भो मुनिवरवचनं वज्रघण्टानिनादः ।
बुद्धानां प्रातिहार्यं सुरवरनमितं हास्यलास्ये विलासा स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc