108 Buddhist stotras · अध्याय 49
येन पुण्याटवीस्थेनानेके शासनवर्तिनः ।
दिवोदासादयो भूपाः स नो रक्षतु मारजित् ॥
लोकानां ग्रहबद्धानां रक्षार्थं पुण्यकानने ।
ग्रहानदमयद् यो वै स नो रक्षतु तद्भयात् ॥
काश्यपाद्यान् महर्षींस्तान् आनन्दाद्यांश्च ब्राह्मणान् ।
प्राव्राजयत् सुमुक्त्यर्थं स नो रक्षतु मुक्तिदः ॥
सौवर्णधान्यदानेन दीनं विप्रमपालयत् ।
दुर्भिक्षभयतो नित्यं स नो रक्षतु शाक्यराट् ॥
यो मैत्रकन्यको भूत्वा मातृद्रोहिणमत्यगात् ।
चक्रं दूरीकृतं येन स नो रक्षतु मातृवान् ॥
सुप्रियो बदरद्वीपयात्राप्तमणिवृष्टिभिः ।
काशीयान् प्राकरोदाढ्यान् स नो रक्षतु काञ्चनैः ॥
भूत्वा यः सुधनो नाम निधानं समदर्शयत् ।
दारिद्रयदुःखतो नित्यं स नो रक्षतु सर्ववित् ॥
कुष्ठादिरोगहरणे राजगृहमुपाविशत् ।
तत्तद्रोगभयान्नित्यं स नो रक्षतु धर्मराट् ॥
यः कुशो भूपतिर्भूत्वा ऽष्टमीमाहात्म्यमुत्तमम् ।
प्रकाशयन्निजे देहे स नो रक्षतु धर्मवित् ॥
सौदासं सत्यवचसा काश्यामस्थापयन्नृपान् ।
बन्धनान्मोचयामास स नो रक्षतु सर्ववित् ॥
गोपान् ररक्ष यो देव्याः प्रभावं संप्रकाशयन् ।
वह्निदाहारिभयतः स नो रक्षतु भीतिहा ॥
यो ऽन्धीभूतां मातरं स्वां चूडारत्नं जले व्यधात् ।
दिव्यनेत्रान् जनान् कृत्वा स नो रक्षतु नेत्रदः ॥
विरूपं प्राकरोत् पुत्रं छायासीनं सुसुन्दरम् ।
सर्वलक्षणसम्पन्नं स नो रक्षतु सर्वदः ॥
सकलानन्दनामानं राज्ये यः प्राभ्यषेचयत् ।
सन्ततिस्थितिकुर्वाणः स नो रक्षतु स्थैर्यकृत् ॥
विषदं भ्रातरं यश्चाक्षमद् भिक्षुन् विषाशिनः ।
ररक्ष धारणीविज्ञः स नो रक्षतु निर्विषः ॥
श्रीस्वयंभुदर्शनाय नैपालीयान् प्रयासितुम् ।
कपिलान् प्रस्थितो यो ऽसौ स नो रक्षतु सन्ततम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0