भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 48

48.1

घोररूपे महारावे सर्वशत्रुक्षयङ्करि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥

48.2

सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥

48.3

सर्वमण्डल(मध्यस्थे) सर्वसत्त्वहिते ऽनघे ।
सिद्धानां पूजिते देवि त्राहि मां शरणागतम् ॥

48.4

घोररूपस्थिते देवि सर्वप्राणहरे स्तुते ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥

48.5

जटाजूटसमायुक्ते ललज्जिह्वोर्ध्वकारिणि ।
द्रुतबुद्धिप्रदे देवि त्राहि मां शरणागतम् ॥

48.6

सोमरूपे कोट्टरूपे चन्द्ररूपे नमो ऽस्तु ते ।
शक्तिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥

48.7

जडो ऽहं शक्तिहीनो ऽहं न तवाधिगमे क्षमः ।
मन्दो मन्दमतिश्चाहं त्राहि मां शरणागतम् ॥

48.8

स्नाने दाने तथा जाप्ये बलिदाने तथा क्रतौ ।
प्रस्थाने च न शक्तो ऽहं त्राहि मां शरणागतम् ॥

48.9

शक्तिहीनमनाथं च सर्वपापसमन्वितम् ।
त्वां विना न गतिर्यस्य त्राहि मां शरणागतम् ॥

48.10

गौरी लक्ष्मीर्महामाया उमा देवी सरस्वती ।
सर्वास्त्वमेव हे मातस्त्राहि मां शरणागतम् ॥

48.11

गन्धपुष्पादिद्रव्यैश्च वन्धनादिभिरेव च ।
देवीं सम्पूज्य यत्नेन लभते वाञ्छितं फलम् ॥

48.12

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
परमां सिद्धिमाप्नोति नात्र कार्या विचारणा ॥

48.13

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥

48.14

इदं स्तोत्रं पठित्वा तु संग्रामे प्रविशेन्नरः ।
तस्य शत्रुः क्षयं याति सदा प्रज्ञा प्रजायते ॥

48.15

पीडायामथ संधाने विपदायां तथा भये ।
य इदं पठते स्तोत्रं शुभं तस्य न संशयः ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc